सन्धिनी
sandhinīस्त्री · fem.In 10 kośas: 8 synonym verses, 4 as a nānārtha head word.
वशा वन्ध्यावतोका तु स्रवद्गर्भाथ सन्धिनी ।आक्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
वृषोपगा स्रवद्गर्भा वतोका सन्धिनी वशा ।प्रजनोपसरौ कालः प्रस्रवासन्नकालके ॥ ४५८ ॥
अनुष्टुप्
genderस्त्रीfem.
धेनुर्नवप्रसूतिर्गौर्बहुसूतिः परेष्टुका ।अभिवन्यान्यवत्सा गौर्वृषाक्रान्ता तु सन्धिनी ॥ ८९ ॥
अनुष्टुप्
genderस्त्रीfem.
स्रवद्गर्भावतोका स्यात्सन्धिनी तु वृषावृता ।नवप्रसूतिका धेनुः परेष्टुः स्याद्बहुप्रसूः ॥ १७६ ॥
अनुष्टुप्
genderस्त्रीfem.
अवतोका स्रवद्गर्भा स्यादवस्रुतगर्भिणी ।वृषाकान्ता तु माहेयी सन्धिनी हादिनीति च ॥ ४९८ ॥
अनुष्टुप्
genderस्त्रीfem.
अवतोका स्रवद्गर्भा वतोका गर्भनाशिनी ।सन्धिनी च वृषाक्रान्ता शण्डसंयोगकारिणी ॥ २२८६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्रवद्गर्भा वतोका स्याद् वृषाक्रान्ता तु सन्धिनी ।कालप्राप्ता वृषरते उपसर्याभिधीयते ॥
अनुष्टुप्
genderस्त्रीfem.
अभिवान्यान्यवत्सा गौर्वृषाक्रान्ता तु सन्धिनी ।आपीनमूधो वृन्तं तु स्तनो वत्सस्तु तर्णकः ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.
वाणिनी नर्तकी मत्ता विदग्धा च स्मृता बुधैः ।संधिन्यकालदुग्धा गौर्वृषाक्रान्ता च संधिनी ॥
अनुष्टुप्
doubtful
स्यन्दिनी त्वपि लालायां गोभेदे च क्षरत्स्तने ।सन्धिनी त्वप्यकाले या दुग्धा गोस्तत्र केचन ॥ १०१ ॥
अनुष्टुप्
meaningsअकालदुग्धा
द्विकालदोह्या सत्येककालं गौर्दुह्यते हि या ।तत्रेत्यन्ये परे त्वाहुर्वृषाक्रान्तगीष्विति ॥ १०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
सन्धानं स्यात्संघट्टनेऽभिषवेऽपि च न द्वयोः ।सम्पन्नं साधिते क्लीबं सम्पत्तिसहितेऽन्यवत् ।सन्धिन्यकालदुग्धासु वृषाक्रान्तासु गोषु च ॥
अनुष्टुप्metre not read in every line