स्तन
stanaपुं · masc.In 18 kośas: 22 synonym verses, 9 as a meaning of another word.
स्तनान्तरं हृद्धृदयं स्तनौ कुचौ पयोधरौ ।उरोजौ च चूचुकं तु स्तनाद्वृन्तशिखामुखाः ॥ ६०३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable); pāda 3, syllable 4 च (wrong syllable)
genderपुंmasc.
पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ ।
अनुष्टुप्
genderपुंmasc.
उरसिजकुचवक्षोरुहपयोधराः स्तनसमाननामानि ।उक्ताः कुचमुखचूचुकवृन्तानि शिखा च तुल्यानि ॥ ५२६ ॥
आर्या
genderपुंmasc.
भुज-दृष्टि-पाद-कर्ण-स्तनसंख्या रामलक्ष्मणौ शृङ्गम् ।गजदन्तौ प्रीति-रती गङ्गागौर्यौ विनायकस्कन्दौ ॥ ३ ॥
गीतिः
genderपुंmasc.
वक्षःपर्यायरुहरुड्जार्थौ कूचौ कुचावपि ।धरणौ तावुरसिजावुरोजावपि च स्तनौ ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
पुंलिङ्गमृतुहस्तौष्ठकोष्ठाधूनां नखस्य च ।कपोलकेशदिवसरसानां स्तनगुच्छयोः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दो निनादो निनदो नदोऽपिनादो ध्वनि-ध्वान-रवारवाः स्युः ।आराव-संराव-विराव-घोष-निर्घोष-निःस्वान-रण-स्तनाश्च ॥ ५६ ॥
इन्द्रवज्रा
genderपुंmasc.
[85a]ललाटकण्ठजठरस्थिता रेखा वलिर्द्वयोः ।स्तनौ कुचौ कुचौ वक्षोरुहौ तौ च पयोधरौ ।तदधः स्तनमूलं स्यादूर्ध्वं तु स्तनरोहितम् ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
कण्ठस्तनबाहूनां सञ्ज्ञा पुंसि स्त्रियां भवेद्ग्रीवा ।पृष्ठललाटांशोदरजत्रूणि नपुंसकानि स्युः ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कण्ठसञ्ज्ञाः स्तनसञ्ज्ञाः बाहुसञ्ज्ञाश्च पुंसि भवन्ति । अयं कण्ठः । गल इत्यादिः । स्तनसञ्ज्ञाश्च । अयं स्तनः कुचः पयोधर इत्यादिः । बाहुसञ्ज्ञाश्च भुजस्तरणः धरणः चालन इत्यादिः । कण्ठसञ्ज्ञत्वाद्ग्रीवाशब्दस्यापि पुंसि प्रयोगः प्राप्नोतीत्याह । स्त्रियां भवेद्ग्रीवा । ग्रीवाशब्दस्य स्त्रीलिङ्गता भवति । इयं ग्रीवा शिरोधरा कन्धरा इत्येवमादयः । पृष्ठादयः शब्दा नपुंसके स्युः । तद्यथा । इदं पृष्ठं पार्श्वयोर्यष्टिः । इदं ललाटं भ्रुवोरुपरिस्थानम् । इदमंसः[श] स्तनयोरुपरिस्थानम् । इदमुदरं जठरः । इदं जत्रु स्कन्धसम्बन्धि । इत्येवमादयः ।ऊर्म्मिध्वन्यञ्जलयः पुंस्योष्ठकपोलगुल्फसञ्ज्ञाश्च ।घञ्चैरच्च ऋदोरप्च स्याद्बहुलमन्धकारश्च ॥ १६ ॥
metre not recognised
genderपुंmasc.
आपीनमूधो वृन्तस्तु स्तनो वत्सस्तु तर्णकः ।उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वशी ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
नासा घ्राणम् उरो वक्षः कुक्षिः स्याज्जठरोदरम् ।स्तनः पयोधरकुचौ वक्षोज इति वर्णितः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
स्तनौ कुचौ समौ प्रोक्तावुरोजौ तु पयोधरौ ।चूचुकं स्तनवक्त्रं तु स्तनवृन्तं स्तनाच्छिखा ॥ २६२ ॥
अनुष्टुप्
genderपुंmasc.
हस्तदन्तनखौष्ठान्धुगुच्छगुल्फपतद्ग्रहाः ।स्तननाककपोलारिरसवोलरथाः समाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
पृष्ठवंशो मेरुदण्डः पृष्ठं पृष्ठस्थलं त्रिकम् ।कुचस्तनो हृदयजो नीलवक्त्रः पयोधरः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
स्तनौ कुचावुरोजौ च वक्षोजौ च पयोधरौ ।उदरं जठरं तुन्दं पिचण्डः कुक्षिरेव च ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
स्तनौ कुचौ च वक्षोजौ धरणौ च पयोधरौ ।उरसिजौ तथोरोजौ जानीयान्नाम सप्तकम् ॥ ९७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)
genderपुंmasc.
कुचः कूचः उरोजः स्याद् वक्षोजः स्यात् पयोधरः ।स्तनो वक्षोरुहश्चापि तथोरसिज इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
मध्यमं चावलग्नं स्याद् विलग्नं मध्यमस्त्रियाम् ।स्तनौ कुचौ तयोरग्रं चूचुकं भुजमूर्ध्नि तु ॥ १०६९ ॥
अनुष्टुप्
genderपुंmasc.
अवटव्रातसङ्केतपोतगर्तगरुच्छदाः ।श्लेमोष्मपापयक्ष्माश्मात्मानो वातायनः स्तनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
अभिवान्यान्यवत्सा गौर्वृषाक्रान्ता तु सन्धिनी ।आपीनमूधो वृन्तं तु स्तनो वत्सस्तु तर्णकः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
हृदयं हृदुरो वक्षः स्तनो वक्षसिजः कुचः ।स्तनाग्रे पिप्पलं वृन्तं चूचुकं मेचकं शिखा ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
स्तन as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप उरस्यउपस्थोऽस्त्री भगे मेढ्रेऽप्युत्सङ्गेऽप्यौरसे पुनः । उरस्यो द्वे सुते ना तु स्तने त्रिस्तूरसा सह ॥ २५३ ॥ Nānārthārṇavasaṃkṣepa 4.253
- नानार्थार्णवसंक्षेप गोस्तनगोभिश्च सेविते देशे केचित् त्वर्थेऽत्र भेद्यवत् । गोस्तनो ना चतुर्यष्टिहारभेदे गवां स्तने ॥ ६८३ ॥ Nānārthārṇavasaṃkṣepa 4.683
- नानार्थार्णवसंक्षेप धारणस्तने धातरि लोकेऽर्के सलिले तु नपुंसकम् । धर्णसिस्तु पुमाञ्छैले सलिले तु नपुंसकम् ॥ ९७७ ॥ Nānārthārṇavasaṃkṣepa 4.977
- नानार्थार्णवसंक्षेप बलूरस्तने च द्वे तु मत्स्येऽथ बहिष्ठं स्यान्नपुंसकम् । ह्रीबेरे त्रिस्तु महति काके तु बलिभुग्द्वयोः ॥ १२४१ ॥ Nānārthārṇavasaṃkṣepa 4.1241
- नानार्थार्णवसंक्षेप पयोधररविवह्योरथो पङ्करसः शीधौ तथा रसे । पङ्कस्याथाम्बुदे स्त्रीणां स्तने मु(क्ते ? स्ते) पयोधरः ॥ ८१ ॥ Nānārthārṇavasaṃkṣepa 6.81
- शब्दरत्नावली वामवामः स्तने हरे कामे पुंसि क्लीबं धनेऽपि च । चारुप्रतीपसव्येषु नार्यामपि वामा स्त्रियाम् ॥ Śabdaratnāvalī 7.25.21
- शब्दरत्नावली पयोधरपरम्परा परिपाट्यां तथा सन्तानहिंसयोः । पयोधरः कोषकारे नारिकेले घने स्तने ॥ Śabdaratnāvalī 7.27.135
- वैजयन्ती धरुणद्रुहिणौ हरिधातारौ शास्त्रोदाहरणयोस्तु दृष्टान्तः । दोषज्ञौ बुधभिषजौ धरुणाः स्तनधातृलोकार्काः ॥ ३२ ॥ Vaijayantī 7.1.32
- वैजयन्ती पयोधरद्वारद्वार्स्थौ प्रतीहारौ स्तनांभोदौ पयोधरौ । काशे नडे पोटगलः पवमानोऽग्निवातयोः ॥ २७ ॥ Vaijayantī 8.1.27