सवयस्
savayasपुं · masc.In 11 kośas: 11 synonym verses.
वैरं विरोधो विद्वेषो वयस्यः सवयाः सुहृत् ।स्निग्धः सहचरो मित्रं सखा सख्यं तु सौहृदम् ॥ ७३० ॥सौहार्दं साप्तपदीनमैत्त्र्यजर्याणि संगतम् ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 3, syllable 6 प्र (wrong syllable)
genderपुंmasc.
वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् ।
अनुष्टुप्
genderपुंmasc.
वैरानुबन्धी योन्यार्थमुपनाहः स उच्यते ।वयस्यः स्निग्धः सवयाः स्नेह्यः पांशुलकः सखा ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
भ्रातृव्यश्चाहितो(तः) सध्र्यङ् वयस्यः सवयाः सुहृत् ।सजूः स्निग्धः सहचरः सखा मित्रं नपुंसकम् ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
वयस्याऽली सहचरी सध्रीची सवयाः सखी ।आलीविवर्जितं मित्रं सम्बन्धो मित्रयुक् सुहृत् ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
विद्वेषे तु विरोधः स्याद्वैरं तत्र निगद्यते ।सखा मित्रं सुहृत्स्निग्धः सवयाः सहचरस्तथा ॥ ३५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 सव (syllable split)
genderपुंmasc.
मित्रे वयस्यः सवयाः सखा च सुहृदित्यपि ।चारे यथार्हवर्णः स्यात्प्रणिधिः स्पश इत्यपि ॥ २६१ ॥
अनुष्टुप्
genderपुंmasc.
मित्रं सखा सहचरौ वयस्यः सवयाः सुहृत् ।आली सखी वयस्या च सध्रीची सहचारिणी ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
मित्रं सखा सहायश्च वयस्यः सवयास्तथा ।सुहृत् साप्तपदीनश्च स्निग्धः सहचरो भवेत् ॥ ११९३ ॥
अनुष्टुप्
genderपुंmasc.
वयस्ये सवयाः स्निग्धः सहपांशुकिलोऽपि च ।मित्रं सखा सुहृच्चैव सख्यं साप्तपदीनवत् ॥
अनुष्टुप्
genderपुंmasc.
मित्रं सखा सुहृत् स्निग्धो वयस्यः सवया अपि ।अनुरोधोऽनुवृत्तिः स्यादनुसारोऽनुकूलनम् ॥ १२८४ ॥
अनुष्टुप्
genderपुंmasc.