कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सहाय

sahāyaपुं · masc.

In 19 kośas: 22 synonym verses, 1 as a nānārtha head word, 33 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.206 · p. 23
सहायोऽभिचरोऽनोश्च जीविगामिचरप्लवाः ।सेवकोऽथ सेवा भक्तिः परिचर्या प्रसादना ॥ ४९६ ॥शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः ।उपचारः पदातिस्तु पत्तिः पद्गः पदातिकः ॥ ४९७ ॥पादातिकः पादचारी पदाजिपदिकावपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 से (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.63 · p. 3
सहायसाप्तपदीनौ सख्यावसुहृदप्यरौ ॥ ६३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.71
अनुप्लवः सहायश्चानुचरोऽभिचरः समाः ॥ ७१ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.428 · p. 49
मित्रं सखा वयस्यश्च सुहृत्स्निग्धश्च कथ्यते ।अनुजीवी सहायः स्यात्सेवकोऽनुचरोऽनुगः ॥ ४२८ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.335 · p. 96
अभिहारस्त्वभिचरः सहायोऽनुप्लवोऽनुगः ।क्षुद्रोपकरणे चास्य अध्यक्षः पारिकर्मिकः ॥ ३३५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.240 · p. 115
चर्मी फलकपाणिः स्यात् पताकी वैजयन्तिकः ।अनुप्लवः सहायश्च चतुराभिचरौ समौ ॥ २४० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.59 · p. 241
हृल्लेखस्तर्क उत्सिक्त उद्धतो राजमल्लकः ।प्रमुखं तु तदात्वं स्यात्सहायाः सहभाविनः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.120 · p. 331
भूरिप्रेमा द्वन्द्वचारी रथाङ्गो राविषोऽपि च ।कामी सहायो गोनर्दः कान्तोऽथ मणितारकः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.95 · p. 262
सहकृत्वा सहायः स्यादनुगाम्यप्यनुप्लवः ।भवेदनुचरश्चाभिसरः पत्त्यादयस्त्रिषु ॥ ९५ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.100 · p. 315
भिषक्सहाय-भेषजामयाविनश्चतुर्गुणाः ।चिकित्सितस्य पादकाश्चिकित्सकैर्निरूपिताः ॥ १०० ॥
पञ्चचामरम्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 42 · p. 21
सहकृत्वा सहकारी सहायः सामवायिकः ।सनाभिः सगोत्रो बन्धुश्च सोदर्यः अवरजोऽनुजः ॥ ४२ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.161 · p. 121
अत्यन्तीनोऽपि तत्रैव सहायः सेवकः समौ ।अनुप्लवोऽभिगामी चानुगाम्यभिचरस्तथा ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.335 · p. 67
अथ प्रोक्तस्त्वनुचरेऽभिचरोऽनुप्लवो वशी ।सहायश्च पुरोगे तु प्रतिष्ठश्च पुरःसरः ॥ ३३५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण क्षत्रियप्रकरणम् Śabdacandrikā 5.2.23 · p. 43
सखा सहाय इष्टोऽपि सहकृत्सहचारिकः ।हस्त्यश्वरथपादातं बलं स्याच्चतुरङ्गकम् ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.773 · p. 111
अनुगोऽनुचरश्चैवाऽनुप्लवोऽभिचरस्तथा ।सहायश्चानुगामी चाऽऽनुजीवी स्यात् च सेवकः ॥ ७७३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1193 · p. 187
मित्रं सखा सहायश्च वयस्यः सवयास्तथा ।सुहृत् साप्तपदीनश्च स्निग्धः सहचरो भवेत् ॥ ११९३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.302 · p. 131
चर्मी फलकपाणिः स्यात् चर्मीणः फलकालकः ।पताकाधारके पुंसि पताकी वैजयन्तिकः ॥सहायोऽनुप्लवश्चानुचरोऽभिसर इत्यपि ।प्रतिक्षसः सदारक्षः प्रतिष्कशश्च कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्क (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1363 · p. 165
अभिद्विषो यानमभिक्रमः स्यात् समौ रणे भङ्गपराजयौ द्वौ ।अनुप्लवस्त्वनुचरः सहायोऽभिसरोऽनुगः ॥ १३६३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 219 · p. 542
सहायस्तु सयात्रः स्यात् ॥ २१९ ॥
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.16 · p. 89
एकीया एकपक्षाः स्युः सहायाः सहभाविनः ।कुलीरास्थ्ये गविर्जानपदा राष्ट्रनिवासिनः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.16 · p. 105
छत्रं स्यादातपत्रं तन्नृपलक्ष्म नृपस्य चेत् ।अभिसारस्त्वनुचरः सहायोऽनुप्लवोऽनुगः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.43 · p. 107
मित्रं नपुं त्रिषु स्निग्धवयस्येष्टहितप्रियाः ।निजात्मीयाप्तसुहृदः सहायः सद्रुचिः सखा ॥ ४३ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1892 · p. 212
बहुन्यपि सहायस्तु द्वे सख्यौ त्रि तु सेवके ।सर्वौघस्तु पुमान् राज्ञां सर्वसन्नहनेऽथ नप् ॥ १८९२ ॥
अनुष्टुप्

सहाय as a meaning in nānārtha verses