कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सौहृद

sauhṛdaक्ली · neut.

In 15 kośas: 13 synonym verses, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.509 · p. 30
वैरं विरोधो विद्वेषो वयस्यः सवयाः सुहृत् ।स्निग्धः सहचरो मित्रं सखा सख्यं तु सौहृदम् ॥ ७३० ॥सौहार्दं साप्तपदीनमैत्त्र्यजर्याणि संगतम् ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 3, syllable 6 प्र (wrong syllable)
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.706 · p. 81
सख्यं साप्तपदीनं सौहार्दं सौहृदं तथा स्नेहः ।मैत्री प्रीतिरजर्यं सभाजनं सङ्गतं प्रोक्तम् ॥ ७०६ ॥
metre not recognised
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.102 · p. 75
वैरं विरोधो विद्वेषमीर्ष्या मात्सर्यमुन्नतिः ।स्नेहस्तु प्रेमसौहार्दसौहृदेऽप्यभिधीयते ॥ १०२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.51 · p. 240
चापल्यमथ सौहार्दं सौहृदप्यं च सौहृदम् ।इत्यादयः क्रियाशब्दा ऊह्या धातुजलक्षणैः ॥ ५१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.52 · p. 249
अजर्यं संगतं सख्यं सौहार्दं * [सौ] हृदं तथा ।तथा साप्तपदीनं स्यान्मैत्री [109b] स्त्रीक्लीबयोर्भवेत् ॥ ५२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 197 · p. 91
सौहार्दं सौहृदं हार्दं सौहृद्यं सख्यसौरभम् ।मैत्री मैत्रेयिकाजर्यं सहाय्यं संगतं मतम् ॥ १९७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.352 · p. 145
वयस्यस्तु समानोऽसौ सौहृदं सख्यमुच्यते ।मैत्री साप्तपदीनं तु सौहार्देऽजर्यमित्यपि ॥ ३५२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.78 · p. 27
क्रीडा लीला विलासश्च केलिर्नर्म रतिर्द्रवः ।स्नेहः प्रीतिः प्रेमरागौ मैत्री सख्यं च सौहृदम् ॥ ७८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1194 · p. 187
सौहार्दं सौहृदं सख्यमजर्यं सङ्गतं तथा ।मैत्री साप्तपदीनं च मित्रता नाम कथ्यते ॥ ११९४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.253 · p. 209
मित्त्रशब्दो द्वितकारः, सख्ये सौहार्द-सौहृदे ।मैत्त्र्यं मैत्त्री, हेरिके तु चरश्चारोऽवसर्प्यवत् ॥ २५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.974 · p. 122
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा ह्रीतिरपत्रपा ।व्रीडं स्नेहः पुमान् प्रेमा प्रियता प्रेम सौहृदम् ॥ ९७४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1285 · p. 157
सख्यं साप्तपदीनं स्यान्मैत्री मैत्रं च सौहृदम् ।अपसर्पश्चरश्चारः प्रणिधिर्गूढपूरुषः ॥ १२८५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.186 · p. 98
स्नेहोऽस्त्री प्रेम सौहार्दमजय्यं हार्दसौहृदे ।आनन्दनं संगतं स्यादप्रच्छन्नं सभाजनम् ॥ १८६ ॥
अनुष्टुप्
genderक्लीneut.

सौहृद as a meaning in nānārtha verses