प्रणिधि
praṇidhiपुं · masc.In 17 kośas: 15 synonym verses, 7 as a nānārtha head word, 8 as a meaning of another word.
अनुवृत्तिस्त्वनुरोधो हेरिको गूढपूरुषः ।प्रणिधिर्यथार्हवर्णोऽवसर्पो मन्त्रविच्चरः ॥ ७३३ ॥वार्तायनः स्पशश्चार आप्तप्रत्ययितौ समौ ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 नु (wrong syllable); pāda 3, syllable 4 र्य (wrong syllable)
genderपुंmasc.
यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः ।चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
अपसर्पश्चरश्चारः प्रणिधिर्गूढपूरुषः ।यथार्थवर्णो मन्त्रज्ञः स्पशो हेरक उच्यते ॥ ४२५ ॥
अनुष्टुप्
genderपुंmasc.
सर्वे पृथुप्रभृतयो मताः सौखरयो नृपाः ।यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
चरश्चारः स्पशो वार्तायनश्च प्रणिधिश्च सः ।अवसर्पो मन्त्रवेत्ता हेरीको गूढपूरुषः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderपुंmasc.
चौरैकागारिकस्तेनास्तस्करः प्रतिरोधकः ।निशाचरो गूढनरो हेरिकः प्रणिधिश्च सः ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
चारोऽवसर्पः प्रणिधिर्निगूढपुरुषश्चरः ।तद्वानुक्तः सहस्राक्षः सत्यार्थे सूनृतं ऋतम् ॥ १८२ ॥
अनुष्टुप्
genderपुंmasc.
चरो यथार्हवर्णः स्याद्गूढपूरुषहेरिकौ ।अनुरोधानुवृत्ती त्ववसर्पः प्रणिधिः समौ ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
मित्रे वयस्यः सवयाः सखा च सुहृदित्यपि ।चारे यथार्हवर्णः स्यात्प्रणिधिः स्पश इत्यपि ॥ २६१ ॥
अनुष्टुप्
genderपुंmasc.
अवसर्पः स्पशश्चारो हेरिकः प्रण(णि)धिश्चरः ।संदेशहारको दूतः पान्थस्तु पथिकोऽध्वगः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
स्पशो यथार्हवर्णश्च वार्त्तायनश्च हेरिकः ।प्रणिधिश्चेति नामानि कथयन्ति चरस्य वै ॥ ११९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
genderपुंmasc.
प्रणिधिर्गूढपुरुषः प्रतिष्कसप्रतिष्कशौ ।परः स्पशो गुप्तगतिर्मन्त्रगूढो हितप्रणीः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्क (wrong syllable)
genderपुंmasc.
सख्यं साप्तपदीनं स्यान्मैत्री मैत्रं च सौहृदम् ।अपसर्पश्चरश्चारः प्रणिधिर्गूढपूरुषः ॥ १२८५ ॥
अनुष्टुप्
genderपुंmasc.
कृत्यज्ञेयो यथा वर्णश्चारः प्रणिधिरेव च ॥ ७३ ॥
genderपुंmasc.
खड्गधेनुदले फेने परञ्जस्तैलपत्रके ।परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ १५६ ॥
अनुष्टुप्
doubtful
प्रणिधि as a meaning in nānārtha verses
- धरणिकोश संस्थाआस्थामालम्बनं विद्यादास्था चास्थानयत्नयोः । संस्था तु प्रणिधौ नाशे स्थितिसादृश्ययोरपि ॥ Dharaṇikośa 16.2.1
- धरणिकोश स्पशस्पशौ प्रणिधिसंग्रामावाशू च व्रीहिसत्वरौ । निस्त्रिंशौ क्रूरखड्गौ तु बालिशो मूर्खशावकौ ॥ Dharaṇikośa 29.1.2
- कोषकल्पतरु उदास्थितउदास्थितः स्यात्प्रणिधौ चरेऽपि दौवारिकेऽध्यक्षनरेऽपि शस्तः । न्याय्ये कुलीनेऽप्यभिजात आप्ते स्थितौ द्युवृक्षे त्वपि पारिजातः ॥ ५० ॥ Koṣakalpataru 6.17.50
- कोषकल्पतरु अनिरुद्धअनिरुद्ध उषानाथे प्रणिधौ चानर्गले परवत् । कालस्कन्धस्तिन्दुक[त]मालजीवकतरुप्रभेदेषु ॥ ८३ ॥ Koṣakalpataru 6.20.83
- नानार्थार्णवसंक्षेप संस्थाश्रोणिः कट्यामुपस्थेऽथ संस्था स्यादाकृतौ मृतौ । व्यवस्थायां समाप्तौ च प्रणिधावपि केचन ॥ ११० ॥ Nānārthārṇavasaṃkṣepa 2.1.110
- नानार्थार्णवसंक्षेप स्पर्शतृणे च विटपे चाथ स्तम्भः स्यात् प्रतिबन्धने । स्थूणायां च जडीभावे स्पर्शस्तु प्रणिधौ युधि ॥ १२८ ॥ Nānārthārṇavasaṃkṣepa 2.2.128
- शब्दरत्नाकर चारचक्री दर्वीकरे विष्णौ कुलाके छद्मवत्यपि । प्रचारे प्रणिधौ चारश्चीनो देशे मृगान्तरे ॥ १९१७ ॥ Śabdaratnākara 4.1.1917
- वैजयन्ती संस्थासंज्ञार्कभार्या चैतन्यं हस्ताद्यैः सूचनाभिधा । संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु ॥ ४३ ॥ Vaijayantī 6.2.43