कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

साप्तपदीन

sāptapadīnaक्ली · neut.

In 10 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.509 · p. 30
वैरं विरोधो विद्वेषो वयस्यः सवयाः सुहृत् ।स्निग्धः सहचरो मित्रं सखा सख्यं तु सौहृदम् ॥ ७३० ॥सौहार्दं साप्तपदीनमैत्त्र्यजर्याणि संगतम् ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 3, syllable 6 प्र (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.63 · p. 3
सहायसाप्तपदीनौ सख्यावसुहृदप्यरौ ॥ ६३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.12
सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.706 · p. 81
सख्यं साप्तपदीनं सौहार्दं सौहृदं तथा स्नेहः ।मैत्री प्रीतिरजर्यं सभाजनं सङ्गतं प्रोक्तम् ॥ ७०६ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.52 · p. 249
अजर्यं संगतं सख्यं सौहार्दं * [सौ] हृदं तथा ।तथा साप्तपदीनं स्यान्मैत्री [109b] स्त्रीक्लीबयोर्भवेत् ॥ ५२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.352 · p. 145
वयस्यस्तु समानोऽसौ सौहृदं सख्यमुच्यते ।मैत्री साप्तपदीनं तु सौहार्देऽजर्यमित्यपि ॥ ३५२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1193 · p. 187
मित्रं सखा सहायश्च वयस्यः सवयास्तथा ।सुहृत् साप्तपदीनश्च स्निग्धः सहचरो भवेत् ॥ ११९३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1194 · p. 187
सौहार्दं सौहृदं सख्यमजर्यं सङ्गतं तथा ।मैत्री साप्तपदीनं च मित्रता नाम कथ्यते ॥ ११९४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.172 · p. 123
वयस्ये सवयाः स्निग्धः सहपांशुकिलोऽपि च ।मित्रं सखा सुहृच्चैव सख्यं साप्तपदीनवत् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1285 · p. 157
सख्यं साप्तपदीनं स्यान्मैत्री मैत्रं च सौहृदम् ।अपसर्पश्चरश्चारः प्रणिधिर्गूढपूरुषः ॥ १२८५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.187 · p. 98
सख्यं साप्तपदीनं स्यात् कौतुकं तु कुतूहलम् ।कौतूहलं विनोदश्च दुःखं पीडाव्यथार्तयः ॥ १८७ ॥
अनुष्टुप्
genderक्लीneut.