All kośas › Gīrvāṇabhāṣābhūṣaṇa
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa
204 verses · 1,626 words tagged · 466 marked doubtful (dashed)
स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः (2/2)
वातो वायुर्जगत्प्राणः शुष्मिणः श्वसनोनिलः ।गन्धवाहो गन्धवहो गन्धगन्धिलचोरकः ॥ १२१ ॥
1.121 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
शुषिर्महाबलो वेगी नभोजातः सदागतिः ।प्राणोपानः समानश्चोदानव्यानौ च वायवः ॥ १२२ ॥
1.122 · p. 19
अनुष्टुप्
हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले ।उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ।नागो यमो वारणश्च कण्डुकः पञ्चमवल्लभः ॥ १२३ ॥
1.123 · p. 19
अनुष्टुप्metre not read in every line
इति पञ्च उपप्राणास्तद्वत्स्थानगता मताः ।कुबेरस्तु धनस्वामी धनिको धनदोऽपि च ॥ १२४ ॥
1.124 · p. 19
अनुष्टुप्
श्रीदः पुण्यजनश्रेष्ठो यक्षराजो हिरण्मयः ।तस्य भार्या धनवती पुत्रस्तु मणिकन्धरः ॥ १२५ ॥
1.125 · p. 19
अनुष्टुप्
अस्योद्यानं चैत्ररथं विमानं तस्य पुष्पकम् ।राजा तुरङ्गवदनः किन्नरः किम्पुमानपि ॥ १२६ ॥
1.126 · p. 19
अनुष्टुप्
महापद्मः सहस्राङ्गः शताङ्गः पद्मनामकः ।मुक्तार्णवः शंखनिधिः मकरो रत्नसन्ततिः ॥ १२७ ॥
1.127 · p. 19
अनुष्टुप्