कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

महापद्म

mahāpadmaपुं · masc.

In 16 kośas: 27 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.193 · p. 12
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1309 · p. 50
महापद्मस्त्वतिशुक्लो दशबिन्दुकमस्तकः ॥ १३०९ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.71
निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः ॥महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.127 · p. 19
महापद्मः सहस्राङ्गः शताङ्गः पद्मनामकः ।मुक्तार्णवः शंखनिधिः मकरो रत्नसन्ततिः ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.501 · p. 188
अस्त्र्यर्बुदं शङ्कुरस्त्री क्लीबे वा पद्ममस्त्रियाम् ।पुंसि चाथ महापद्मं तद्वदन्यानि न द्वयोः ॥ ५०१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.9 · p. 364
श्वेतो नीलसरोजाङ्को लोहिताङ्गस्तु तक्षकः ।स्वस्तिकाङ्कशिराश्चाथ महापद्मोऽतिशुक्लकैः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.44 · p. 374
स्कन्दनाश्च वितुण्डाश्च विपुलाश्चाथ गुह्यकाः ।महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.175 · p. 25
महापद्मश्च पद्मश्च शङ्खो मकर-कच्छपौ ।मुकुन्द-कुन्द-नीलाश्च खर्व्वश्च निधयो नव ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.29 · p. 247
महापद्मस्तु नन्दः स्याद[108a ]ग्निमित्रस्तु शूद्रकः ।वृषलश्चन्द्रगुप्तः स्याद्बिन्दुसारस्तु तत्सुतः ॥ २९ ॥
अनुष्टुप्metre not read in every lineLatin letters: a
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.98 · p. 292
स्त्री कोटिरर्बुदं त्वस्त्री स्यादब्जं खर्वमन्तिमे ।निखर्वं च महापद्मं शङ्कुर्द्वंद्वेऽथ वारिधिः ॥ ९८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.15 · p. 303
स्वस्तिकाङ्कितमौलिश्च महापद्मोऽतिशुक्लकः ।दशबिन्दुकमौलिश्च शङ्खः स्यात्पीतवर्णकः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.76 · p. 15
महापद्मः पद्मनामा शङ्खो मकरकच्छपौ ।मुकुन्दो नीलकुन्दौ च चर्चाश्च नवमो मतः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.178 · p. 19
महापद्मस्तथा पद्मः शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दौ नीलश्च खर्वश्च निधयो नव ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.226 · p. 30
महापद्मस्तथा पद्मः शङ्खमकरकच्छपाः ॥ २२६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.228 · p. 31
महापद्मस्तथा कालो महाकालश्च माणवः ।शङ्खकश्चेति नामानि निधयो नव संख्यया ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2366 · p. 382
तक्षकः स्याललोहिताङ्गः स्वस्तिकाङ्कितमस्तकः ।महापद्मो ह्यतिश्वेतो दशाबिन्दुकमस्तकः ॥ २३६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.166 · p. 12
शेवधिर्ना निधिः पुंसि निधानन्तु नपुंसकम् ।पद्म-शङ्खौ महापद्म-मकरौ खर्व-कच्छपौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.137 · p. 18
सैव वस्वौकसारा स्यात्समानौ निधिशेवधी ।शङ्खः पद्मो महापद्मः कच्छपो मकरो वरः ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.301 · p. 41
वैशालेयमहान्तकपद्ममहापद्मनहुषधृतराष्ट्राः ।कुञ्जरकुमुदैरावतकुण्डोदरपुण्डरीकबहुकुण्डाः ॥ ३०१ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.647 · p. 83
समष्टिला च गण्डीरं शकुटो दलकूर्चिका ।बृहच्छदो महापद्मः शोफघ्नो मोह इत्यपि ॥ ६४७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 22 · p. 532
पद्मोऽस्त्रियां महापद्मः शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.78 · p. 14
अस्त्री पद्मो महापद्मः शंखो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वाः स्युर्निधयो नव ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव पातालवर्गः Trikāṇḍaśeṣa 1.7.7 · p. 24
अनन्तो वासुकिः पद्मो महापद्मोऽपि तक्षकः ।कर्कोटिः कुलिकः शंख इत्यष्टौ नागनायकाः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.60 · p. 14
निधानं गूढकोशो ना निधिः शेवधिरस्त्रियाम् ।भेदाः पद्मो महापद्मः शंखो मकरकच्छपौ ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.209 · p. 62
शकटश्चाथ कालाची नूतनं वेष्टितं दलं ।शोथशत्रौ महापद्मो मोहो माणो बृहच्छदः ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.12 · p. 149
कुंभीनसो लोहिताहिः कृष्णसर्पः कुलस्थकः ।शंखपालो महापद्मः काकोदर इतीदृशाः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.40 · p. 157
चारुनालं कोकनदं श्वेते तु शुचिकर्णिकम् ।पुण्डरीकं महापद्मं पवित्रं पुण्यगन्धिकम् ॥ ४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास मार्धश्लोकः Dharaṇikośa 24.2.21 · p. 144
प्लवंगमः स्मृतो भेके वानरे च प्लवंगमः ।महापद्मो निधौ दृष्टः संख्यानागविशेषयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.44 · p. 285
संख्याभेदभुजङ्गयोरपि[34b]महापद्मो निधौ चोदितः
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.454 · p. 65
दशस्वपि समासादि पूर्वत्रेवात्र तर्कयेत् ।महापद्मो द्वयोर्दर्वीकरसंज्ञफणाभृताम् ॥ ४५४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.455 · p. 65
एकभेदेऽथ ना झाटे शोथशत्रुरिति श्रुते ।क्लीबं तु रक्तपद्मे स्यात् समासाद्यत्र पूर्ववत् ॥ ४५५ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.49 · p. 256
संख्याभेदे निधौ नागे महापद्मो भवेत्पुमान् ।परिभुक्तोज्झिते जीर्णे यातयामोऽपि वाच्यवत् ॥
अनुष्टुप्

महापद्म as a meaning in nānārtha verses