कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्रीद

śrīdaपुं · masc.

In 15 kośas: 15 synonym verses, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.113 · p. 11
श्रीदः सितोदरकुहेशसखाः पिशाचकीच्छावसुस्त्रिशिर ऐलबिलैकपिङ्गाः ।पौलस्त्यवैश्रवणरत्नकराः कुबेरयक्षौ नृधर्मधनदौ नरवाहनश्च ॥ १८९ ॥कैलासौका यक्षधननिधिकिंपुरुषेश्वराः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.69
कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः ।मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ६८ ॥किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः ।यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः ॥ ६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.78 · p. 10
ऐलविलः पौलस्त्यो वैश्रवणः किन्नरेश्वरो धनदः ।श्रीदः श्रीकण्ठसखो मनुष्यधर्मा धनाध्यक्षः ॥ ७८ ॥
आर्या
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.125 · p. 19
श्रीदः पुण्यजनश्रेष्ठो यक्षराजो हिरण्मयः ।तस्य भार्या धनवती पुत्रस्तु मणिकन्धरः ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.70 · p. 387
गौरीतल्ली काहली स्यादथ श्रीदः सितोदरः ।कुह एलविलो यक्षो नृधर्मा गुह्यकेश्वरः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.169 · p. 24
श्रीदो वैश्रवणो धनेश-धनदाविच्छावसुर्यक्षराट्पौलस्त्यस्त्रिशिराः कुहो हरसखो यक्षोऽवलक्षोदरः ।रक्षोराण्-नरवाहनो निधिपतिः कैलासगः किंनर-स्वामिन्यैलबिलः पिशाचकि-बक-श्रेष्ठैकपिङ्गा अपि ॥ १६९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 96 · p. 48
वैश्रवणं राजराजमुत्तराशापतिं तथा ।अलकानिलयं श्रीदं धनपर्यायदायकम् ॥ ९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.71 · p. 14
श्रीदः शितोदरो रत्नाकरः किंपुरुषेश्वरः ।एकपिङ्गश्चैलविलः कुहेश्वरसखौ पुनः ॥ ७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चै (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.161 · p. 25
वरुणः पवनश्रीदावीशानोऽथ दिशां गजाः ।ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्ज[नः] ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.104 · p. 14
मनुष्यधर्मा धनदः श्रीदश्च नरवाहनः ।तद्वने स्याच्चैत्ररथं तत्पुर्यामलका मता ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चै (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.51 · p. 6
कुबेरो धनदः श्रीदो यक्षराजो धनाधिपः ।किंनरेशो राजराजः पौलस्त्यो गुह्यकेश्वरः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.217 · p. 29
कुबेरो धनदः श्रीदः नृधर्मा नरवाहनः ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.160 · p. 12
राजराजः किन्नरेशः स्त्रिशिरा नरवाहनः ।मनुष्यधर्मा सौरभ्यः श्रीदः पुण्यजनेश्वरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.134 · p. 18
पौलस्त्ययक्षनरवाहनकिंनरेन्द्र-यक्षेश्वरैलिबिलिगुह्यकराट्कुबेराः ।वित्तेशपुण्यजननाथमनुष्यधर्म-श्रीदत्रिनेत्रसखवैश्रवणैकपिङ्गाः ॥ १३४ ॥
वसन्ततिलका
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.77 · p. 14
श्रीदधनकेलिमयुराट्श्वेतोदररत्नगर्भनिधिनाथाः ।कुतनुकुहेच्छावसवः पिशाचकी सत्यसङ्गस्त्रिशिराः ॥ ७७ ॥
गीतिःmetre not read in every line
genderपुंmasc.

श्रीद as a meaning in nānārtha verses