कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Gīrvāṇabhāṣābhūṣaṇa

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa

204 verses · 1,626 words tagged · 466 marked doubtful (dashed)

मनुष्याधिकारः पञ्चमस्तरङ्गः

इति हनुमदीये सिंहाधिकारश्चतुर्थस्तरङ्गः ॥

पञ्चमस्तरङ्गः ।

मनुष्या मनुजा मर्त्या द्विपादो नहुषो नरः ।ब्रह्मक्षत्रियविट्छूद्रा इति वर्णचतुष्टये ॥ १ ॥
5.1 · p. 27
अनुष्टुप्
ब्राह्मणो मुखजो विप्रो भूदेवो बाडवोऽग्रजः ॥ २ ॥
5.2 · p. 27
वेदगर्भो मन्त्रगर्भगीर्वाणो वेदविक्रमः ।क्षत्रियो वसुधाशक्रो बाहुजो राजवंशजः ॥ ३ ॥
5.3 · p. 27
अनुष्टुप्
तद्भेदे राहुतश्च स्याद्दुनेदारस्तु भूपतिः ।विद्वान् सन् कोविदः सूरिर्मेधावी पण्डितो बुधः ॥ ४ ॥
5.4 · p. 27
अनुष्टुप्
सुधीर्विपश्चित् संख्यावान् प्राज्ञो धीमान्विचक्षणः ।दीर्घदर्शी दूरदर्शी लब्धवर्णफलं हविः ॥ ५ ॥
5.5 · p. 27
अनुष्टुप्
वैश्यो भूमिस्पृशोरव्यो महीभृल्लाङ्गलायुधः ।तुलाधारो भैरकश्च वर्तको वृत्तिजीवनः ॥ ६ ॥
5.6 · p. 27
अनुष्टुप्
शूद्रोऽन्त्यवर्णो वृषलो द्विजपोतो जघन्यजः ।पज्जो राण्मनुजास्पृश्या आभीरूरिति कथ्यते ॥ ७ ॥
5.7 · p. 27
अनुष्टुप्
मालकः पञ्चमो मारः परांसुः (परासु) पशुभक्षकः ।अवर्णोऽन्त्यजनो दूरो हिंसारुः परिकीर्तितः ॥ ८ ॥
5.8 · p. 27
अनुष्टुप्
पाश्चात्या यवना नीचास्तुरुष्का अपि हिन्दुकाः ।म्लेच्छास्तु वाह्लिकाः कीर्णा अजात्यास्तु प्रकीर्तिताः ॥ ९ ॥
5.9 · p. 27
अनुष्टुप्