कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Gīrvāṇabhāṣābhūṣaṇa

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa

204 verses · 1,626 words tagged · 466 marked doubtful (dashed)

सिंहाधिकारश्चतुर्थस्तरङ्गः

इति हनुमदीये भूम्यधिकारस्तृतीयस्तरङ्गः ॥

चतुर्थस्तरङ्गः ।

सिंहः पञ्चाननो गन्धिः पारीन्द्रो मृगयूथपः ।व्याघ्रः शार्दूलकश्चन्द्रश्चन्द्रकीत्यभिधीयते ॥ १ ॥
4.1 · p. 25
अनुष्टुप्
अच्छभल्लस्तु भल्लाटो वराहः स्याज्जलप्रियः ।खड्गस्तु गण्डकी खड्गी महिषो गद्गदस्वरः ॥ २ ॥
4.2 · p. 25
अनुष्टुप्
शाखामृगो महावेगः क्ष्विङ्कोऽसौ लोहिताननः ।गोलाङ्गूलोऽसितास्यः स्याद्गोमायुर्मृगधूर्तकः ॥ ३ ॥
4.3 · p. 26
अनुष्टुप्
कौलेयको गृहमृगः कृतज्ञो रात्रिजागरः ।शशस्तु मृदुरोमा स्यादोतुर्मर्कश्च मण्डली ॥ ४ ॥
4.4 · p. 26
अनुष्टुप्
गौमयी शुभार्घ्या सा बहुक्षीरा तु वञ्जुला ।समांसमीना सा गौर्या प्रतिवर्षं प्रसूयते ॥ ५ ॥
4.5 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चिरसूता बष्कयणी घृष्टिः सूतवती सकृत् ।पक्षी पत्ररथः पत्नी शुको नीडोद्भवोऽपि च ॥ ६ ॥
4.6 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
हंसो मरालो नीलाक्षः कार्तस्वरगरुत्तथा ।शुकस्त्रियां तु मेधावी श्रीमान्नासीफलाशनः ॥ ७ ॥
4.7 · p. 26
अनुष्टुप्
रजको वक्रनासश्च धीमान् धीर इतीर्यते ।ताम्राक्षः स्यादन्यभृतो वसन्तागमवाक्कविः ॥ ८ ॥
4.8 · p. 26
अनुष्टुप्
शुक्लापाङ्गः शिखी केकी शिखण्डी चित्रपत्रकः ।वाताकविः स्वर्णपक्षः रक्तचञ्चुर्वनप्रियः ॥ ९ ॥
4.9 · p. 26
अनुष्टुप्
कृष्णपत्रो दीर्घचञ्चुः कलहप्रिय इत्यपि ।चित्रपुच्छः स्वयंद्वेषी विकिरिः परिकीर्तितः ॥ १० ॥
4.10 · p. 26
अनुष्टुप्
जीवपुष्पं तु तत्पुच्छे दाक्षिणात्यो वनप्रियः ।सह्यजश्चोलसम्भूतो वनभूषणमीरितम् ॥ ११ ॥
4.11 · p. 26
अनुष्टुप्
द्रोणोद्भवस्तीक्ष्णपक्षो मृद्वासो झल्लरीस्वनः ।चकोरो वालुकी जीवी जीविताङ्गारकाशनः ॥ १२ ॥
4.12 · p. 26
अनुष्टुप्
नीलकण्ठस्तु धूम्राक्षश्चाटकेर इति स्मृतः ।भृङ्गो भ्रमश्च भ्रमरो भसलः पुष्पलोलुपः ॥ १३ ॥
4.13 · p. 26
अनुष्टुप्