All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
शेषकाण्डः · नपुंसकलिङ्गाध्यायः
इत्येकाक्षराः
इति भगवता यादवप्रकाशेन विरचिताय वैजयन्त्यां शेषकाण्डे स्त्रीलिङ्गाध्यायः
शेषकाण्डे नपुंसकलिङ्गाध्यायः
अत्याहितं महाभीत्या प्राणानाकांक्षिकर्मणि ।अपदानं कर्मणि स्यादतिवृत्तेऽवखण्डने ॥ १ ॥
8.3.1 · p. 273
अनुष्टुप्
अभ्याधानमभिन्यासे वह्न्यर्थं चेध्मसङ्ग्रहे ।अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ॥ २ ॥
8.3.2 · p. 273
अनुष्टुप्
जन्मोद्गमावुत्पतने रहोऽन्तिकमुपह्वरे ।उद्वासने वधोद्वासावप्युत्सादनमुन्नतौ ॥ ५ ॥
8.3.5 · p. 273
अनुष्टुप्
स्यादुद्धरणमुद्वान्तभक्तेऽप्युत्पाटनेऽपि च ।तिन्त्रिडीकन्तु वृक्षाम्ले चिंचायामम्लवेतसे ॥ ६ ॥
8.3.6 · p. 273
अनुष्टुप्
त्रिपर्णकं त्रिगन्धे स्यात्त्रिफलायां कटुत्रये ।निर्यातनं प्रतीकारे दाने न्यासधनार्पणे ॥ ७ ॥
8.3.7 · p. 273
अनुष्टुप्
निर्भर्त्सनमलक्तेऽपि मोक्षे निश्रेयसं शुभे ।शस्त्रे युद्धे प्रहरणं कार्ये हेतौ प्रयोजनम् ॥ ८ ॥
8.3.8 · p. 273
अनुष्टुप्
प्रतिदानं परीवर्ते न्यासद्रव्यस्य चार्पणे ।पारायणं कार्त्स्न्यवचस्यंकुशस्य च बन्धने ॥ ९ ॥
8.3.9 · p. 273
अनुष्टुप्
प्राणिद्यूतं तु संग्रामे द्यूते च पशुपक्षिभिः ।शुण्ठ्यामतिविषायां च लशुने च महौषधम् ॥ १० ॥
8.3.10 · p. 273
अनुष्टुप्
रतर्धिकं सुखे स्नाने दीनमंगलयोरपि ।शब्दशास्त्रे व्याकरणं ज्याटंकारे स्फुटीकृतौ ॥ ११ ॥
8.3.11 · p. 273
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
विदारणं तु काष्ठादेर्द्वैधीकारे विडंबने ।संसारे स्यात्संसरणमसंबाधचमूगतौ ॥ १२ ॥
8.3.12 · p. 273
अनुष्टुप्
इति चतुरक्षराः
स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि ।दुग्धाम्रे दुग्धतालीयं स्यात् फेनेऽपि च दुग्धजे ॥ १४ ॥
8.3.14 · p. 274
अनुष्टुप्
इति पञ्चाक्षराः
आगः किल्बिषमेनश्च त्रीणि पाप्मापराधयोः ।शकुनं च निमित्तं च शुभादेः सूचकेऽपि च ॥ १६ ॥
8.3.16 · p. 274
अनुष्टुप्
यज्ञोपवीतोपवीते ब्रह्मसूत्रोत्तरीययोः ।गंभीरं गहनं रत्नं गह्वरं शरणं वपुः ॥ १७ ॥
8.3.17 · p. 274
अनुष्टुप्
स्नेहं सेव्यं महच्छुद्धं धरुणं सर्वतोमुखम् ।पातालं स्वादु दिव्यं च तानि पंचदशाप्स्वपि ॥ १८ ॥
8.3.18 · p. 274
अनुष्टुप्
इति विषमाक्षराः