कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

औरभ्र

aurabhraपुं · masc.

In 8 kośas: 8 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.670 · p. 28
कम्बलः पुनरूर्णायुराविकौरभ्ररल्लकाः ॥ ६७० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.551 · p. 62
धौतमुद्गमनीयं च वर्तिर्वस्तिर्दशाः सिचः ।एकार्था आविकौरभ्ररल्लकोर्णायुकम्बलाः ॥ ५५१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.92 · p. 227
औरभ्रः कम्बलो द्वंद्वे परिस्तोमास्तरौ तथा ।वर्णः प्रवेणिर्नवता सूची-वान-कुथास्त्रिषु ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.310 · p. 90
औरभ्रहास्तिके कावचिकमाजकमित्यपि ।मानुष्यकधैनुके तु गाणिक्यं कैश्यकैशिके ॥ ३१० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.316 · p. 140
कार्पासबादरे चापि कौशेयं कृमिकोशजम् ।राङ्कवं मृगरोमोत्थमौरभ्रः कम्बलः समौ ॥ ३१६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1090 · p. 168
ऊर्णायुराविकश्चैव रल्लकः कम्बलस्तथा ।औरभ्रश्चैति नामानि मन्यन्ते कम्बलस्य हि ॥ १०९० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.150 · p. 147
स्यादौष्ट्रकाजकौरभ्रमुष्ट्राजोरभ्रसंहतौ ॥
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.129 · p. 169
कक्ष्यापटस्तु कौपीनं समौ रल्लककंबलौ ।विशालस्त्वाविकौरभ्रौ हस्तिकर्णस्तु रोचकः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.300 · p. 72
उरःसम्बन्धिनि त्रिः स्यादौरभ्रस्तु पुमानयम् ।कम्बले मेषरोमोत्थे मेषसम्बन्धिनि त्रिषु ॥ ३०० ॥
अनुष्टुप्