कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वान

vānaक्ली · neut.

In 15 kośas: 17 synonym verses, 7 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.26 · p. 44
फलं तु सस्यं तच्छुष्कं वानमामं शलाटु च ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.15
आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु ॥ १५ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.189 · p. 23
शलाटुः कोमलं प्रोक्तं वानं शुष्कफलं भवेत् ।बीजकोशी शमी शिम्बा ग्रन्थिः पर्व परुस्तथा ॥ १८९ ॥
अनुष्टुप्
genderक्लीneut.
कक्कोलकं स्यात् कक्कोलं बानवानावुभौ समौ ।गेण्डूको गेण्डुको गेण्डुः समानौ कन्दुकन्दुकौ ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.58 · p. 208
वानी च वानं क्लीबे स्यात्तूलिस्तूली तुरिस्तुरी ।स्त्रियः स्युस्तन्त्रकाष्ठेऽपि स्त्रियां सूची तु सेवनी ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.42 · p. 253
शुष्केऽप्यवानं स्याद्वानमथ हीनप्रकाण्डके ।स्तम्बगुल्मावथ लता गुल्मिनी च प्रतानिनी ॥ ४२ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.40 · p. 138
मकरन्दो मरन्दश्च तद्रसो मधुरस्त्रियाम् ।आरण्याः स्युः सुमनसो या अरण्येसमुद्भवाः ॥फलं परीरं किंपाकं शस्यं सस्यमथ त्रिषु ।व्युष्टं पर्युषितं शुष्कं त्ववानं वानमित्यपि ॥गौणं धारु(?)स्तु पुंस्त्वे स्यादथापक्वं शलाटु तत् ॥ ४० ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.92 · p. 227
औरभ्रः कम्बलो द्वंद्वे परिस्तोमास्तरौ तथा ।वर्णः प्रवेणिर्नवता सूची-वान-कुथास्त्रिषु ॥ ९२ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.41 · p. 56
मुद्रितं मीलितं सङ्कुचितं निद्राणमिष्यते ।फलं सस्यं तत्र शुष्के वानशब्दो विभाव्यते ॥ ४१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1541 · p. 245
व्यूतिर्वाणिस्तथा वानं चेति वानस्य कथ्यते ।वानदण्डो वापदण्डो वेमो वेमा च मन्यते ॥ १५४१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1985 · p. 327
फलं सस्यं तथा शस्यं वानं शुष्कं फलं भवेत् ।शलाटु कथ्यतेऽपक्वं फलं तद्ग्रन्थिरुच्यते ॥ १९८५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.29 · p. 59
अम आमस्त्वपक्वेऽस्मिन् शलाटुः स्यात् फले त्रिषु ।अथ वानञ्च फले शुष्के त्रिषु द्वयम् ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.139 · p. 229
शस्यं तालव्य-दन्त्यादि वानावाने तु शुष्कके ।ग्रन्थौ पकः षण्ढं सन्तं पसश्च बीजकोशिका ॥ १३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1300 · p. 158
तलकाराः पुरीवृत्तशोधकाः दण्डपाशिकाः ।दुर्गं पञ्चविधं वानपार्वतैरिणमारवम् ॥ १३०० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1534 · p. 185
वाणिर्व्यूतं तु वानं स्यात् पिचुर्ना तूलमस्त्रियाम् ।धाराः कार्पासतूलाः स्युस्तेषां तु प्रविसारणम् ॥ १५३४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.10 · p. 45
फलमामं शलाटुः स्याद्वानं शुष्कतरं फलम् ।त्रिषु वन्ध्यादयोऽथ स्यादंकुरोंकूरमस्त्रियौ ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.8 · p. 136
कला शिल्पं च कर्माथ तंतुवायः कुविन्दकः ।वाणिर्व्यूतिश्च वानं स्याद्वेमा ना वानदण्डकः ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.3 · p. 109
मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतावपि ।वानं शुष्कफले शुष्के सीवने जलसंप्लवे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.86 · p. 244
अपक्वमृद्भाजनकेऽथ वानंस्यूतौ कटे शुष्कफले च शुष्के ।तरंगवातोदकसंप्लवेषुभवेत्सुरङ्गागतिसौरभेषु ॥ ८६ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1228 · p. 147
कृतवाने क्रियायां तु वातेः क्लीबमथ त्रिषु ।वानं शुष्कफले शुष्के व्यूतिशोषणयोस्तु नप् ॥ १२२८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1229 · p. 148
वातेर्धातोः क्रियायां च कटे त्वप्यजयोऽब्रवीत् ।वाणस्तु पुंसि वीणायां शब्दे चाथ नपुंसकम् ॥ १२२९ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.19 · p. 235
वानं शुष्के शुष्कफले स्यूतिकर्मकरे गतौ ।शानस्त्वजगरे मूर्खे श्येनः पाण्डौपतत्रिणि ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.260 · p. 181
खर्व्वश्चाऽथ फले शुष्के वानं स्यूते कटे गतौ ।वृषपर्वा शिवे दैत्यै वेष्टनं मुकुटे वृतौ ॥ २६० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.80 · p. 236
वास्त्वस्त्री गृहभूपुर्योर्गृहे सीमसुरुंगयोः ।वानं शुष्के गतौ व्यूतौ गन्धे वृद्धौ सुधीयमौ ॥ ८० ॥
अनुष्टुप्

वान as a meaning in nānārtha verses

  • धरणिकोश कादम्बखर्बः संख्यान्तरे ह्रस्वे द्विजिह्वः पन्नगे खले । कादम्बो विशिखे वाने कदम्बः पक्षिबाणयोः ॥ Dharaṇikośa 22.1.1