इति नानार्थवर्गः
अथाव्ययवर्गः ।
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ।
3.4.1
अनुष्टुप्
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ॥ १ ॥
3.4.1
अनुष्टुप्
स्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते ।
3.4.3
अनुष्टुप्
बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥
3.4.2
अनुष्टुप्
पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने ।
3.4.5
अनुष्टुप्
यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन ॥ ३ ॥
3.4.3
अनुष्टुप्
कदाचिज्जातु सार्धं तु साकं सत्रा समं सह ।
3.4.7
अनुष्टुप्
आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा ॥ ४ ॥
3.4.4
अनुष्टुप्
आहो उताहो किमुत विकल्पे किं किमूत च ।
3.4.9
अनुष्टुप्
तु हि च स्म ह वै पादपूरणे पूजने स्वती ॥ ५ ॥
3.4.5
अनुष्टुप्
दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि ।
3.4.11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः ॥ ६ ॥स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक् ।
3.4.12
अनुष्टुप्metre not read in every line
अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः ॥ ७ ॥
3.4.7
अनुष्टुप्
स्वाहा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा ।
3.4.14
अनुष्टुप्
किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ॥ ८ ॥
3.4.8
अनुष्टुप्
व वा यथा तथेवैवं साम्येऽहो ही च विस्मये ।
3.4.16
अनुष्टुप्
मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ९ ॥
3.4.9
अनुष्टुप्
दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा ।अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ॥ १० ॥
3.4.10
अनुष्टुप्
युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते ।
3.4.19
अनुष्टुप्
अभावे नह्य नो नापि मास्म मालं च वारणे ॥ ११ ॥
3.4.11
अनुष्टुप्
पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् ।
3.4.21
अनुष्टुप्
प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १२ ॥
3.4.12
अनुष्टुप्
समन्ततस्तु परितः सर्वतो विष्वगित्यपि ।
3.4.23
अनुष्टुप्
अकामानुमतौ काममसूयोपगमेऽस्तु च ॥ १३ ॥
3.4.13
अनुष्टुप्
ननुच स्याद्विरोधोक्तौ कच्चित्कामप्रवेदने ।
3.4.25
अनुष्टुप्
निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम् ॥ १४ ॥
3.4.14
अनुष्टुप्
मृषा मिथ्या च वितथे यथार्थं तु यथातथम् ।
3.4.27
अनुष्टुप्
स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः ॥ १५ ॥
3.4.15
अनुष्टुप्
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् ।
3.4.29
अनुष्टुप्
संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ॥ १६ ॥
3.4.16
अनुष्टुप्
अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः ।
3.4.31
अनुष्टुप्
सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने ॥ १७ ॥
3.4.17
अनुष्टुप्
अस्ति सत्वे रुषोक्तावुं ऊं प्रश्नेऽनुनये त्वयि ।
3.4.33
अनुष्टुप्
हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ ॥ १८ ॥
3.4.18
अनुष्टुप्
पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने ।
3.4.35
अनुष्टुप्
सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ॥ १९ ॥
3.4.19
अनुष्टुप्
परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति ।
3.4.37
अनुष्टुप्
अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः ।
3.4.38
अनुष्टुप्
उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि ॥ २१ ॥
3.4.21
अनुष्टुप्
ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि ।
3.4.40
अनुष्टुप्
तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २२ ॥
3.4.22
अनुष्टुप्
एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा ।
3.4.42
अनुष्टुप्
दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ २३ ॥
3.4.23
अनुष्टुप्