कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हर्ष

harṣaपुं · masc.

In 17 kośas: 19 synonym verses, 1 as a nānārtha head word, 53 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.246 · p. 17
आलस्यं तन्द्रा कौसीद्यं हर्षश्चित्तप्रसन्नता ॥ ३१५ ॥ह्लादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसम्मदाः ।आनन्दानन्दथू गर्वस्त्वहंकारोऽवलिप्तता ॥ ३१६ ॥दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.39
मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ॥ २४ ॥स्यादानन्दथुरानन्दः शर्मशातसुखानि च ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.123 · p. 15
प्रमोदप्रमदौ हर्षः प्रीतिरुत्कर्ष उद्धवः ।सम्मदो मुत्तथानन्दः शर्म जोषं च शं सुखम् ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.103 · p. 75
शम्भुरस्तु मदो हर्षः प्रमोदो मोदसम्मदौ ।आनन्दो नन्दथुर्ह्रादस्तृप्तिर्हृष्टिमुदिष्टयः ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.117 · p. 102
कामक्रोधौ लोभहर्षौ मानश्चापि मदः पुनः ।अन्तर्गतोऽरिषड्वर्गः प्राणस्य क्षुत्तृषे पुनः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.333 · p. 286
कण्डालोऽपि विषान्मुष्टिफलो हर्षोऽप्यथापरः ।महापिण्डीतकः स्निग्धपिण्डीतकवराहकौ ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.109 · p. 429
स्तम्भो जाड्यं स्वेदघर्मौ निदघः पुलकोऽस्त्रियाम् ।कण्टकोञ्चश्च रोम्णः स्यादुद्गमो हर्ष इत्यपि ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.44 · p. 6
आनन्द आनन्दथु-हर्ष-तोषाःआमोद-मोदौ प्रमद-प्रमोदौ ।स्युः सम्मदाह्लादमनःप्रसादाःमुत्प्रीतिवन्निर्वृतिरेवमेव ॥ ४४ ॥
इन्द्रवज्रा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.154 · p. 91
चापलं त्वनवस्थानं हर्षश्चेतःप्रसन्नता ।संवेगः संभ्रमावेगावाटोपो रभसस्तथा ।संरम्भोऽपि स्त्रियां तूर्त्ति-तूस्त्वरा-त्वरि-तूर्णयः ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 109 · p. 54
खेदो द्वेषोऽप्यमर्षश्च रुट्कोपक्रोधमन्यवः ।हर्षः प्रमोदः प्रमदो मुत्तोषानन्दमुत्सवः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.217 · p. 31
रोमोद्गमस्तूद्धुषणं कथितः कण्टकोऽपि च ।आनन्दः प्रमदो हर्षानन्दथू प्रतिसम्मदौ ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.80 · p. 27
हर्षः प्रमोद आनन्दो ह्लादो मुन्मोदसम्मदाः ।हावः सुखविकारः स्याद्भावश्चित्तसमुद्भवः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.466 · p. 58
ह्लादो हर्षः प्रमोदश्च प्रमदो मुच्च सम्मदः ।आनन्दाऽऽनन्दथूः प्रीतिः आमोदश्चापि कथ्यते ॥ ४६६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.303 · p. 21
प्रमोदो हर्ष इत्येष हर्षपर्याय इरितः ।आनन्दो नन्दथुर्नन्दः सुखमानन्दथुर्मुदा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 इ (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.125 · p. 187
हर्ष-प्रहर्ष-हरिषा आनन्दानन्दथू समौ ।गर्वेऽभिमान-मानौ च विस्मयः स्मय इत्युभौ ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.284 · p. 38
मुत्प्रीतिर्हर्ष आनन्दाह्लादानन्दथवः सुखम् ।शर्म शातमलिङ्गे शमयस्तु शुभदो विधिः ॥ २८४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.958 · p. 120
वैवर्ण्यमश्रु प्रलय इति भावाश्च सात्त्विकाः ।निर्वेदो ग्लानिशङ्कास्मृतिधृतिमतयः प्रीतिनिद्रावहित्थाव्रीडेर्ष्यासुप्त्यसूया मरणमलसतोन्मादहर्षावमर्षाः ।तर्कापस्मारमोहश्रममदजडिमव्याधिवेगा विषादोगर्वश्चिन्तौग्य्रदैन्ये भयमपि चपलत्वं च संचारिभावाः ॥ ९५८ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.188 · p. 98
शंभरस्तु मदो हर्षः प्रमोदो मोदसम्मदौ ।आनन्दो नन्दथुर्ह्लादस्तृप्तिमुन्नन्दिहृष्टयः ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.10 · p. 104
द्विकं तु मनआत्मानाविन्द्रियाणि तु पञ्चकम् ।षट्कं कामो मदो मानो लोभो हर्षो रुषापि च ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.78 · p. 63
परेः कम्पि[201b]र्भये चाले कृपायामनुतः परः ।धविरुत्तः परो हर्षेऽथारोहे वडतीति च ॥ ७८ ॥
अनुष्टुप्metre not read in every line

हर्ष as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् मदगोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः ॥ ९१ ॥ Amarakośa 3.3.91
  • नामलिङ्गानुशासनम् हन्तहन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २४५ ॥ Amarakośa 3.3.245
  • धरणिकोश आमोदआमोदौ हर्षगन्धौ तु दायादौ ज्ञातिबान्धवौ । तमोनुदो[48]ऽग्रिचन्द्रार्काः प्रतिपत्तिथिसंविदोः ॥ Dharaṇikośa 17.1.6
  • धरणिकोश प्रमदप्रमदा कामिनी मत्ता प्रमदो हर्ष उच्यते । अर्बुदो मांसकीले तु संख्याभेदेऽपि चार्बुदः ॥ Dharaṇikośa 17.2.8
  • धरणिकोश मदमदो हर्षे च गर्वे च नदे शुक्रे कटोदके । मदः कस्तूरिकायां स्यान्मदः कल्याणवस्तुनि ॥ Dharaṇikośa 17.3.2
  • धरणिकोश नन्दनगन्धनश्चैव हिंसायामुत्साहे च प्रकाशने । नन्दनं स्यादिन्द्रवनं नन्दनौ पुत्रहर्षकौ ॥ Dharaṇikośa 19.2.48
  • धरणिकोश महस्महो हर्षो महस्तेजो मनो … । इष्वासो धन्विधनुषो रभसो वेगहर्षयोः ॥ Dharaṇikośa 31.1.7
  • धरणिकोश अङ्गअङ्ग संबोधने हर्षे पुनरर्थेऽङ्ग कीर्तितम् ॥ Dharaṇikośa 34.3.1
  • धरणिकोश हन्तहन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः । बत मन्त्रणसंतोषखेदानुक्रोशविस्मये ॥ Dharaṇikośa 34.7.4
  • धरणिकोश हुहुहाहा खेदे हुहु हर्षे गन्धर्वार्थेऽमू त्वनव्ययम् । हे है व्यस्तौ समस्तौ च हूतौ संबोधने स्मृतौ ॥ Dharaṇikośa 34.21.4
  • कोषकल्पतरु आनन्दतिआङ्परो नन्दतिर्हर्षे स्तुतौ स प्रतितः परः । अभेस्तु स परो व्याप्तौ प्रशंसायामपीष्यते । वठति पीवति मीवति तीवति स्थविमति प्रथितोऽत्र च नीवति । उपचिनोति तु *** लिम्पते कथय(?)गोमयति प्रणिदेग्धि च ॥ १६ ॥ Koṣakalpataru 3.5.16
  • कोषकल्पतरु मोदतेमार्जति स्यान्मार्जयति भूषयत्यपि मण्डति । स्वनयत्युत्तंसयति वतंसयति च स्मृतम् । कर्णयोर्भूषणे तद्वच्छिख्याद्यजि च कीर्तितम् । मोदते माद्यति[182b]स्याच्च सभाजयति हृष्यति ॥ २० ॥ Koṣakalpataru 3.5.20
  • कोषकल्पतरु प्रमोदतेमोदतिः स्यात्प्रतो हर्षे स आङः सौरभे मुदि । माद्यतिः प्रात्प्रमादे स्याद्धर्षे मोहेऽयमुत्परः ॥ २१ ॥ Koṣakalpataru 3.5.21
  • कोषकल्पतरु उल्लाघतेउदो लाघिस्तथारोग्ये तथा दक्षत्वहर्षयोः । शोचे ण्यन्तस्तूद एष पर्यये परिकीर्तितः ॥ ९१ ॥ Koṣakalpataru 3.5.91
  • कोषकल्पतरु अपनिःक्षेपे नियमे निवेशभ(भृ?)शयोर्दानेऽन्तिके दर्शने- न्तर्भावोपरमाश्रयाम्बुषु तयोधा(?)भावविन्यासके । हर्षे चौर्यनिकृष्टवर्जनविपर्यासप्रमोदेष्वप स्याद्विश्लेषविकारयोरुप पुनर्हीनेऽधिके चान्तिके ॥ ४ ॥ Koṣakalpataru 5.1.4
  • कोषकल्पतरु प्रमदमत्ते च हर्षे प्रमदः स्त्रियां स्त्री व्यक्ते सिते स्याद्विशदोऽथ वैद्ये । स्याज्जीवदो द्विष्यथ वालिसूनौ स्यादङ्गदो बाहुविभूषणेऽन्त्ये ॥ ३० ॥ Koṣakalpataru 6.19.30
  • कोषकल्पतरु आमोदस्याद्याम्यदिग्दन्तिवधूगतः स्त्री शान्तान्तरे स्याद्वरदः प्रसन्ने । कन्यापगाभेदगतः स्त्रियां स्या- दामोद उक्तः सुरभौ च हर्षे ॥ Koṣakalpataru 6.19.17
  • कोषकल्पतरु रभसस्यात्पादरोगेऽप्यलसोऽतिजीर्णे द्रुमान्तरे स्यात्कृतिमन्थरे च । स्त्री हंसपद्यां रभसस्तु वेगे हर्षे द्वयोः कोषनिबन्धकेऽपि ॥ ८६ ॥ Koṣakalpataru 6.31.86
  • नानार्थार्णवसंक्षेप प्रीतिपीडा कृपाशिरोमालाव्यथासु प्रीतिवाक् पुनः । प्रेम्णि हर्षेऽप्यथ प्रेक्षा प्रज्ञायां नृत्तदर्शने ॥ ७० ॥ Nānārthārṇavasaṃkṣepa 2.1.70
  • नानार्थार्णवसंक्षेप मदतत्रैवेत्यब्रुवन् हर्षे गर्वे गन्धे च रेतसि । मदी तु मत्तावस्थायां स्त्री मध्यं तु नपुंसकम् ॥ ९३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.931
  • नानार्थार्णवसंक्षेप षट्कविशेषात् काममदयोर्लोभहर्षरुषामपि । मानस्य चेत्यमीषां ना षण्णां सङ्घेऽथ षड्ध्वनेः ॥ १४३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1435
  • नानार्थार्णवसंक्षेप हृष्टमनः शिलायां छा(ट्या ग्या)मप्यृद्धिसंज्ञौषधान्तरे । हृष्टं तु हर्षे क्ली त्रिस्तु विस्मिते हर्षवत्यपि ॥ १६०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1602
  • नानार्थार्णवसंक्षेप आमोदहर्षे गन्धविशेषे च स च गन्धोऽयमीदृशः । विमर्दोत्थः परिमलो गन्धो जनमनोहरः ॥ ३२ ॥ Nānārthārṇavasaṃkṣepa 3.2.32
  • नानार्थार्णवसंक्षेप उत्थानहर्षमुस्तकयोराजावङ्गणे चोद्यमेऽपि च । उद्यानं सङ्ग्रहोद्गत्योर्वनभेदे प्रयोजने ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 3.3.15
  • नानार्थार्णवसंक्षेप प्रमदस्त्रीविशेषे परे प्राहू रभसस्तूत्तमस्त्रियाम् । ना तु हर्षे समासार्थलिङ्गान्यूह्यानि नप् पुनः ॥ ११०९ ॥ Nānārthārṇavasaṃkṣepa 4.1109
  • नानार्थार्णवसंक्षेप रभसरपठस्तु द्वयोर्ज्ञेयो मण्डूके विदुषि त्रि तु । रभसस्तु पुमान् वेगे हर्षसंरम्भयोरपि ॥ १४९९ ॥ Nānārthārṇavasaṃkṣepa 4.1499
  • नानार्थार्णवसंक्षेप कामोत्सवकामाद्धर्षे तथा कामस्योत्सवे चेति दर्शितः । अथ कामगुणो रागे विषयाभोगयोरपि ॥ ५१ ॥ Nānārthārṇavasaṃkṣepa 6.51
  • परमानन्दीयनाममाला दिष्टिमेघे [25] मूर्खे द्विजो विप्रे दन्तनीडजयोरपि । द्रुमो रत्ने तरौ दिष्टिर्हर्षे मानेऽपि कथ्यते ॥ २४० ॥ Paramānandīyanāmamālā 5.16.240
  • परमानन्दीयनाममाला नन्दिवृक्षमूले मृगे नेत्रे नन्दिर्द्युते गणान्तरे । हर्षे नन्दी वटे गर्दभाण्डे शंकरवेत्रिणि ॥ २६५ ॥ Paramānandīyanāmamālā 5.18.265
  • शब्दरत्नावली कौतुककोरकोऽस्त्री कुद्मले स्यात् कक्कोलकमृणालयोः । कौतुकस्त्वभिलाषे च नर्मण्युत्सवहर्षयोः ॥ Śabdaratnāvalī 7.1.60
  • शब्दरत्नावली सम्भोगसर्वगन्तु जले क्लीबं पुमानम्बहये(?) प्रभौ । सम्भोगः सुरते भोगे हर्षे च वुद्यशासने ॥ Śabdaratnāvalī 7.3.49
  • शब्दरत्नावली दिष्टित्रोटिश्चञ्च्वां कटफले कन्ठे मीनभिदि स्त्रियाम् । दिष्टं दैवे तु काले ना दिष्टिः स्त्री हर्षमानयोः ॥ Śabdaratnāvalī 7.11.19
  • शब्दरत्नावली प्रीतिप्रीतिः प्रदेशपूज्येऽस्त्री रतौ हर्षेऽपि च स्त्रियाम् । पुस्तं न ना पुस्तके स्यात्क्लीबे लेप्यादिकर्मणि ॥ Śabdaratnāvalī 7.16.26
  • शब्दरत्नावली मदभेदो विदारणे द्वैधे स्याद्विशेषोपजापयोः । मदो गर्वे च कस्तूर्यां वीर्ये च हर्षदानयोः ॥ मन्दः स्वैरे च तीक्ष्णे च मूर्खे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्यात्कविजात्यान्तरे शतौ ॥ Śabdaratnāvalī 7.18.6
  • शब्दरत्नावली आमोदआमोदः पुंसि हर्षे च गन्धे च सुमहत्यपि । ककुदोऽस्त्री ककुत्स्त्री तु वृषाङ्गे च धजेवरे । क्षणदो गणके पुंसि रात्रौ स्त्री क्लीबमहति ॥ Śabdaratnāvalī 7.18.12
  • शब्दरत्नावली वृद्धिस्यात्समृद्धावभ्युदये हर्षे कलेऽपि च स्त्रियाम् । श्रद्धा स्यादरे शुद्धौ आकाङ्क्षायामपि स्त्रियाम् । श्राद्धं हव्यकव्यविधौ क्लीबं श्रद्धान्विते त्रिषु । शुद्धं पवित्रे निर्दोषे केवले निर्मले त्रिषु ॥ Śabdaratnāvalī 7.19.15
  • शब्दरत्नावली उत्थानउत्थानं पौरुषे तन्त्रे पुस्तकोद्यमसंयुगे । प्राङ्गनोद्यमहर्षेषु मलोत्सर्गेषु न द्वयोः ॥ Śabdaratnāvalī 7.20.37
  • शब्दरत्नावली नन्दनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नावली कृपाकृपी स्त्रियां द्रोणपत्न्यां स्याद्द्रोणश्यालके कृपः । कृपा दयायां हर्षे च खष्पः क्रोधे वलात्कृतौ ॥ Śabdaratnāvalī 7.21.4
  • शब्दरत्नावली फलोदयआश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः । हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥ पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु । पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥ प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते । लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥ परमात्मनि तीर्थे च विहारे च महालयः । अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥ शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् । बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥ कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः । युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥ पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥ Śabdaratnāvalī 7.26.57
  • शब्दरत्नावली रभसमहः क्लीबमुत्सवे स्यात्तेजस्यपि नपुंसकम् । मानसं चित्तसरसो रभसं हर्षवेगयोः ॥ Śabdaratnāvalī 7.32.28
  • शब्दरत्नावली अङ्गअङ्ग सम्बोधनेऽसूयाहर्षसम्भ्रमभीतिषु । Śabdaratnāvalī 8.1.16
  • शब्दरत्नावली हन्तजात्वसम्भावितार्थे च गर्हा कदाचिदर्थयोः । निद्विकल्पे निषेधे च प्रतिज्ञालङ्घनेऽपि च ॥ प्रति प्रतिनिधौ वीप्सेत्थम्भूताख्यानलक्षणे । प्रतिदाने चाभिमुख्ये स्वभावमात्रयोरपि ॥ हन्त हर्षार्त्तिवादेषु वाक्यारम्भे च सम्भ्रमे । पश्यत स्यात्प्रशंसायां विस्मयाक्षेपभाषणे ॥ बत हर्षामन्त्रणयोः खेदानुक्रोशविस्मये । स्वस्ति स्यान्मङ्गलाशसापुण्यसन्तोषणेषु च ॥ Śabdaratnāvalī 8.1.26
  • शब्दरत्नावली कच्चित्आराद्दूरे समीपे च तथाभ्यन्तरगाढयोः । स्यात्कच्चिन्मङ्गले प्रश्ने हर्षे कामप्रवेदने ॥ पश्चात्प्रतीच्याञ्चरमे त्वधिकारे च दृश्यते । यदुत्प्रश्ने वितर्के च प्रकारार्थोपमानयोः ॥ Śabdaratnāvalī 8.1.28
  • शब्दरत्नावली अपअप चौर्ये च निर्देशे विकृतौ च विपर्यये । विनियोगे वर्जनार्थे हर्षापकृष्टयोरपि ॥ अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये । कामचारक्रियायुक्तपदार्थे च निगद्यते ॥ उप दाक्षिण्यसामर्थ्यहीवात्मय … । अधिकार्थे समीपे च दाषाख्याननिदर्शने । आश्चर्यकरणे दाने मारणे व्याप्तिलिप्सयोः ॥ उपमारम्भपूजासु भवेदुद्योग इत्यपि । Śabdaratnāvalī 8.1.44
  • शब्दरत्नावली कथम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
  • शब्दरत्नावली दिष्ट्याअयि सम्बोधने सानुनयप्रश्नानुरागयोः ॥ अये विषादे क्रोधे च स्मृतौ सम्बोधनेऽपि च । पश्य प्रशंसास्मययोर्दिष्ट्या मङ्गलहर्षयोः ॥ समया निकटे मध्ये कालविज्ञायनेऽपि च । Śabdaratnāvalī 8.1.51
  • शब्दरत्नाकर मोदकस्वादौ हृद्ये मयूखस्तु ज्वालायां किरणे त्विषि । मलिनी वृत्तवाहिन्योर्मोदको भक्ष्यहर्षयोः ॥ २१५० ॥ Śabdaratnākara 4.1.2150
  • शब्दरत्नाकर हन्तप्रत्यक्षसत्ययोः साक्षात् पृथगर्थेऽन्तिके हिरुक् । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २२७८ ॥ Śabdaratnākara 5.2.2278
  • त्रिकाण्डशेष आमोदअर्बुदो रुजि सङ्ख्यायामामोदो गन्धहर्षयोः । रहस्ये स्यादुपनिषत्समीपसदनेऽपि च ॥ २०३ ॥ Trikāṇḍaśeṣa 3.3.203
  • त्रिकाण्डशेष रभसभाषाशृङ्खलके रासः क्रीडायामपि गोदुहाम् । रहो रते च गुह्ये च रभसो हर्षवेगयोः ॥ ४५० ॥ Trikāṇḍaśeṣa 3.3.450
  • वैजयन्ती आमोदश्रोण्याञ्चारोह आकारस्त्वाकृतावात्मवैकृते । आमोदौ हर्षसौगन्ध्ये आभोगौ यत्नपूर्णते ॥ ७ ॥ Vaijayantī 7.1.7
  • वैजयन्ती हन्तसाक्षात्प्रत्यक्षसदृशोः पृथगर्थेऽन्तिके हिरुक् । वाक्यारंभेऽनुकंपायां हन्त हर्षविषादयोः ॥ ३० ॥ Vaijayantī 8.7.30