कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मङ्गल

maṅgalaक्ली · neut.

In 25 kośas: 39 synonym verses, 7 as a nānārtha head word, 70 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.86 · p. 7
श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः ।क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥ ८६ ॥
गीतिः
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.117 · p. 9
आरो वक्रो लोहिताङ्गो मङ्गलोऽङ्गारकः कुजः ॥ ११६ ॥आषाढाभूर्नवार्चिश्च बुधः सौम्यः प्रहर्षुलः ।ज्ञः पञ्चार्चिः श्रविष्ठाभूः श्यामाङ्गो रोहिणीसुतः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.26
श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ।शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.122 · p. 15
श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् ।भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.45 · p. 69
ताराभं रात्रिजं धिष्ण्यं न ना नक्षत्रमित्यपि ।कुजारमङ्गलाङ्गाराः लोहिताङ्गो धरासुतः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.207 · p. 85
उदुम्बरे तु मशकी पलाशे किंशुकोऽपि च ।हस्तिकर्णिदले कृत्तिर्बिल्वे मालूरमङ्गलौ ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.242 · p. 88
शतभूर्दमयन्ती च सौरभे त्वस्य मङ्गलम् ।वृषाकदल्यां माहेद्रिर्दीर्घपत्रांशुमत्फला ॥ २४२ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 39 · p. 4
मङ्गलं सौरभं तस्य मङ्गल्यं वरवर्णिनी ।वरारोहा देवकला कथ्यते सुरमल्लिका ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.27 · p. 24
मालती राजपुत्री स्यात्सुगन्धा नवमालिका ।मल्लिकायां विचकिलो मङ्गलं तस्य सौरभम् ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.42 · p. 206
श्वा श्वानो मङ्गलो वक्रपुच्छो भलुह इत्यपि ।विश्वकद्रुस्तु मृगयापर्यायकुशलार्थकः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.199 · p. 402
भूपर्यायसुतार्थस्तु वक्र आरोऽपि मङ्गलः ।रक्तार्थादङ्गपर्यायः शिवपर्यायवीर्यजः ॥ १९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.89 · p. 415
शातं सातमथो भद्रं भगं मद्रं च भावुकम् ।भविकं मङ्गलं वा ना भव्यं द्रव्यं शिवं शुभम् ॥ ८९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.36 · p. 421
वल्लभो मङ्गलश्चापि षडुक्ता मण्डका अथ ।अमरो मन्दिरश्चापि विचारः कुन्दसंज्ञकः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.50 · p. 32
आषाढीयो मङ्गलो लोहिताङ्गोभौमो वक्रोऽङ्गारकः स्यान्नवार्च्चिः ।आरो[21b]ऽषाढः पिप्पलादस्तुतश्चक्रूराक्षः स्याल्लोहितः खोल्मुकश्च ॥ ५० ॥
शालिनीmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.22 · p. 42
क्लीबेऽव्ययं प्रत्यहं स्यादन्वहं तद्दिनं तथा ।त्रिषु प्रात्यहिकं दैनंदिनं चात्रसमुद्भवम् ।रवीन्दु-मङ्गल-बुध-गुरु-भार्गव-सौरयः ॥ २२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.52 · p. 164
आश्वासनी महामूर्धा श्रावणी शोधना प्रिया ।लक्ष्मीर्योग्यं च सुसुखं मङ्गलं युगनामकम् ॥ ५२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.65 · p. 115
छेदने[लूः] पिप्पलः कम्बलः शम्बलःशील-शैलोपलाः शूलतूलाङ्गुलाः ।वल्कलं पल्वलं धूमलं खण्डलंकुण्डलं कुड्मलं मूलवन्मङ्गलम् ॥ ६५ ॥
स्रग्विणीmetre not read in every linenearly स्रग्विणी
genderपुंक्लीm. n.
एते शब्दाः पुंसि भवन्ति । अयं स्थूलो राशिः । अलक्तकः पादादिरागद्रव्यम् । कर्पासः सूत्रद्रव्यम् । सूर्यो रविः । कूर्पासः कञ्चुकम् । सारथिः सूतः । तरङ्गः कल्लोलः । अलकः केशरचना । समुडाः संपुटकः । वराटः कपर्दकम् ।सैन्यायुधमङ्गलनगरवृन्त[त्त]फलमूलहरितालबिम्बमुकुटकुड्मलतस्तृतीयाप्रकृतिः ।पुंस्यवसथस्तथोद्गीथः संवीथः कालगीथश्च ॥ ७१ ॥
metre not recognised
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.174 · p. 96
ऋद्वौ सिद्धिर्युगं योग्यं रथाङ्गं मङ्गलं वसु ।ऋषिसृष्टा सुखं लक्ष्मीर्वृद्धेरप्याह्वया अमी ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.50 · p. 14
मल्लिकायां विचकिलो मङ्गलं तस्य सौरभः ।माङ्गल्यं तु वरारोहा कथ्यते नवमल्लिका ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 198 · p. 91
क्षेमं कल्याणमुभयं श्रेयो भद्रं च मङ्गलम् ।भावुकं भविकं भव्यं श्वोवसीयं शिवं तथा ॥ १९८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.112 · p. 19
द्वय्यः प्रोष्ठपदाः पौष्ण्यं रेवती [च] विधुप्रियाः ।मङ्गलो लोहिताङ्गारावाषाढाभूकुजावपि ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.271 · p. 86
भावुकं भविकं भव्यं भद्रमदे समे उभे ।मङ्गलं कुशलं श्रेयः क्षेमोऽस्त्री श्वोवसीयसम् ॥ २७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.158 · p. 230
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.68 · p. 10
वाल्मीकं कठिनं शाम्बं लोहितं ऋजु मङ्गलम् ।चाक्षुषं भासुरं मोक्षं तेजोमयमरिंदमम् ॥ ६८ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.319 · p. 22
नक्षत्रं तारका तारा भमृक्षमुडुरत्निका ।मङ्गलो भूमितनयो रक्ताङ्गो मेषवाहनः ॥ ३१९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.73 · p. 9
उष्णं तिग्मं खरं तीक्ष्णं चण्डं तीव्रं तथा पटुः ।मङ्गलोऽङ्गारको भौम आरो वक्रः कुजः स्मृतः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.149 · p. 34
कुशलं मङ्गलं भद्रं कल्याणं भावुकं शुभम् ।क्षेमं भव्यं शिवं श्रेयः शस्तं स्वःश्रेयसं स्मृतम् ॥ १४९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.64 · p. 10
प्रशस्तं सुकृतं शस्तं सूनृतं च ततः परम् ।कल्याणं मङ्गलं चैव भद्रं काम्यं तथा शिवम् ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.106 · p. 16
आरो वक्रो नवार्चिश्च माहेयोऽङ्गारकस्तथा ।आषाढाभूः कुजो भौमः लोहिताङ्गश्च मङ्गलः ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.220 · p. 16
षोडशार्चिर्मघाभूश्च श्वेतः श्वेतरथोऽपि च ।मङ्गलोऽङ्गारको भौमः कुजो बक्रः महीसुतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.305 · p. 21
मङ्गलं भावुकं भव्यं कल्याणं भविकं शुभम् ।अस्त्री क्षेमं प्रशस्तञ्च भद्रं श्वश्रेयसं शिवम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.420 · p. 30
मड्डुमृदङ्गकौ मन्द्रो मर्दलो दारुजो मृजः ।डिण्डिमः स्यादेकवादो गुरुर्मङ्गल इत्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मृ (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि प्रथमः काण्डः Śabdaratnākara 1.17 · p. 176
मध्यतालव्यकं प्रोक्तं, सुभं तालव्य-दन्त्ययुक् ।मङ्गल्यमपि माङ्गल्यं मङ्गलं च तथा स्मृतम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.183 · p. 24
सोपप्लवोपरक्तौ तु तावेव तमसावृतौ ।आरस्त्वङ्गारको भौमो मङ्गलोऽवनिजः कुजः ॥ १८३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.282 · p. 38
मङ्गलं भावुकं भव्यं भविकं भद्रमद्रके ।कुशलं शोभनं श्रेयः शस्तं च क्षेममस्त्रियाम् ॥ २८२ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव दिग्वर्गः Trikāṇḍaśeṣa 1.3.12 · p. 16
षोडशार्चिर्नवार्चिस्तु मङ्गलः खोल्मुकः कुजः ।बुधो हेमा राजपुत्र एकदेहः प्रहर्षणः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.31 · p. 19
गजच्छायाप्यथार्केन्द्वोः परिधिः परिवेषकः ।कुजारमंगलांगारा लोहितांगो धरासुतः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.48 · p. 199
समष्टिरप्यतोऽन्यो यो गन्धोऽसुरभिरित्यसौ ।मल्लिकायां स्थितो गन्धो मङ्गल्या मङ्गलश्च सः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.17 · p. 347
मांसे त्वस्त्री मङ्गलोऽस्त्री शुभे सर्वार्थरक्षणे ।स्त्री गौरीसितदूर्वार्थः पुंस्यङ्गारकनामसु ॥ १७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1316 · p. 162
प्राग्देशावस्थिते नीवृद्भेदे समतटाह्वये ।अथ मङ्गलमस्त्री स्यात् कल्याणे त्रि तु तद्वति ॥ १३१६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1317 · p. 162
मल्लिकागाधसदृशगन्धयुक्ते च वस्तुनि ।मङ्गला सितदूर्वायां स्त्रियां रभस उक्तवान् ॥ १३१७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1318 · p. 162
क्लीबं तु मल्लिकापुष्पगन्धे लब्धार्थरक्षणे ।पुमांस्त्वङ्गारके ग्रामवास्तुभेदे च केचन ॥ १३१८ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.82 · p. 282
मङ्गलो भूमिपुत्रे स्यात्कल्याणे तु नपुंसकम् ।मण्डलं परिधौ कोठे देशे द्वादशराजके ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2149 · p. 260
कल्याणे मङ्गलं भौमे मङ्गलो मन्थरस्त्रिषु ।मन्दगामिनि मन्थाने सूचके मधुरस्त्रिषु ॥ २१४९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.405 · p. 235
मेखलाद्रिनितम्बेऽपि ग्रहे ना मङ्गलं शुभे ।निकटेऽपि च मूलं स्याद्धुस्तूरेऽपि च मातुलः ॥ ४०५ ॥
अनुष्टुप्

मङ्गल as a meaning in nānārtha verses