कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

अव्ययाध्यायः · अव्ययद्व्यक्षराध्यायः

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अनेकार्थाध्याये एकाक्षराध्यायः ।

अव्ययद्व्यक्षराध्यायः

अलं तु शक्तौ पर्याप्तौ भूषणे विनिवारणे ।अपि संभावनाप्रश्नगर्हाशङ्कासमुच्चये ॥ २२६० ॥
5.2.2260 · p. 274
अनुष्टुप्
मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ।अयि सानुनये प्रश्ने स्यादध्यधिक ईश्वरे ॥ २२६१ ॥
5.2.2261 · p. 274
अनुष्टुप्
अनु प्रकारे वीप्सायां पश्चाल्लक्षणहेतुषु ।अति प्रशंसातिक्रान्त्योरधिकार्थेऽपभाषणे ॥ २२६२ ॥
5.2.2262 · p. 274
अनुष्टुप्
अमा सहार्थे सामीप्ये वीप्साभिमुखयोरपि ।पीडेर्ष्यानुमतिष्वस्तु विनियोगे क्रियास्वह ॥ २२६३ ॥
5.2.2263 · p. 275
अनुष्टुप्
आहो निन्दाहेतुचित्रेष्वाराद्दूरसमीपयोः ।इति हेतौ प्रकरणे प्रकारादिसमाप्तिषु ॥ २२६४ ॥
5.2.2264 · p. 275
अनुष्टुप्
उपाधिकेऽन्तिके हीनेऽप्युत प्रश्नवितर्कयोः ।विस्तारेऽङ्गीकृतावूरी स्यादुरर्यूरीति च ॥ २२६५ ॥
5.2.2265 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इवेत्थमर्थयोरेवमेव निर्धारणेऽपि च ।कच्चित्प्रश्ने कामवादे वार्तासंभाव्ययोः किल ॥ २२६६ ॥
5.2.2266 · p. 275
अनुष्टुप्
किमु प्रश्ने विकल्पे च कुतः प्रश्ने च निह्नवे ।निषेधवाक्यालंकारजिज्ञासानुनये खलु ॥ २२६७ ॥
5.2.2267 · p. 275
अनुष्टुप्
तूष्णीमर्थे सुखे जोषं तर्हि स्यात् प्रश्न उत्तरे ।तथा समुच्चये साम्ये परमार्थाभ्यनुज्ञयोः ॥ २२६८ ॥
5.2.2268 · p. 275
अनुष्टुप्
तिरोऽन्तर्धौ तिर्यगर्थे दिष्टं स्यान्मङ्गलादिषु ।तर्कनिश्चययोर्नूनं नानानेकोभयार्थयोः ॥ २२६९ ॥
5.2.2269 · p. 275
अनुष्टुप्
प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ।नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ॥ २२७० ॥
5.2.2270 · p. 275
अनुष्टुप्
प्रबन्धे निकटेऽतीते पुराणानागते पुरा ।पुनरप्रथमे पश्ने व्यावृत्ताववधारणे ॥ २२७१ ॥
5.2.2271 · p. 275
अनुष्टुप्
भागे प्रकारकथने वीप्सायां लक्षणे प्रति ।प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रे पुरः स्मृतः ॥ २२७२ ॥
5.2.2272 · p. 276
अनुष्टुप्
वीप्सायां परितोभागे वर्जनेऽप्यपवत् परि ।परा विहीनेऽनावृत्तौ हिते चामन्त्रणेऽद्भुते ॥ २२७३ ॥
5.2.2273 · p. 276
अनुष्टुप्
तोषे खेदे कृपायां च बाढं त्वनुमतौ दृढे ।खेदानुकम्पासंतोषविस्मयामन्त्रणे बत ॥ २२७४ ॥
5.2.2274 · p. 276
अनुष्टुप्
मुहुः क्षणेऽनुक्षणे च मिथोऽन्योऽन्यं रहस्यपि ।यथा सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे ॥ २२७५ ॥
5.2.2275 · p. 276
अनुष्टुप्
यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ।वृथा निष्कारणे वन्ध्ये शश्वद्भूयः सदेति च ॥ २२७६ ॥
5.2.2276 · p. 276
अनुष्टुप्
सकृत् सहैकवारे च सामि स्यादर्धनिन्दयोः ।स्वस्ति मङ्गलनिष्पापक्षेमेष्वाशीर्वचस्यपि ॥ २२७७ ॥
5.2.2277 · p. 276
अनुष्टुप्
प्रत्यक्षसत्ययोः साक्षात् पृथगर्थेऽन्तिके हिरुक् ।हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २२७८ ॥
5.2.2278 · p. 276
अनुष्टुप्