कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नूनम्

nūnamअ · indecl.

In 10 kośas: 7 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य अव्ययवर्गः Abhidhānacintāmaṇi 7.1540 · p. 58
कच्चिदिष्टपरिप्रश्नेऽवश्यं नूनं च निश्चये ॥ १५४० ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.29
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् ।
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव अव्ययप्रकाण्डः Kalpadrukośa 3.4.20 · p. 459
संवद्वर्षेऽवरे त्वर्वागेवं चैवावधारणे ।अथावश्यं निश्चिते स्यान्नूनं निरपि चैव ते ॥ २० ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.18 · p. 121
नूनं किल खलु द्वै त्वै पृच्छादौ तु कथं कुतः ।किं ततो हूमपि ननु किंनु स्विन्नु तथापि हुम् ॥ १८ ॥
अनुष्टुप्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2805 · p. 457
कच्चिदिष्टपरिप्रश्ने कथ्यते कोविदैः किल ।अवश्यमथ नूनं च निश्चये हि निगद्यते ॥ २८०५ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.14 · p. 306
असत्ये तु मृषा मिथ्या यथार्थन्तु यथायथम् ।दुःषमं निःषमं गर्ह्ये अवश्यं न्यूनन्तु निश्चिते ।पुनरेव तु वै वो च षट्कं स्यादवधारणे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderअindecl.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययाध्यायः Śabdaratnākara 6.2295 · p. 278
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् ।असूयोपगमेऽप्यस्तु विरतौ रञ्जने रुषः ॥ २२९५ ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.251
इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ २५१ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.879 · p. 100
समयानिकषाशब्दौ सामीप्ये कीर्तितौ बुधैः ।तर्कनिश्चययोर्नूनं कच्चित्स्यात्प्रश्नकामयोः ॥ ८७९ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.6 · p. 131
कं कल्याणशिरोम्बुरुक्पुनरु[245a]रीकारानुयोगार्थयोःपृच्छा-गर्हणयोस्तु किं स्म तु गते कालेऽङ्घ्रिपूर्तावपि ।स्वाच्छन्द्येऽनुमतौ च काममुदितं स्यात्सामि निन्दा-र्धयो-र्नूनं निश्चित-तर्कयोरनुनय-क्रोधोक्तितर्केषु हूम् ॥ ६ ॥
शार्दूलविक्रीडितम्metre not read in every line
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.268 · p. 196
निभो दम्भे समाने च नरः कर्पूररामयोः ।अर्जुने केशवे मर्त्ये नूनं निश्चयतर्कयोः ॥ २६८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.50 · p. 303
किमु सम्भावनायाञ्च विमर्षविदितार्थयोः ।तात्मकोपे स्मृतौ विस्मयकुत्सयोः ।प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः ।शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च ।हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि ।हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥एवमङ्गीकृते वार्थप्रकारेष्वषधारणे ।अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि ।कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि ।नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः ।सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि ।इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि ।साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययद्व्यक्षराध्यायः Śabdaratnākara 5.2.2269 · p. 275
तिरोऽन्तर्धौ तिर्यगर्थे दिष्टं स्यान्मङ्गलादिषु ।तर्कनिश्चययोर्नूनं नानानेकोभयार्थयोः ॥ २२६९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.22 · p. 285
तर्कनिश्चितयोर्नूनं नानानेकोभयार्थयोः ।प्रश्नावधारणैतिह्यसमीहानुमते ननु ॥ २२ ॥
अनुष्टुप्