All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
स्वर्गस्कन्धः · अव्ययप्रकाण्डः
द्वितीयादिविभक्त्येकवचनप्रतिरूपकम् ।चिराख्यं चिररात्राख्यं चिरार्थप्रतिपादकम् ॥ १ ॥
3.4.1 · p. 457
अनुष्टुप्
पुनः पुनः पुनरपि मुहुरेवं मुहुर्मुहुः ।शश्वच्छाश्वदभीक्ष्णं तु वारं वारार्थवाचकम् ॥ २ ॥
3.4.2 · p. 457
अनुष्टुप्
तरसा सपदि क्षिप्रं त्वह्नाय झटिति द्रुतम् ।तूर्णं द्रागञ्जसा मक्षु स्राक् शीघ्रं लघु चित् चन ॥ ३ ॥
3.4.3 · p. 458
अनुष्टुप्
असाकल्ये समं सत्रा साकं सार्द्धं सहार्थकम् ।स्यात्प्राध्वमानुकूल्येथ व्यर्थार्थे तु मुधा वृथा ॥ ४ ॥
3.4.4 · p. 458
अनुष्टुप्
यत्तद्यतस्ततो हेतौ बलवत्सुष्ठु किं पुनः ।इवाति सु स्युराधिक्ये कदाचिज्जातु जातुचित् ॥ ५ ॥
3.4.5 · p. 458
अनुष्टुप्
उताहो किं किमूताहो विकल्पे किमुतापि च ।मिताक्षरग्रन्थजाते तु हि च स्म ह वै किमीम् ॥ ६ ॥
3.4.6 · p. 458
अनुष्टुप्
इच्चापि पादपूर्त्यै स्युर्विना साङ्केतिकात्पुनः ।अमिताक्षरजाते च वावोह यदपि क्वचित् ॥ ७ ॥
3.4.7 · p. 458
अनुष्टुप्
वाक्यस्य पूरणार्थास्ते पूजायामति सु द्वयम् ।मौने तूष्णीं च तूष्णीकं सप्तम्यर्थे दिवाव्ययम् ॥ ८ ॥
3.4.8 · p. 458
अनुष्टुप्
दिवसार्थोऽपि तद्वत्स्यान्नक्तं दोषा तथैव च ।रात्र्यर्थवाचकं चाथ समया निकषा हिरुक् ॥ ९ ॥
3.4.9 · p. 458
अनुष्टुप्
सामीप्येऽथान्तरे साचि तिर्यगर्थे विवादिते ।सहसाऽथाङ्ग हे है भोः प्याट् पाडथ पुरोग्रतः ॥ १० ॥
3.4.10 · p. 458
अनुष्टुप्
पुरस्तात्पुरतोऽथ स्यात् श्रौषड्वौषड्वषट् पुनः ।देवताभ्यो हविर्दाने स्वाहापि स्यादथ स्वधा ॥ ११ ॥
3.4.11 · p. 458
अनुष्टुप्
कव्यदाने पितॄणां च स्वधा स्यादप्यथो मनाक् ।इषदीषत् किञ्चिदपि स्वल्पेथो कद्यथा तथा ॥ १२ ॥
3.4.12 · p. 459
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कि (wrong syllable)
वैवं साम्येऽथ प्रसह्य हठादथ भवान्तरे ।प्रेत्यामुत्राथ मध्यार्थेऽप्यन्तरा चान्तरेण च ॥ १३ ॥
3.4.13 · p. 459
अनुष्टुप्
अप्यन्तरे च दिष्ट्या स्यादानन्द उपजोषकम् ।स्थाने युक्तं साम्प्रतं स्यात्सद्यः सपदि तत्क्षणे ॥ १४ ॥
3.4.14 · p. 459
अनुष्टुप्
हठे प्रसह्य प्रसभं स्यादभीक्ष्णमनारतम् ।शश्वच्चाथाप्य मा नो ना मा स्मालं न हि वारणे ॥ १५ ॥
3.4.15 · p. 459
अनुष्टुप्
पक्षान्तरे तु यदि चेदद्धा तत्त्वेञ्जसापि च ।प्राकाश्ये प्रादुराविः स्याद्विरोधोक्तौ ननु स्मृतम् ॥ १६ ॥
3.4.16 · p. 459
अनुष्टुप्
अङ्गीकारे तु परमं प्रमाणं वाढमेव च ।अवश्यं परितो विष्वक् सर्वतोऽपि समन्ततः ॥ १७ ॥
3.4.17 · p. 459
अनुष्टुप्
अकामानुमतौ काममसूयोपगमेऽस्तु च ।निःसमं दुःषमं गर्ह्ये कच्चित्कामप्रवेदने ॥ १८ ॥
3.4.18 · p. 459
अनुष्टुप्
मृषा मिथ्या च वितथे यथास्वं तु यथायथम् ।यथातथमथापि स्यात्प्रागतीतार्थवाचकम् ॥ १९ ॥
3.4.19 · p. 459
अनुष्टुप्
संवद्वर्षेऽवरे त्वर्वागेवं चैवावधारणे ।अथावश्यं निश्चिते स्यान्नूनं निरपि चैव ते ॥ २० ॥
3.4.20 · p. 459
अनुष्टुप्
आमेवं स्वयमात्मत्वे महत्युच्चैरथाल्पके ।नीचैरथ स्यादैश्वर्ये तूपर्यध्यथ भूम्नि तु ॥ २१ ॥
3.4.21 · p. 460
अनुष्टुप्
प्रायः शनैरद्रुते स्यात् स्मातीते स्तमदर्शने ।सना नित्ये बहिर्बाह्येऽथास्ति सत्त्वे रुषोदिते ॥ २२ ॥
3.4.22 · p. 460
अनुष्टुप्
उः स्यादुं तु परिप्रश्ने तर्के हुं स्यान्नमो नतौ ।उषा रात्रौ तदन्ते स्यादथाप्यनुनये त्वपि ॥ २३ ॥
3.4.23 · p. 460
अनुष्टुप्
अथ स्याद्दुष्ठु निन्दायां सुष्ठु चापि प्रशंसने ।सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ॥ २४ ॥
3.4.24 · p. 460
अनुष्टुप्
परुत्परार्यैषमोब्दे पूर्वे पूर्वतरे यति ।अद्यात्राह्न्यथ पूर्वेह्नीत्यादौ पूर्वोत्तरापरात् ॥ २५ ॥
3.4.25 · p. 460
अनुष्टुप्
तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः ।अपरेद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि ॥ २६ ॥
3.4.26 · p. 460
अनुष्टुप्
ह्योऽतीतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि ।तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २७ ॥
3.4.27 · p. 460
अनुष्टुप्
एतर्हि संप्रतीदानीमधुनाऽपि च साम्प्रतम् ।दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ २८ ॥
3.4.28 · p. 460
अनुष्टुप्
कल्पद्रौ केशवकृते स्कन्धे तार्तीयके शुभे ।अव्ययानां प्रकाण्डोऽयं सम्यक् सिद्धिमुपागतः ॥ २९ ॥
3.4.29 · p. 460
अनुष्टुप्