केदार
kedāraपुं · masc.In 18 kośas: 24 synonym verses, 5 as a nānārtha head word, 15 as a meaning of another word.
genderपुंmasc.
पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु ।कैदारकं स्यात्कैदार्यं क्षेत्रं कैदारिकं गणे ॥ ११ ॥
अनुष्टुप्
genderपुंक्लीm. n.
क्षेत्राजीवः कृषिकः कृषीवलः कर्षकः कुटुम्बी च ।सीत्यं सस्यं प्रोक्तं वप्रं क्षेत्रं च केदारम् ॥ ५७४ ॥
आर्या
genderक्लीneut.
केदारकेटवः क्षेत्रमुर्वरा सर्वसस्यभूः ।भूमिच्छिद्रं कृष्ययोग्या प्रहतं नालमुद्धतम् ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
केदारश्च पुनर्वाट एषां कैदारिकं गणे ।एषूद्भूतं वस्तुजातं त्रिषु स्यादकृते खिलम् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
गौरो महान् कुरवकः प्रमोदोसनपुष्पकः ।कुमुदः कालकः पीतः केदारस्तूर्णकाङ्गुभौ ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
स्यादालवालमावालमावापोऽस्त्री द्विजप्रिया ।केदारः स्यात् कर्दमिलः स चोक्तः पांशुमर्दनः ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
केदारश्चन्दिलो भीमो भैरवो गजदैत्यभित् ।शितिकण्ठो गुडाकेशः श्रीकण्ठः पांशुचन्दनः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
शोकप्रकाशकाश्चान्ये क्रियाङ्गेषु प्रकीर्तिताः ।केदारकर्णौ स्थानाख्या तथा मालवकादयः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
केदारान्तरपद्राणां कर्णपूरपवित्रयोः ।सीरान्धकारसमरवप्राणां विशरस्य च ॥ १७७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वापोऽहिर्वलयत्रय्यां वप्रं केदारमस्त्रियाम् ।क्षेत्रं क्षैत्रं तु कैदार्यं कैदारिकमपि व्रजे ॥ १४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कृमिर्निकाय्यः कणपश्च तिष्यःस्यात्पाञ्चजन्यः सिचयः कटप्रूः ।गिरिर्गुडेरः क्षुरकेदराराअमित्र-मित्रावपि वृत्र-पुण्ड्रौ ॥ २० ॥
उपजातिः
genderपुंmasc.doubtful
वज्राङ्गारविहारचीरसमरा ? केदारमाडम्बरंवप्रोशीरकुलीरदार्दु[233b]र-रिवत्कुस्तुंबरुर्गह्वरः ।नेत्रोपह्वरशेखरातिखरवत्स्याच्छिग्रुरार्द्रं शुनी-रः स्याद्वासर-तूबरौ सतुबरौ तद्वत्सहस्रं भवेत् ॥ ६२ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंक्लीm. n.
हरीतकविभीतकामलकवच्च भल्लातका-ढकौ पिटक-तारकौ करक ईरितोऽब्दोपले ।स्फुलिङ्गस[दृ]शं विडङ्गमथ किंच केदारका-र्थकश्च वलजो वटः पटपुटौ[235b]तटः पेटवत् ॥ ८६ ॥
पृथ्वीmetre not read in every line
genderपुंस्त्रीक्लीm. f. n.
पामाशब्दः स्त्रियां कथितः । इयं पामा विचर्च्चिका कच्छूः । वेमादयः पुंसि भवन्ति । अयं वेमा तन्तुवायस्य । कुणपो मृतशरीरम् । कूर्चः श्मश्रु । अयं कन्दरः पर्वतस्यैकदेशः । यूथः सङ्घातः । प्रोथोऽश्वस्य नासिकाविवरयोरुपरिदेशः । वंशो वेणुः । रेणुः पांसुः । ध्वजः केतुः ।केदारखण्डप्रशमाश्च पुंसि नित्यं कपाटाश्च ।हेलाकाञ्चीला[ली]लासुधायुधाः स्युः स्त्रि[स्त्री]यां प्रवेणी च ॥ ७४ ॥
metre not recognised
genderपुंmasc.
यत्राशिताः पुरा गावः क्षेत्रं वप्रस्तथोच्यते ।केदारः सेतुपाल्यालिसंवराः सारणिः स्तथा ॥ २५२ ॥
अनुष्टुप्
genderपुंmasc.
बभ्रुर्दक्षः शुचिः प्राणः प्रलम्बो भृगुरित्यपि ।वृषाङ्कः शम्बरः शङ्कुः केदारोऽक्षर एव च ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
क्षेत्री जीवश्च कृषिकृत्कर्षकश्च कृषीवलः ।क्षेत्रं वप्रश्च केदारो हलः सीरश्च लाङ्गलम् ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
आदिभ्यां प्रास्थिकादिश्च पाकादौ द्रौणिकोऽपि च ।अस्त्री वप्रन्तु केदारो बलजक्षेत्रमित्यपि ॥
अनुष्टुप्
genderपुंmasc.
प्रतिष्ठानं पुष्पपुरमित्याद्या बहवः पुरः ।पुष्करं रुद्रकोट्याख्यं केदारं पुरुषोत्तमम् ॥ ८३५ ॥
अनुष्टुप्
genderक्लीneut.
वप्रोऽस्त्री पुंसि केदारः क्षेत्रमस्य कदम्बके ।कैदारककैदारिककैदार्यक्षैत्रकैदारम् ॥ १४०३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
द्विजप्रपालवाले स्यात्केदारः पांशुमर्दनः ।नदी निर्झरिणी रोधोवक्रा सागरगामिनी ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
अवस्कन्दश्च भाषार्थमंगीकृत्य विशेषगीः ।केदारः केदरः क्षेत्रमुर्वरा सर्वसस्यभूः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
केदार ईशे च धरालवाल-क्षेत्रप्रभेदेषु बुधैः प्रदिष्टः ॥ ४२ ॥
इन्द्रवज्रा
केदारस्त्वस्त्रियां क्षेत्रे शालिक्षेत्रे तु केचन ।पुण्यस्थानविशेषे च रभसस्त्वालवालके ॥ ५८५ ॥
अनुष्टुप्
शिरः कपोलसन्धौ तु स्यात्कुम्भिनरकेऽपि च ।कोहारो नागरे कूपे पुष्करिण्याश्च पाटके ॥
अनुष्टुप्
doubtful
केदार as a meaning in nānārtha verses
- धरणिकोश क्षेत्ररौद्रो यमे आतपे च रौद्रं नाट्ये रसान्तरम् । क्षेत्रं वपुषि केदारे सिद्धस्थानकलत्रयोः ॥ Dharaṇikośa 26.2.16
- धरणिकोश वप्रवप्रः पितरि केदारे वप्रः प्राकाररोधसोः । अमरौ देवास्थिसंहारावमरे दूर्वागुडूचिके ॥ Dharaṇikośa 26.2.24
- कल्पद्रुकोशः वलजजीवः प्राणेषु केदारे वलजः पवने खलः । बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधाः ॥ १९७ ॥ Kalpadrukośa 3.5.197
- कोषकल्पतरु राजिकाअम्लानके स्यादपि यूथिका स्त्रियां केदाररेखासुरिकासु राजिका । द्वारस्य पिण्ड्यामपि दूतिकायां संग्रामभूमौ गदिता च रुण्डिका ॥ ९ ॥ Koṣakalpataru 6.1.9
- कोषकल्पतरु क्षेत्रनेत्रं तु न स्त्री नयने च वस्त्र- भेदे द्रुमूले रथवस्तिनाड्योः । मथो गुणेऽन्यत्र तु नेतृवाची क्षेत्रं तु केदारशरीरयोः स्यात् ॥ ३४ ॥ Koṣakalpataru 6.27.34
- कोषकल्पतरु पाटीरवङ्गे च वातिके स्यात्तितउनि धाराधरे तद्वत् । केदारवेणुसारे मुडीरः ( ? ) पुंसि शक्ते च ॥ ६१ ॥ Koṣakalpataru 6.27.61
- नानार्थार्णवसंक्षेप क्षेत्रक्षेत्रं पृथिव्यामाकाशे शरीरे योनिवृन्दयोः । केदारदारागारेषु नक्षत्रे पुरि राशिषु ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 2.3.19
- नानार्थार्णवसंक्षेप पाटीरकेदारे वेणुसारे च प्राह वारिधरेऽपि च । इत्येव पुलकस्तु स्याच्छत्रस्थास्वणुराजिषु ॥ १६३ ॥ Nānārthārṇavasaṃkṣepa 3.2.163
- नानार्थार्णवसंक्षेप राजिकाराजिका क्षवसंज्ञाके विज्ञेया सर्षपान्तरे । केदारेऽपि च पङ्क्तौ च राजकं तु नपुंसकम् ॥ १५१० ॥ Nānārthārṇavasaṃkṣepa 4.1510
- परमानन्दीयनाममाला क्षेत्रक्षुद्रस्तु निर्धने क्रूरे निकृष्टे स्वल्पतुच्छयोः । क्षेत्रं पत्न्यां भगे देहे केदारे भरतादिके ॥ ३८२ ॥ Paramānandīyanāmamālā 5.29.382
- शब्दरत्नावली याजिकारक्तकोऽम्लानबन्धूकरक्तांशुकविनोदिषु । याजिका स्यात्तु केदारे लेखायां सर्षपान्तरे ॥ Śabdaratnāvalī 7.1.129
- शब्दरत्नावली निष्कुटदयाशून्ये च तीव्रे च मत्ते च निष्प्रयोजने । निष्कुटः पुंसि केदारे गृहीय्यानकपाटयोः ॥ Śabdaratnāvalī 7.11.47
- शब्दरत्नाकर क्षेत्रक्षेत्रं तु दारकेदारपुण्यस्थानात्ममूर्तिषु । पुरे योनौ समूहेऽथ मेदिन्यां च क्षये क्षितिः ॥ १८९७ ॥ Śabdaratnākara 4.1.1897
- तन्त्राभिधान अंअमृताकर्षिणी शून्यं विचित्रा व्योमरूपिणी । केदारो रात्रिनाथश्च कुब्जिका चैव बुद्बुदः ॥ ५२ ॥ Tantrābhidhāna 2.16.52
- वैजयन्ती क्षेत्रक्षेत्रं गृहे पुरे देहे केदारे योनिभार्ययोः । पुण्यस्थाने समूहे च घृतं त्वाज्येंऽबुसर्पिषोः ॥ ६ ॥ Vaijayantī 6.3.6