कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चातुर्वर्ण्य

cāturvarṇyaक्ली · neut.

In 6 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.621 · p. 33
चातुर्वर्ण्यं द्विजक्षत्त्रवैश्यशूद्रा नृणां भिदः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.1
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ।
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 231
[96b]दौष्कुलेयो दुष्कुलीनः पांसनेऽमी विशेष्यगाः ।वर्णा नरि ब्राह्मणाद्याश्चातुर्वर्ण्यं पुनः स्मृतम् ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.401 · p. 151
वैश्यशूद्रद्विजक्षत्राश्चातुर्वर्ण्यं नृणां मतम् ।ब्रह्मचारी गृही तस्माद्वानप्रस्थोऽथ भिक्षुकः ॥ ४०१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1344 · p. 213
चातुर्वर्ण्यं विप्रक्षत्रवैश्यशूद्रा नृणां भिदः ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ १३४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1170 · p. 144
चातुर्वर्ण्यं तु चत्वारो वर्णास्ते ब्राह्माणादयः ।ब्राह्मणो बाडवो विप्रः षट्कर्मा भूसुरो द्विजः ॥ ११७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ह्मा (wrong syllable)
genderक्लीneut.