कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुल

kulaक्ली · neut.

In 19 kośas: 40 synonym verses, 8 as a nānārtha head word, 38 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.212 · p. 23
कुल्यः कुलीनोऽभिजातः कौलेयकमहाकुलौ ॥ ५०२ ॥जात्यो गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम् ।अन्वयो जननं वंशः स्त्री नारी वनिता वधूः ॥ ५०३ ॥वशा सीमन्तिनी वामा वर्णिनी महिलाबला ।योषा योषिद्विशेषास्तु कान्ता भीरुर्नितम्बिनी ॥ ५०४ ॥प्रमदा सुन्दरी रामा रमणी ललनाङ्गना ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.79 · p. 39
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.60 · p. 53
कुलं तेषां सजातीनां निकायस्तु सधर्मिणाम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.41
सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम् ॥ ४१ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.1
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.291 · p. 35
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.396 · p. 46
अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनः कुलम् ।चरित्रं चरितं शीलं चारित्रं च समं स्मृतम् ॥ ३९६ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.686 · p. 79
निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।चयसमवायवृन्दसन्दोहसमाजवितानसंहति-प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
metre not recognised
genderक्लीneut.
पटोलिका पटोली स्यात् कूलकं कुलकं कुलम् ।तुम्बिस्तुम्बी च तुम्बश्च तुम्बकश्च समा अमी ॥ १३८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.35 · p. 12
निशान्तं धाम शरणं कुलं गेहं निकेतनम् ।अगारं चोदवसितमागारं चाधिवासनम् ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.128 · p. 34
क्लीबे वपुः संहननं पुद्गलं वर्ष्म मूर्त्तिमत् ।पुरं षडङ्गं करणं सूत्रशाखं शितं कुलम् ॥ १२८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.4 · p. 69
कुलं तु गोत्रं जननं क्लीबे स्त्री सन्ततिः पुमान् ।वंशोन्ववायः सन्तानोऽन्वयो वर्णचतुष्टयी ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.34 · p. 122
आगारं स्यादुदवसितमगारं गृहं चोक्तमोकोवस्त्यं पस्त्यं सदन-शरणे सादनं धाम धामम् ।धिष्ण्यं धर्त्रं विशिपकुलयुक् समवाश्रं च (?) घरं स्याद्--वेश्याथास्मिन्मणिविरचिते न स्त्रियां कुट्टिमः स्यात् ॥ ३४ ॥
metre not recognisednearly मन्दाक्रान्ता
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.25 · p. 200
कुलं सजातिभिर्यूथं तिरश्चां पुंनपुंसकम् ।समजस्तु पशूनां स्यात्समाजस्त्वन्यदेहिनाम् ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1 · p. 231
वंशोऽन्ववायः संतानोऽन्वयश्चाभिजनः कुलम् ।गोत्रं च जननं जातिः संततिश्च समार्थकाः ॥ १ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
छायादयः शब्दाः स्त्रियां स्युर्भवेयुरित्यर्थः । यथा छाया वृक्षादेः प्रतिबिम्बः । सुरा मदिरा । निशा रात्रिः । वालुका सिकता । चमूः सेना । कन्था प्रसिद्धा । इरा जलभूमिः । एते शब्दाः स्त्रीलिङ्गे भवन्ति । यथा इयमापत् व्यसनम् । संपद्धनम् । विपत् दुःखम् । प्रतिपत्तिथिविशेषः । समित्काष्ठम् । विप्रुट् बिन्दुः ।कुशकूबरकुञ्जाङ्कुरकुठारकुन्दकुतुपा हि पुंस्युक्ताः ।कुलकूलकुङ्कुमानि तु नपुंसान्येव जानीयात् ॥ ३३ ॥
metre not recognised
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.289 · p. 157
शिवमल्ल्यां पाशुपतः सुव्रतो वसुको बुकः ।कुलपुष्पः किण्वमूलः पाण्डुराङ्गः प्रियः कुलः ॥ २८९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 124 · p. 62
तारुण्यं यौवनं चान्त्यो वार्द्धीनः स्थविरो मतः ।वंशोऽन्वयोऽन्ववायः स्यादाम्नायः संततिः कुलम् ॥ १२४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.272 · p. 38
अगारं शरणं पस्त्यं संस्त्यायावसथावपि ।स्थानौकसी गृहा भूम्नि क्षयकूटौ तथा कुलम् ॥ २७२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.306 · p. 90
प्राणिनां संघसार्थौ तु निकायस्तुल्यधर्मिणाम् ।सजातीनां कुलं चैव वर्गः स्यात्सदृशां पुनः ॥ ३०६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.169 · p. 122
अन्ववायः कुलं गोत्रं संतानो जननं तथा ।अन्वयोऽभिजनश्चापि वंशो नार्यां वधूर्वशा ॥ १६९ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.39 · p. 3
गृहिणी गेहिनी दाराः पुरन्ध्री रमणीकुलम् ।प्रेमा मदयिनी कुल्या सुन्दरी स्वा नितम्बिनी ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.15 · p. 21
वंशोऽन्वयः कुलं गोत्रं जननाभिजने अपि ।सती पतिव्रता साध्वी दासी चेटी च चेटिका ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.87 · p. 43
राशिः पुञ्जोत्करौ कूटं जातं यूथं भरः कुलम् ।ग्रामो वर्गः समाहारो निकायो निचयोऽपि च ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.785 · p. 113
गोत्रं वंशोऽन्ववायश्च सन्तानोऽभिजनः कुलम् ।जननमन्वयश्चापि सन्ततिश्चापि कथ्यते ॥ ७८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1699 · p. 273
ओकश्च धाम धामञ्च शाला कुलं तथा कुटः ।नामान्येतानि कथ्यन्ते गृहस्य साक्षरैः किल ॥ १६९९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable); pāda 4, syllable 3 स्य (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1878 · p. 306
कुलं कच्छः प्रपातश्च रोधः प्रतीरमित्यपि ।तटं तीरं च विज्ञेयं नद्युदध्योस्तटं सदा ॥ १८७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2566 · p. 415
खगव्राते तु यूथं स्यात् सङ्घः सार्थश्च देहिनाम् ।सजातीनां कुलं तेषां निकायस्तु सधर्मिणाम् ॥ २५६६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.107 · p. 89
वर्गः समानार्थगणैर्घटासार्थो तु जन्तुभिः ।कुलं सजातीयगणैः यूथं तिर्यग्गणैरपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.265 · p. 100
क्षेत्रं तलुः कुलं पिण्डं कन्धं स्कन्धं कलेवरम् ।द्वेऽस्त्रियौ कायदेहौ च तनूर्मूर्तिस्तनुः स्त्रियः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.1 · p. 111
वंशाभिजननसन्ताना अन्ववायोऽन्वयः कुलम् ।सन्ततिर्जननं गोत्रं नवैते वंशमात्रके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.2 · p. 111
कुलं गोत्रं सगोत्रञ्च तुल्यगोत्रे निगद्यते ।ब्राह्मणो क्षत्रियो वैश्यः शूद्रो वर्णश्चतुष्टयः ।वंशो वीज्यः कौलकेयः कुलजः कुलसम्भवः ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.828 · p. 105
व्रजपुञ्जौ निकुरुम्बं जालं पटलं कदम्बकं चक्रम् ।वितानं मण्डलं चक्रवालं च वलयं कुलम् ॥ ८२८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.830 · p. 105
तिरश्चां तु कुलं यूथमस्त्रियामथ जन्तुभिः ।सजातीयैः सार्थवर्गौ कूटोऽस्त्री राशिरुत्करः ॥ ८३० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1169 · p. 144
अन्ववायोऽन्वयो वंशः संतानोऽभिजनः कुलम् ।गोत्रं च संततिर्जात्यः कुलीनश्च महाकुलः ॥ ११६९ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.19 · p. 52
जिह्वामलं तु कुलुकं पिप्पिका दन्तजे मले ।पिण्डोऽस्त्रियां कुलं क्षेत्रं शरीरं स्कन्धपञ्जरौ ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.115 · p. 168
यन्मृत्तिकांभसा स्नानं दिष्टं देशनिकं च तत् ।ऋषीणां तर्पणं यत्तत् कौलकुल्यं कुलं च तत् ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.49 · p. 177
पितरस्तु पितुर्वंश्या मातुर्मातामहाः कुले ।अन्ववायोऽन्वयो वंशः सन्तानो जननं कुलम् ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.6 · p. 186
पटल्यपुं सुश्लिष्टानां सजातीयगणे कुलम् ।शौककापोतशाबाद्याः शुकादीनां गणे नपुम् ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.54 · p. 200
आ ये समशनोऽशोके सुरवस्तिलके कुलः ।गोत्रे गन्धो गन्धके तु गन्धिकः पित्तले लसः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.388
कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः ॥
अनुष्टुप्
meaningsगृह
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.2 · p. 190
कुलं सजातीयगणे गोत्रे जनपदे गृहे ।पुलं विपुलमाख्यातं पुलः पुलक इष्यते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.55 · p. 338
विशेष्यवत्स्याद्विपुले कुलं तुदेशे गृहे गोत्रशरीरयोश्च ।तथा सजातीयगणेऽथ कालोमृत्यौ कृतान्ते समये च कृष्णे ॥ ५५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.226 · p. 62
भार्यायां स्त्री नपि त्वे(न?त)दृषीणां जलतर्पणे ।कुलं वंशे सजातीयगणे च स्यान्निकेतने ॥ २२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.104 · p. 174
करो मेघोपले रश्मौ शुण्डायां हस्तिनोऽपि च ।हस्तेऽप्यथ कुलं देहे गेहे शातिचये चये ॥ १०४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.8 · p. 277
कीला कफोणिघाते स्यात् कीलं रुग्मुष्टिघातयोः ।कुलं गोत्रे जनपदे सजातीयगणे गृहे ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.9 · p. 277
देहे क्लीबं कष्टकार्या स्त्रियां कुलिरुदाहृता ।खलं भूस्थानकल्लेषु वाच्यवत्क्रूरनीचयोः ॥
अनुष्टुप्
meaningsदेह
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.386 · p. 227
कुलं गोत्रे गणे देहे न ना ज्ञाने च केवलम् ।कपिला शिंशपाकौन्त्योः कपिलोऽग्नौ मुनौ शुनि ॥ ३८६ ॥
अनुष्टुप्

कुल as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् अभिजनकुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः । वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः ॥ १०८ ॥ Amarakośa 3.3.108
  • नामलिङ्गानुशासनम् निधनप्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः । Amarakośa 3.3.233
  • नामलिङ्गानुशासनम् वंशद्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ । Amarakośa 3.3.410
  • धरणिकोश अनूकआनकः पटहे भेर्यां सायकः शरखड्गयोः । अनूकं च कुले शीले अनीकं मृधसैन्ययोः ॥ Dharaṇikośa 1.1.6
  • धरणिकोश निधनदंशनं कवचे दंशे गहनं गह्वरे वने । अवनं रक्षणे प्रीतौ निधनं कुलनाशयोः ॥ Dharaṇikośa 19.1.11
  • धरणिकोश गोत्रगोत्रा विश्वंभरा ज्ञेया गोत्रा गोनिकुरुम्बकम् । नाम गोत्रं कुलं गोत्रं गोत्रश्च धरणीधरः ॥ Dharaṇikośa 26.3.5
  • धरणिकोश वंशवंशः संघे कुले वेणौ वाद्यभाण्डे विशेषतः । नासाविवरदेशे च पृष्ठमध्यास्थि च स्मृतम् ॥ Dharaṇikośa 29.3.5
  • कोषकल्पतरु अनूकनालीकं कमलगणेऽन्तिमेऽथ बाणे ना शिल्पिन्यथ[253b]कुलशीलयोरनूकम् । पुंसि स्याद्गतजननेऽथ वासवे स्या- द्घूके स्यादपि कुरुवीरकेऽप्युलूकः ॥ ८२ ॥ Koṣakalpataru 6.1.82
  • कोषकल्पतरु निधनकुले विनाशे प्रधनं तु युद्धे स्यादारुणेऽथो पवनोऽनिले स्यात् । कुलालपाकस्थलवल्लयोश्च बीजाहितौ स्याद्वपनं च वापे ॥ १७ ॥ Koṣakalpataru 6.21.17
  • कोषकल्पतरु संतानसुरद्रुमापत्यकुलेषु तत्यां संतान उक्तोऽथ वितानमस्त्री । उल्लोचके यज्ञविधानतत्यो- र्भेदे तु तुच्छे परवत्प्रदिष्टम् ॥ ३४ ॥ Koṣakalpataru 6.21.34
  • कोषकल्पतरु अन्वयवक्तव्यमाहुः स्ववशे च गर्ह्येऽ- न्वयस्तु सम्बन्धकुलाभिधायाम् । पुरद्रुमः स्यात्खगभिज्जटायु- रूर्णायु[रु]रभ्र[स्य]कुथेऽप्युरभ्रे ॥ ८० ॥ Koṣakalpataru 6.26.80
  • कोषकल्पतरु गोत्रगोत्रो धरे स्याद्भुवि गोसमूहे स्त्रियामथान्त्ये कुलनामहृत्सु । क्षे[46b]त्रे वने वर्त्मनि तद्वदेव संभावनीयस्य च बोधनेऽपि ॥ २५ ॥ Koṣakalpataru 6.27.25
  • कोषकल्पतरु वंशपशुर्मृगादौ प्रमथे च मेषे तिर्यक्षु सर्वेष्वसुमत्सु पुंसि । वेषोऽपि दुःखव्यवसाययोस्तु क्लेशोऽपि रागादिषु संप्रदिष्टः । वंशस्तु पृष्ठावयवे च वेणौ कुले च वर्गेऽप्यथ दंश आद्ये ॥ ९ ॥ Koṣakalpataru 6.30.9
  • नानार्थार्णवसंक्षेप गोत्रअङ्गयोरुभयोः स्यात् तु त्रिषु रङ्गोपजीविनि । गोत्रो ना भूधरे मेघे क्ली तु नाम्नि कुले बले ॥ ३६८ ॥ Nānārthārṇavasaṃkṣepa 2.5.368
  • नानार्थार्णवसंक्षेप वंशवंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले । नासोर्ध्वास्थ्नीक्षुभेदे च वंशवाद्ये तु सा स्त्रियाम् ॥ ११८३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1183
  • नानार्थार्णवसंक्षेप सन्तानप्रदेशे फलकादीनां ग्रहणार्थे परैः पुनः । मुष्टिमात्रेऽथ सन्तानः कल्पवृक्षान्तरे कुले ॥ २२३ ॥ Nānārthārṇavasaṃkṣepa 3.2.223
  • नानार्थार्णवसंक्षेप जनित्रअश्वचर्मणि तु प्राह रभसोऽथ जनित्ववाक् । कुले द्यावापृथिव्योश्च मातापित्रोश्च कीर्तिता ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 3.3.35
  • नानार्थार्णवसंक्षेप जननउत्पादके तु त्रिषु स क्लीबं तु जननं कुले । उत्पत्तौ च स्त्रियां त्वेषा जननी मातरि स्मृता ॥ ७८२ ॥ Nānārthārṇavasaṃkṣepa 4.782
  • नानार्थार्णवसंक्षेप निधनकुले नाशे सामभक्तौ पञ्चम्यामथ भेद्यवत् । न्यस्ते निसृष्टः स्त्री तु स्यान्निसृष्टा कन्यकान्तरे ॥ १०२० ॥ Nānārthārṇavasaṃkṣepa 4.1020
  • नानार्थार्णवसंक्षेप अभिजनकुले त्वभिजनो जन्मभूमौ चाभिषवः पुनः । सवने मद्यसन्धाने (स्नाने चाथाभियो)गवाक् ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 6.6
  • नानार्थार्णवसंक्षेप अंबरीषतृणजातिविशेषे च वर्षे रोधसि वाससि । केचिच्चुल्ल्यां महाभ्राष्ट्रेऽप्याहुरन्ये कुलेऽपि च ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 6.3
  • नानार्थार्णवसंक्षेप ग्रामणीकुलग्रामण्यां च कुलेऽथ स्याद् गुणसामान्यमित्यदः । साङ्ख्यतत्त्वे प्रधानाख्ये गुणशब्दार्थवस्तुनः ॥ १० ॥ Nānārthārṇavasaṃkṣepa 7.10
  • शब्दरत्नावली अनूकअलकश्चुर्णकेशे स्यात् धनाधीशपुरि स्त्रियाम् । अनूको ना कुले शीले सुगते गतजन्मनि ॥ Śabdaratnāvalī 7.1.26
  • शब्दरत्नावली निधनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नावली अभिजनअथर्वनो द्वयोर्वेदे भूमिदेवे च पुंस्यपि । अभिजनं कुले ख्यातौ जन्मभूमौ कुलध्वजे ॥ आयोधनं क्लीबलिङ्गं भवेद्युद्धे वधेऽपि च । भवेदाकलनं काङ्क्षा परिसंख्यानबन्धने ॥ आतञ्चनं प्रतीवायाप्यायनजीवनेष्वपि । आराधनं तोषणे स्यात्संप्राप्तो पचनेऽपि च ॥ आच्छादनं पिधाने स्याद्वस्त्रेऽपि वृतिमात्रके । आक्रन्दनं शोचने च तिरस्कारणे(?)पि च ॥ आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ॥ Śabdaratnāvalī 7.20.104
  • शब्दरत्नावली त्रपातापः कृच्छे च सन्तापे तापी नद्यन्तरे स्त्रियाम् । त्रपा स्त्री कुलटायाञ्च स्याल्लज्जाकुलकीर्तिषु । दर्पः पुमानहङ्कारे कस्तूर्यां दर्पकेऽपि च ॥ Śabdaratnāvalī 7.21.8
  • शब्दरत्नावली गोत्रत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10
  • शब्दरत्नावली वंशपांशुर्धूलिषु शय्यासु चिरसञ्चितगोमये । पशुर्मृगादौ प्रमथे देवे च प्राणिमात्रके ॥ पशुसन्दर्शनेऽपि स्यादव्ययं पश्वेति स्मृतम् । पशो ना बन्धने शस्त्रे छात्राद्यन्तश्च निन्दिते ॥ कर्णान्तः शोभनार्थे च केशान्तः संहतार्थके । पेशी स्त्री मांसपिण्ड्याञ्च मांसीखड्गपिधानयोः ॥ अण्डभेदे नदीभेदे पिशाचीराक्षसीभिदोः । वंशः कुले च पृष्ठांशे वर्गतेजनयोरपि ॥ Śabdaratnāvalī 7.30.9
  • शब्दरत्नाकर गोत्रअभ्यन्तरेऽपवरके सुते केशान्तरस्रजि । गोत्रं नाम्नि कुले पुंसि शैले स्त्री भुवि गोगणे ॥ १९१० ॥ Śabdaratnākara 4.1.1910
  • शब्दरत्नाकर वंशचिह्नमेहनयोर्लिङ्गं वेषे बुद्ध्यादिसंगतौ । वंशः पृष्ठास्थ्नि नासोर्ध्वास्थ्नीक्षुभेदे कुले गणे ॥ १९९२ ॥ Śabdaratnākara 4.1.1992
  • त्रिकाण्डशेष जातिसूर्यावर्तेऽपि जामाता ना वाते पिष्टपे जगत् । जातिश्छन्दसि मालत्यां चुल्ल्यां जातीफले कुले ॥ १५७ ॥ Trikāṇḍaśeṣa 3.3.157
  • त्रिकाण्डशेष अभिजनकुले ख्यातौ चाऽभिजनः स्यादध्वा कालवर्त्मनोः ॥ २२५ ॥ Trikāṇḍaśeṣa 3.3.225
  • त्रिकाण्डशेष गोत्रगोत्रं नाम्नि कुले पुंसि शैले भूगव्ययोः स्त्रियाम् । स्वरे रणे च गान्धारो गृध्रः स्याल्लोभिपक्षिणोः ॥ ३४८ ॥ Trikāṇḍaśeṣa 3.3.348
  • वैजयन्ती वंशभोजने लेपने लेपो लोकः स्याद्विष्टपे जने । वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले ॥ ५२ ॥ Vaijayantī 6.1.52
  • वैजयन्ती गोत्रमात्रादौ स्त्री बृहत्ख्यातदुर्भरालघुषु त्रिषु । गोत्रा गोनिचये भूम्यां गोत्रं नाम्नि कुलेऽचले ॥ २८ ॥ Vaijayantī 6.5.28
  • वैजयन्ती आम्नायआम्नायोऽध्ययने वेदे संप्रदाये कुलेऽपि च । आकर्षः शारिफलको द्यूत आकृष्टिपाशकौ ॥ ३ ॥ Vaijayantī 7.1.3
  • वैजयन्ती निधननिधनोऽस्त्री कुले नाशे निस्त्रिंशः क्रूरखड्गयोः । नालीकमब्जे बाणे ना निशान्तं गृहशान्तयोः ॥ ५१ ॥ Vaijayantī 7.5.51
  • वैजयन्ती अभिजनसंयुगे स्यादभिमरः सबलादपि साध्वसे । कुले त्वभिजनो जन्मभूमौ चाथामरे झषे ॥ १२ ॥ Vaijayantī 8.1.12