कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सन्तान

santānaपुं · masc.

In 13 kośas: 17 synonym verses, 6 as a nānārtha head word, 6 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.50
पञ्चैते देवतरवो मन्दारः पारिजातकः ।सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.1
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.135 · p. 17
मन्दारपारिजातकहरिचन्दनकल्पवृक्षसन्तानाः ।पञ्चैते सुरतरवो मेरुः सुरपर्वतो ज्ञेयः ॥ १३५ ॥
आर्या
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.43 · p. 3
रसातलांबुवेश्मोक्तं पंचमं सुतमात्मजम् ।सन्तानं बुद्धिसंज्ञा च विद्या धीश्चैव नंदनम् ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.4 · p. 69
कुलं तु गोत्रं जननं क्लीबे स्त्री सन्ततिः पुमान् ।वंशोन्ववायः सन्तानोऽन्वयो वर्णचतुष्टयी ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.43 · p. 384
देववाहनपर्यायं मन्दारः पारिजातकः ।सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 125 · p. 63
ओघो वर्गश्च सन्तानः काव्यमेव कविस्थितिः ।हंसो मरालश्चक्राङ्गः हंसवाहः सनातनः ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.347 · p. 24
कल्पवृक्षः समुद्रद्रुः सन्तानः पारिजातकः ।देवेन्द्रवैद्यौ नासत्यावाश्विनेयौ भिषग्वरौ ॥ ३४७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.199 · p. 27
मन्दारः पारिजातश्च सन्तानश्चापि कल्पकः ।धनुर्देवायुधं ज्ञेयं तदृजु रोहितं तथा ॥ १९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 जु (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.785 · p. 113
गोत्रं वंशोऽन्ववायश्च सन्तानोऽभिजनः कुलम् ।जननमन्वयश्चापि सन्ततिश्चापि कथ्यते ॥ ७८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.867 · p. 129
सन्तानः सन्ततिस्तोकं प्रसूतिस्तुक् पञ्चमम् ।अपत्यं च प्रजा चापि सप्त नामानि सन्ति वै ॥ ८६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.121 · p. 9
सुमेरौ मेरुहेमाद्रि-रत्नसानु-सुरालयाः ।पारिजातश्च मन्दारः सन्तानः कल्पवृक्षकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.1 · p. 111
वंशाभिजननसन्ताना अन्ववायोऽन्वयः कुलम् ।सन्ततिर्जननं गोत्रं नवैते वंशमात्रके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.11 · p. 275
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश यक्षाद्यध्यायः Vaijayantī 1.3.14 · p. 16
पञ्चैते देवतरवो मन्दारः पारिजातकः ।सन्तानः कल्पवृक्षश्च हरिचन्दनमस्त्रियाम् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.40 · p. 176
सुतः पोतश्च पुंगर्भे नरो दुहितरि स्त्रियः ।द्वयोश्च गर्भसन्तानौ प्रसवश्च नरः सदा ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.49 · p. 177
पितरस्तु पितुर्वंश्या मातुर्मातामहाः कुले ।अन्ववायोऽन्वयो वंशः सन्तानो जननं कुलम् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.223 · p. 30
प्रदेशे फलकादीनां ग्रहणार्थे परैः पुनः ।मुष्टिमात्रेऽथ सन्तानः कल्पवृक्षान्तरे कुले ॥ २२३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.224 · p. 30
परम्परायां चापत्ये सञ्चारस्त्वपि सङ्गतौ ।अपि सङ्क्रमणे चारभेदे सोऽपीदृशः स्मृतः ॥ २२४ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र नत्रिः Śivakoṣa 16.1.270 · p. 25
श्लेश्मघ्नी मल्लिकाभेदकम्पिल्लकफणिज्जके ।स्यन्दनं के पुमान्नेमौ सन्तानः कल्पपादपे ॥ २७० ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र नत्रिः Śivakoṣa 16.1.271 · p. 25
शृतक्षीरोपरिस्त्यानरूपायामपि योषिति ।सुमनः पुंसि गोधूमे मालत्यां सुमना स्त्रियाम् ॥ २७१ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.90 · p. 242
सन्तानो गोत्रसन्तत्योरपत्ये च सुरद्रुमे ।स्पर्शनं पवने पुंसि क्लीबं स्यात्स्पर्शदानयोः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.268 · p. 183
समानो देहवायौ च संस्थानं मृत्युरूपयोः ।सन्तानः सन्ततौ देववृक्षे चाऽपत्यगोत्रयोः ॥ २६८ ॥
अनुष्टुप्

सन्तान as a meaning in nānārtha verses