कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सन्तति

santatiस्त्री · fem.

In 10 kośas: 10 synonym verses, 5 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.33 · p. 2
आतिथ्योऽप्यतिथौ कुल्येऽभिजो गोत्रं तु सन्ततिः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.1
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.497 · p. 57
कान्तः स्यात्कमिता पतिर्वरयिता भर्ता च भोक्ता धवो,रुच्याभीकवराभिकाश्च रमणः प्राणाधिनाथोऽनुगः ।सूनुः सन्ततिरात्मजश्च तनुजः पुत्रः प्रसूतिः सुतः,तुक् तोकं तनयश्च नन्दन इति प्राज्ञैरपत्यं स्मृतम् ॥ ४९७ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.4 · p. 69
कुलं तु गोत्रं जननं क्लीबे स्त्री सन्ततिः पुमान् ।वंशोन्ववायः सन्तानोऽन्वयो वर्णचतुष्टयी ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 139 · p. 69
व्रातः पूगः समाजश्च समूहः सन्ततिर्व्रजः ।व्यूहो निकायो निकुरो निकुरम्बं कदम्बकम् ॥ १३९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.785 · p. 113
गोत्रं वंशोऽन्ववायश्च सन्तानोऽभिजनः कुलम् ।जननमन्वयश्चापि सन्ततिश्चापि कथ्यते ॥ ७८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.867 · p. 129
सन्तानः सन्ततिस्तोकं प्रसूतिस्तुक् पञ्चमम् ।अपत्यं च प्रजा चापि सप्त नामानि सन्ति वै ॥ ८६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.1 · p. 111
वंशाभिजननसन्ताना अन्ववायोऽन्वयः कुलम् ।सन्ततिर्जननं गोत्रं नवैते वंशमात्रके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.43 · p. 311
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.41 · p. 176
तोकापत्ये नपुं स्त्री तु प्रसूतिः सन्ततिः प्रजा ।जामेयभागिनेयौ तु स्वस्रीयोऽथ पितृष्वुसुः ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.98 · p. 9
मधुकारिण्यथ श्रेणौ सरणिर्मार्ग एव च ।सन्ततिस्त्वन्ववाये स्यात् पारम्पर्येऽपि पुत्रयोः ॥ ९८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.145 · p. 223
सन्ततिः प्रणतिध्वन्योः सङ्गतिर्ज्ञानसंज्ञयोः ।सम्बित्तिश्चेतनायां स्याज्जनानामविवादके ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.146 · p. 223
सन्ततिर्गोत्रपंक्तयोस्तु पारम्पर्यसुतादिषु ।समितिः सङ्गमे युद्धे सभायामपि च स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.189 · p. 156
सरस्वती सरिद्गौश्च सूती वन्दिनि पारदे ।स्मृतिः स्याद्धर्मशास्त्रेऽपि प्रवाहेऽपि च सन्ततिः ॥ १८९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 7.2.28 · p. 249
सन्ततिस्त्वन्ववाये स्यात् पारंपर्ये सुतेऽपि च ।संहिता वर्णसंयोगे शास्त्रवेदैकदेशयोः ॥ २८ ॥
अनुष्टुप्

सन्तति as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् प्रजासमे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने । Amarakośa 3.3.64
  • शब्दरत्नावली प्रजाभुजं द्वयोः करे वाहौ प्रजा सन्ततिलोकयोः । मर्ज्जः स्त्रियान्तु श्रुद्धौ ना रजके पीठमर्दके ॥ Śabdaratnāvalī 7.8.13
  • शब्दरत्नावली स्यूतिसितं धवलबद्धावसिते खण्डान्तरे सिता । स्यूतिः सीवनसन्तत्योः स्यूतः सूतप्रसेवयोः ॥ Śabdaratnāvalī 7.16.67
  • शब्दरत्नावली सन्तानसन्तानो गोत्रसन्तत्योरपत्ये च सुरद्रुमे । स्पर्शनं पवने पुंसि क्लीबं स्यात्स्पर्शदानयोः ॥ Śabdaratnāvalī 7.20.90
  • शब्दरत्नावली धाराधारा सेनाग्रिमस्कन्धे खड्गादि निशितानने । द्रवप्रपाते कुम्भादिच्छिद्रे यशसि सन्ततौ ॥ Śabdaratnāvalī 7.27.17
  • शब्दरत्नावली प्रवरनिकारः स्यात्तिरस्कारे धान्योत्क्षेपणकेऽपि च । निष्ठुरं निर्भरे सारे निर्लज्जे कठिनेऽन्यवत् ॥ प्रवरं गोत्रसन्तत्योः क्लीबं श्रेष्ठेऽभिधेयवत् । प्रखरो वाजिसन्नाहकुक्कुराश्वतरेषु ना ॥ Śabdaratnāvalī 7.27.81
  • शब्दरत्नावली आलिअलिः सुरायां भ्रमरे काककोकिलयोरपि ॥ आलिः सख्यां सेतुपंक्त्योः सन्ततौ विशदाशये । आलुर्गलन्तिकायां स्त्री क्लीबं पेचकमूलयोः ॥ Śabdaratnāvalī 7.28.2
  • शब्दरत्नावली कुटुम्बकुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ । कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥ गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ । गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते । त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥ Śabdaratnāvalī 7.29.29
  • त्रिकाण्डशेष सन्तानसमानो देहवायौ च संस्थानं मृत्युरूपयोः । सन्तानः सन्ततौ देववृक्षे चाऽपत्यगोत्रयोः ॥ २६८ ॥ Trikāṇḍaśeṣa 3.3.268