कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जनन

jananaक्ली · neut.

In 13 kośas: 21 synonym verses, 2 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.212 · p. 23
कुल्यः कुलीनोऽभिजातः कौलेयकमहाकुलौ ॥ ५०२ ॥जात्यो गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम् ।अन्वयो जननं वंशः स्त्री नारी वनिता वधूः ॥ ५०३ ॥वशा सीमन्तिनी वामा वर्णिनी महिलाबला ।योषा योषिद्विशेषास्तु कान्ता भीरुर्नितम्बिनी ॥ ५०४ ॥प्रमदा सुन्दरी रामा रमणी ललनाङ्गना ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.4 · p. 52
उत्पत्तिर्जन्मजनुषी जननं जनिरुद्भवः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.46
जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.1
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.4 · p. 69
कुलं तु गोत्रं जननं क्लीबे स्त्री सन्ततिः पुमान् ।वंशोन्ववायः सन्तानोऽन्वयो वर्णचतुष्टयी ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.97 · p. 416
जननं च प्रजननं जननिश्च जनिः स्त्रियौ ।उद्भवः सम्भवो भावो भवो जन्युश्च पुंस्यमी ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.21 · p. 2
हेतुर्नाऽथ द्वयोर्योनिर्निदानं त्वादिकारणम् ।जन्यं कार्यं जन्म-जनुर्-जननान्युद्भवो भवः ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1 · p. 231
वंशोऽन्ववायः संतानोऽन्वयश्चाभिजनः कुलम् ।गोत्रं च जननं जातिः संततिश्च समार्थकाः ॥ १ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.256 · p. 84
जन्तुः पुनर्भवी जन्युः सत्त्वं देहभृदप्यसौ ।उत्पत्तिरुद्भवो जन्म जननं जनिरुच्यते ॥ २५६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.169 · p. 122
अन्ववायः कुलं गोत्रं संतानो जननं तथा ।अन्वयोऽभिजनश्चापि वंशो नार्यां वधूर्वशा ॥ १६९ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.146 · p. 20
भावुकं कुशलं क्षेमं भव्यं भाव्यं शिवं शुभम् ।शस्तं चाथ जनुर्जन्म जनिर्जनन इष्यते ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.15 · p. 21
वंशोऽन्वयः कुलं गोत्रं जननाभिजने अपि ।सती पतिव्रता साध्वी दासी चेटी च चेटिका ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.70 · p. 41
उत्पत्तिर्जन्म जननमुत्पादो जनिरुद्भवः ।जीवितं चासवः प्राणाः श्वासश्च श्वसितं मरुत् ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.785 · p. 113
गोत्रं वंशोऽन्ववायश्च सन्तानोऽभिजनः कुलम् ।जननमन्वयश्चापि सन्ततिश्चापि कथ्यते ॥ ७८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2485 · p. 402
जन्म जन्मो जनिश्चैव जननं जनुरुद्भवः ।उत्पत्तिश्चेति नामानि प्रयोगे प्रचलन्ति वै ॥ २४८५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.313 · p. 22
उत्पत्तिर्जन्मजनुषी जननञ्च जनिर्द्वयोः ॥
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.1 · p. 111
वंशाभिजननसन्ताना अन्ववायोऽन्वयः कुलम् ।सन्ततिर्जननं गोत्रं नवैते वंशमात्रके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.2 · p. 249
जनुः सान्तं षण् जननम्, जीविते जीवस्त्रिष्वचि ।जीवातुरस्त्रियां प्राणाः पुंभूम्नि जीविताध्वनि ॥ २ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 व (wrong syllable); pāda 4, syllable 3 म्नि (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1055 · p. 131
उद्भवो जातिरुत्पत्तिर्जनिर्जननजन्मनी ।जनुश्च चेतनो जन्मी जन्तुर्जन्युः शरीरभाक् ॥ १०५५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.18 · p. 174
जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः ।गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम् ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.49 · p. 177
पितरस्तु पितुर्वंश्या मातुर्मातामहाः कुले ।अन्ववायोऽन्वयो वंशः सन्तानो जननं कुलम् ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.782 · p. 115
उत्पादके तु त्रिषु स क्लीबं तु जननं कुले ।उत्पत्तौ च स्त्रियां त्वेषा जननी मातरि स्मृता ॥ ७८२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.56 · p. 237
जननी स्त्री दयामात्रोर्जननं जन्मवंशयोः ।जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च ।जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् ।जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके ।तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् ।तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु ।त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् ।तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)

जनन as a meaning in nānārtha verses