शूद्र
śūdraपुं · masc.In 19 kośas: 28 synonym verses, 2 as a nānārtha head word, 16 as a meaning of another word.
चातुर्वर्ण्यं द्विजक्षत्त्रवैश्यशूद्रा नृणां भिदः ।
अनुष्टुप्
genderपुंmasc.
शूद्रान्त्यवर्णौ वृषलः पद्यः पज्जो जघन्यजः ॥ ८९४ ॥ते तु मूर्धाभिषिक्ताद्यारथकृन्मिश्रजातयः ।
अनुष्टुप्
genderपुंmasc.
शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः ।आचण्डालात्तु सङ्कीर्णा अम्बष्ठकरणादयः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।शूद्रस्तुरीयवर्णः स्यात्तद्भेदास्वन्त्यजाः स्मृताः ॥ ३९२ ॥
अनुष्टुप्
genderपुंmasc.
शूद्रोऽन्त्यवर्णो वृषलः पद्यः पज्जश्च कथ्यते ।लेखकः स्याल्लिपिकरः कायस्थोऽक्षरजीवकः ॥ ५८६ ॥
अनुष्टुप्
genderपुंmasc.
त्रापुषं रजतं रूप्यं … चन्द्रभीरुकम् ।सौधाशुभीरुकं शूद्रं रर्जूरं वङ्गजिह्वनम् ॥ १९५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वैश्ये त्वर्यो गोमतिश्च शूद्रः पादभवः स्मृतः ।जातिमात्रोपजीवस्तु यस्स स्याद्ब्राह्मणब्रुवः ॥ ३२९ ॥
अनुष्टुप्
genderपुंmasc.
शूद्रः सदाकरश्चारुवाको विष्णुपदोद्भवः ।यवनाद्यतिनीचेषु म्लेच्छा इति निगद्यते ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
मनुष्या मनुजा मर्त्या द्विपादो नहुषो नरः ।ब्रह्मक्षत्रियविट्छूद्रा इति वर्णचतुष्टये ॥ १ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शूद्रोऽन्त्यवर्णो वृषलो द्विजपोतो जघन्यजः ।पज्जो राण्मनुजास्पृश्या आभीरूरिति कथ्यते ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
विप्र-क्षत्रिय - विट् - शूद्रास्ते त्वशूद्रा द्विजा मताः ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
शूद्रो जघन्यजः पज्जो वृषलोऽवरवर्णकौ(कः) ।पद्योऽन्त्यवर्णोऽप्युक्तोऽथ ग्रामकूटो महत्तरः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
द्विपादो नहुषो गोधा व्राताः पञ्चजना नरः ।ब्रह्मक्षत्रियविट्शूद्रा इति वर्णचतुष्टये ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
बोलं तराग्रं मोरट्टं गोरसं तक्रमित्यपि ।शूद्रो जघन्यजोऽप्यन्त्यवर्णः संकरसंभवः ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
वैश्यशूद्रद्विजक्षत्राश्चातुर्वर्ण्यं नृणां मतम् ।ब्रह्मचारी गृही तस्माद्वानप्रस्थोऽथ भिक्षुकः ॥ ४०१ ॥
अनुष्टुप्
genderपुंmasc.
वृषलोऽन्त्यवर्णशूद्रौ च कारुः प्रकृतिकारिणौ ।[85] शिल्पी शिल्पं कला ज्ञानं विपूर्वं लिखनादि तत् ॥ ४१९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शूद्रोऽन्त्यवर्णोऽङ्घ्रिभवः श्यामः सेवनजीवनः ।भिल्लः किरातः शबरो निषादो वेणुकल्मषः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
ब्रह्मक्षत्रियविट्छूद्रा इति वर्णचतुष्टयम् ।उपवर्णास्तु सङ्कीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शूद्रोऽन्त्यवर्णो वृषलो द्विजपोतो जघन्यजः ।पज्जः पद्यश्च पज्जातः पादजो जन्तुसूदनः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णचतुष्टयम् ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिहाश्रमाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
चातुर्वर्ण्यं विप्रक्षत्रवैश्यशूद्रा नृणां भिदः ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ १३४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderपुंmasc.
अन्त्यवर्णस्तथा शूद्रः पद्यः पञ्जो जघन्यजः ।वृषलश्चेति नामानि शूद्रस्य संभवन्ति वै ॥ १५०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderपुंmasc.
कुलं गोत्रं सगोत्रञ्च तुल्यगोत्रे निगद्यते ।ब्राह्मणो क्षत्रियो वैश्यः शूद्रो वर्णश्चतुष्टयः ।वंशो वीज्यः कौलकेयः कुलजः कुलसम्भवः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शूद्रो जघन्यजो दासः पादजोऽवरवर्णजः ।अन्त्यजन्मा च वृषलो जघन्यो द्विजसेवकः ॥
अनुष्टुप्
genderपुंmasc.
शूद्रोऽन्त्यवर्णो वृषलः पज्जः पद्यो जघन्यजः ।चण्डालवर्जिता एते शूद्राः संकरजा अपि ॥ १५०९ ॥
अनुष्टुप्
genderपुंmasc.
शुद्रः स्यात्पादजो दासो ग्रामकूटो महत्तरः ।मालिकः पुष्पलावः स्याकुम्भकारस्तु मृत्करः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.doubtful
ब्रह्मक्षत्रियविट्शूद्रा इति वर्णाश्चतुष्टये ।उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
शूद्रोऽन्त्यवर्णो वृषलो द्विजपोतो जघन्यजः ।पज्जः पद्योऽप्येकजातिः शूद्राः संकरजा अपि ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शूद्राः स्त्री रश्मिषु क्ली तु रजते शूकवाक् पुनः ।अस्त्री धान्यस्य सूक्ष्माग्रे शुङ्गानुक्रोशयोरथ ॥ १४०५ ॥
अनुष्टुप्
meaningsरजत
शूद्र as a meaning in nānārtha verses
- धरणिकोश वृषलवृषलश्चन्द्रगुप्ते स्याद्वृषलः शूद्र इष्यते । उपलौ रत्नपाषाणावुपला शर्करापि च ॥ Dharaṇikośa 27.2.22
- धरणिकोश दासदासौ चेटककैवर्तौ शूद्रो दास उदाहृतः । दानपात्रे स्मृतो दासो दासी च झिण्टिका स्मृता ॥ Dharaṇikośa 31.3.5
- कोषकल्पतरु जघन्यजजघन्यजः शूद्रकनिष्ठयोः स्या- द्वृषध्वजः शंभुगणेशयोः स्यात् । पुण्यक्रिये तु त्रिषु धर्मराजो जिने कृतान्ते युधि शल्यशत्रौ ॥ ४२ ॥ Koṣakalpataru 6.7.42
- कोषकल्पतरु पद्यश्लोके तु पद्यं पथि योषिति स्यात् पुमांस्तु शूद्रे पदवेधके तु । दृश्यं पदं यत्र च तत्र भेद्ये बन्ध्यस्तु पूज्ये हठतोधृतेऽपि ॥ २७ ॥ Koṣakalpataru 6.26.27
- कोषकल्पतरु मार्जालीयमार्जालीयः स्मृतः शूद्रे बिडाले कायशोधने । Koṣakalpataru 6.26.97
- कोषकल्पतरु वृषलस्याद्भेषजेऽन्त्ये जलजे तु न स्त्री शूद्रे तुरंगे वृषलः प्रदिष्टः । पाषाणभेदे चपलो झषेऽपि स्यात्पारदे चोरकनाम्नि पुंसि ॥ ९३ ॥ Koṣakalpataru 6.28.93
- नानार्थार्णवसंक्षेप कृष्णवाच्यलिङ्गो द्वयोस्तु स्यात् सर्पे शूद्रे मृगान्तरे । काककोकिलयोराखुजातिभेदेऽप्यथ स्त्रियाम् ॥ २६४ ॥ Nānārthārṇavasaṃkṣepa 2.5.264
- नानार्थार्णवसंक्षेप वृषलपुमांस्त्रिषु तु वीरस्य हन्तरि स्यादथ द्वयोः । वृषलो (द्वे ? ऽश्वे) भवेच्छूद्रे वृषभे तु पुमांस्त्रि तु ॥ १७३८ ॥ Nānārthārṇavasaṃkṣepa 4.1738
- नानार्थार्णवसंक्षेप जघन्यजकोद्रङ्ग इति विख्याते समासादीह पूर्ववत् । जघन्यजस्तु द्वे शूद्रे त्रि तु स्यादनुजे तथा ॥ २३८ ॥ Nānārthārṇavasaṃkṣepa 6.238
- नानार्थार्णवसंक्षेप द्विजपोतएकत्र त्रिषु भेदेषु द्विजपोतः पुनर्द्वयोः । शूद्रे पक्षिशिशौ चात्र समासार्थादि पूर्ववत् ॥ २७५ ॥ Nānārthārṇavasaṃkṣepa 6.275
- परमानन्दीयनाममाला जघन्यजजर्जरीकं बहुच्छिद्रे जीवंजीवः खगान्तरे । जघन्यजोऽनुजे शूद्रे जलरङ्कस्तडित्वति ॥ २१० ॥ Paramānandīyanāmamālā 5.13.210
- शब्दरत्नावली पद्यभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
- शब्दरत्नावली वृषलविशाली नृपभिद्वृक्षभिदोर्ना पृथुले त्रिषु । वृषलो गृञ्जने शूद्रे चन्द्रगुप्ते च वाजिनि ॥ Śabdaratnāvalī 7.28.94
- शब्दरत्नावली दासदासो भृत्ये धीवरे च शूद्रे ज्ञातार्थयोरपि । नासाद्वारोर्द्धकाष्ठे स्यान्नासिकायामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.32.4
- त्रिकाण्डशेष जघन्यजजघन्यजोऽनुजे शूद्रे जलजं शङ्खपद्मयोः । चिह्नशेफपताकासु खट्वाङ्गेऽपि ध्वजोऽस्त्रियाम् ॥ ८४ ॥ Trikāṇḍaśeṣa 3.3.84
- वैजयन्ती कृष्णशूद्रे काके पिके व्यासे ध्वान्तपक्षेऽर्जुने हरौ । कोशोऽस्त्री कुड्मले दिव्ये शास्त्रेऽर्थौघे गृहे तनौ ॥ १५ ॥ Vaijayantī 6.5.15