वैश्य
vaiśyaपुं · masc.In 21 kośas: 23 synonym verses, 23 as a meaning of another word.
चातुर्वर्ण्यं द्विजक्षत्त्रवैश्यशूद्रा नृणां भिदः ।
अनुष्टुप्
genderपुंmasc.
अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरजा विशः ।
अनुष्टुप्
genderपुंmasc.
ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः ।आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
आर्या भूमिस्पृशो वैश्या ऊख्याश्च विशः स्मृताः ।जीवनं वृत्तिराजीवो वार्त्ता चेति निगद्यते ॥ ५७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वैश्ये त्वर्यो गोमतिश्च शूद्रः पादभवः स्मृतः ।जातिमात्रोपजीवस्तु यस्स स्याद्ब्राह्मणब्रुवः ॥ ३२९ ॥
अनुष्टुप्
genderपुंmasc.
विट् स्यात् वैश्यश्च वाणिज्यं वाणिज्याऽपि निगद्यते ।कुषीदं च कुशीदं च कुसीदं च समं त्रयम् ॥ २१९ ॥
अनुष्टुप्
genderपुंmasc.
दुनेदारः सार्वभौमो राहुत्तो मण्डलेश्वरः ।वैश्ये तु कृषिकः पज्जप्रवरो धेनुसारथिः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
वैश्यो भूमिस्पृशोरव्यो महीभृल्लाङ्गलायुधः ।तुलाधारो भैरकश्च वर्तको वृत्तिजीवनः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
विशो भूमिस्पृशो वैश्या ऊरुपर्यायजार्थकाः ।अर्या उरव्या गोरक्षाकृषिवाणिज्यजीविनः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
तद्वृन्दे वैश्य-गाणिक्ये सैरन्ध्री त्वन्यगेहगा ।अलंकारादिचतुरा स्वाधीना गन्धकारिका ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
ऊरव्या ऊरुजा वैश्या अर्या भूमिस्पृशो विशः ।वृत्तिर्वार्त्ता जीविका स्यादाजीवो वर्तनं तथा ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
आर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः ।आजीवो जीवका वृत्तिर्वार्ता वर्तनजीवने ॥ २०६ ॥
अनुष्टुप्
genderपुंmasc.
वैश्यशूद्रद्विजक्षत्राश्चातुर्वर्ण्यं नृणां मतम् ।ब्रह्मचारी गृही तस्माद्वानप्रस्थोऽथ भिक्षुकः ॥ ४०१ ॥
अनुष्टुप्
genderपुंmasc.
बाहुजः क्षत्रियः क्षत्री राजन्यो मौलिसिंचितः ।ऊरुजः पीतरुग्वैश्यो विड्वाणिज्याऽवनिस्पृशः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
वैश्यो भूमिस्पृशोऽर्याश्च वणिग्गोरक्षकः स्मृतः ॥ ३९ ॥
genderपुंmasc.
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णचतुष्टयम् ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिहाश्रमाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
चातुर्वर्ण्यं विप्रक्षत्रवैश्यशूद्रा नृणां भिदः ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ १३४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderपुंmasc.
अर्यो भूमिस्पृशो वैश्या उरव्या उरुजा विशः ।
अनुष्टुप्
genderपुंmasc.
कुलं गोत्रं सगोत्रञ्च तुल्यगोत्रे निगद्यते ।ब्राह्मणो क्षत्रियो वैश्यः शूद्रो वर्णश्चतुष्टयः ।वंशो वीज्यः कौलकेयः कुलजः कुलसम्भवः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
विड्वैश्य ऊरुजोरयौ भूमिस्पृक् भूमिजीवनः ।जीविका जीव आजीवो वार्ता वृत्तिश्च वर्तनम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र (wrong syllable)
genderपुंmasc.
बाहुसंभवे राजन्यो राजा च क्षत्र-क्षत्रियौ ।आर्ये विड्-वैश्यौ वेतने वृत्तिर्वार्तापि जीविका ॥ ३१५ ॥
metre not recognised
genderपुंmasc.
अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः ।आजीवो जीविका वृत्तिर्वार्ता वर्तनजीवने ॥ १३९४ ॥
अनुष्टुप्
genderपुंmasc.
अर्या भूमिस्पृशो वैश्या ऊरव्या उरुजा विशः ।आजीवो जीविका वृत्तिर्वार्ता वर्तनजीवने ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वैश्य as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अर्यपर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः । Amarakośa 3.3.280
- नामलिङ्गानुशासनम् विश्द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ ॥ २१४ ॥ Amarakośa 3.3.214
- धरणिकोश अर्यपूज्यौ श्वशुरपूजार्हावर्यः स्यात्स्वामिवैश्ययोः । नयो नीतौ द्यूतभेदे मृत्युः स्यान्मरणे यमे ॥ Dharaṇikośa 25.1.2
- धरणिकोश विश्विट् स्मृतो मनुजे वैश्ये प्रवेशे विट् च कीर्तिता । दृक् स्मृता दर्शने बुद्धौ नेत्रे च दृक् च वीक्षणे ॥ Dharaṇikośa 29.2.1
- कोषकल्पतरु आर्यवैश्ये तथा स्वामिनि चार्य उक्तो हेतौ फले कार्यमुशन्ति सन्तः । सूर्यो रवावौषधिसूर्यपत्न्योः । सूर्या [तु] शौर्यं किल शक्तिवाची ॥ १५ ॥ Koṣakalpataru 6.26.15
- कोषकल्पतरु भूमिस्पृश्स्याद्वेष्टनेऽथाचमनाप्लवार्थः स्यात्स्पर्शमात्रेऽथ नरे च वैश्ये । भूमिस्पृगुक्तोऽथ खलेऽन्यवत्स्या- च्छनैश्चरे क्रूरदृगादिलिङ्गः ॥ ३० ॥ Koṣakalpataru 6.30.30
- नानार्थार्णवसंक्षेप विश्अङ्गुल्यां स्त्री समाम्नाये समाम्नाताज(ने?ये)न च । द्वयोर्मनुष्ये वैश्ये च स्वं त्वात्मात्मीययोस्त्रिषु ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 1.5.19
- नानार्थार्णवसंक्षेप अर्यअर्यो महाशास्तरि ना द्वयोर्वैश्ये यदा त्वयम् । वैश्यजातिस्त्रियामर्या स्यादर्याणी च सा तदा ॥ २८ ॥ Nānārthārṇavasaṃkṣepa 2.5.28
- नानार्थार्णवसंक्षेप ऊरव्यऊधस्यं तु नपि क्षीरे त्रिषु तूधोभवादिके । ऊरव्यस्तु द्वयोर्वैश्ये त्रिषु तूरुभवे भवेत् ॥ २७९ ॥ Nānārthārṇavasaṃkṣepa 4.279
- नानार्थार्णवसंक्षेप ऊरुजऊरुजस्तु द्वयोर्वैश्य ऊरुजाते पुनस्त्रिषु । ऊषणो ना कटुरसे विज्ञेयस्त्रि तु तद्वति ॥ २८० ॥ Nānārthārṇavasaṃkṣepa 4.280
- नानार्थार्णवसंक्षेप द्विजातिब्राह्मणे क्षत्त्रिये वैश्ये पक्षिण्यपि पुमान् पुनः । पुना दिधिषुः पत्योः दिधिषूस्तु स्त्रियामियम् ॥ ९३१ ॥ Nānārthārṇavasaṃkṣepa 4.931
- नानार्थार्णवसंक्षेप भूमिस्पृश्भूतानाममनुष्येऽथ भूमिस्पृग्वैश्यमर्त्ययोः । द्वयोःप् --- तु त्रि स्याद्भूमेरथ नृलिङ्गकः ॥ १३०९ ॥ Nānārthārṇavasaṃkṣepa 4.1309
- परमानन्दीयनाममाला विश्फो झंझापवने फेने फूर्वातूलककुब्वचोः । विण्नरेऽवस्करे वैश्ये बः पद्मघटयोरपि ॥ ३१ ॥ Paramānandīyanāmamālā 1.31
- परमानन्दीयनाममाला अर्यअर्यो वैश्ये प्रभावण्डं मुष्के कोशेऽप्यनन्तरे । अर्चिः कीलोस्रयोरर्तिः पीडायामटनावपि ॥ १४ ॥ Paramānandīyanāmamālā 5.1.14
- शब्दरत्नावली द्विजद्विजो ना ब्राह्मणक्षत्रवैश्यदन्तेन्दुपक्षिषु । स्त्रियां हरेणौ भार्यायां वीणाभेदे च कुत्रचित् ॥ Śabdaratnāvalī 7.8.10
- शब्दरत्नावली अर्य्यअन्योऽप्यसदृशे भिन्ने वाच्यलिङ्गोऽपि कुत्रचित् । अर्य्यः स्वामिनि वैश्ये स्यादास्यं वक्रे स्थितौ स्त्रियाम् ॥ इज्याचीयां क्रतौ दाने सङ्गमे स्त्री गुरौ त्रिषु । इभ्या करेणौ शल्लक्यां स्त्रियागाढ्येऽभिधेयवत् ॥ Śabdaratnāvalī 7.26.4
- शब्दरत्नावली भूमिस्पृश्जीवितेशः प्राणनाथे यमे विधुविवस्वतोः । नागपाशः स्त्रीकरणे दुर्बुद्धौ वरुणायुधि ॥ पञ्चदशी पौर्णमास्यां अमावस्यातिथावपि । प्रतिष्कशः पुरोगे स्याद्वार्ताहरसहाययोः ॥ परिवेशः सूर्यपार्श्वमण्डले परिवेष्टने । पादपाशी खुतुक्कायां शृङ्खलायामपि स्त्रियाम् ॥ पुरोडाशो हविर्भेदे पिष्टके हुतशेषके । भूमिस्पृक्मानुषे वैश्ये चौरभेदेऽन्धखञ्जयोः ॥ Śabdaratnāvalī 7.30.30
- शब्दरत्नाकर अर्यहयकुत्सितयोरर्वा स्यादर्यः स्वामिवैश्ययोः । घृष्टिमूषिकयोराखुरारो भौमारकूटयोः ॥ १८७१ ॥ Śabdaratnākara 4.1.1871
- शब्दरत्नाकर विश्विट् प्रजावैश्ययोः पुंसि स्त्री मले जनने द्वयोः । श्रीः कान्तिसंपदोर्लक्ष्म्यां लवङ्गकुसुमेऽपि च ॥ २२४७ ॥ Śabdaratnākara 4.1.2247
- वैजयन्ती अर्यअट्टावतिशयक्षौमावर्घौ पूजाप्रतिक्रयौ । अर्याः शास्तृस्वामिवैश्याः सर्पे वृत्त्रासुरेऽप्यहिः ॥ ५ ॥ Vaijayantī 6.1.5
- वैजयन्ती भूस्पृश्भरवीवधयोश्चान्त्यौ भूस्पृशौ वैश्यमानवौ । विश्लेषे दारणे भेदो भेनः सूर्ये निशाकरे ॥ ४२ ॥ Vaijayantī 6.1.42
- वैजयन्ती भूमिस्पृश्भ्रातृव्यौ भ्रातृजामित्रौ भुरण्यू विष्णुभास्करौ । भूमिस्पृशौ वैश्यनरौ भुवन्यौ वह्निभास्करौ ॥ ५९ ॥ Vaijayantī 7.1.59
- वैजयन्ती विश्आत्मनि ज्ञातरि ज्ञः स्यान्ना विड्वैश्ये जने न षण् । तेशब्दः क्रीडने स्त्री स्यात् क्रीडके त्वभिधेयवत् ॥ ३९ ॥ Vaijayantī 8.5.39