कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

छ

cha

In 4 kośas: 0 synonym verses, 10 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ छान्ताः Koṣakalpataru 6.6.1 · p. 173
छो भास्करे छन्दसि संवृतौ छ-मच्छे तु भेद्यानुगलिङ्गमाहुः ।
इन्द्रवज्रा
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.17 · p. 3
चुः कोकेऽप्यथ संस्थाने छश्चारे छेदके रवौ ।छं वृत्ते निर्मले प्रोक्तं जोऽथ केशवजीवयोः ॥ १७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश छान्ताः Śabdaratnāvalī 7.7.1 · p. 196
छं निर्मले च तरणे छेदे तु स्यात् पुमानयम् ।
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.16 · p. 2
छ-कारो मुषली ज्ञेय एकनेत्रश्च शैलजे! ।जः शिवोऽर्चिर्महेशानि! शूली च चतुराननः ॥ १६ ॥
अनुष्टुप्
छ-श्छन्दनं सुषुम्णा च पशुः पशुपतिर्मतिः ।निर्मलं तरलं वह्निर्भूतमात्रा विलासिनी ॥ ७६ ॥
अनुष्टुप्
एकमात्रा च वृषली द्विशिरा वामकुर्परः ।गोकर्णा लाङ्गली वामः कामकर्त्ता सदाशिवः ॥ ७७ ॥
अनुष्टुप्
माता निशाचरः पायुर्विक्षतः स्थितिशब्दकः ॥ ७८ ॥
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.13 · p. 24
निर्मलं छं समाख्यातं तरणी छः प्रकीर्त्तितः ।छेदने छः समाख्यातो विद्वद्भिः शब्दकोविदैः ॥ १३ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.24 · p. 43
वामकूर्परगः पाशी परिपूर्णैर्कनेत्रकौ ।त्रिबिन्दुको ज्वरी वामा श्लेषकश्छा-र्णकः स्मृतः ॥ २४ ॥
अनुष्टुप्