कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तरणि

taraṇiपुं · masc.

In 20 kośas: 31 synonym verses, 10 as a nānārtha head word, 13 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.98 · p. 7
आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रवि-र्मार्तण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः ।सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगोमार्ताण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः ॥ ९५ ॥ब्रध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः ।मित्रो ध्वान्तारातिरब्जांशुहस्तश्चक्राब्जाहर्बान्धवः सप्तसप्तिः ॥ ९६ ॥दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः ।ग्रहाब्जिनीगोद्युपतिर्विकर्तनो हरिः शुचीनौ गगनाद्ध्वजाध्वगौ ॥ ९७ ॥हरिदश्वो जगत्कर्मसाक्षी भास्वान्विभावसुः ।त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥ ९८ ॥
शार्दूलविक्रीडितम्
आदित्यपुंसवितृपुंअर्यमन्पुंखरांशुपुंसहस्रांशुपुंउष्णांशुपुंअंशुपुंरविपुंमार्तण्डपुंतरणिपुंगभस्तिपुंअरुणपुंभानुपुंनभोमणिपुंअहर्मणिपुंसूर्यपुंअर्कपुंकिरणपुंभगपुंग्रहपुषपुंपूषन्पुंपतङ्गपुंखगपुंमार्ताण्डपुंयमुनाकृतान्तजनकपुंप्रद्योतनपुंतापनपुंब्रध्नपुंहंसपुंचित्रभानुपुंविवस्वत्पुंसूरपुंत्वष्टृपुंद्वादशात्मन्पुंहेलिपुंमित्रपुंध्वान्तारातिपुंअब्जहस्तपुंअंशुहस्तपुंचक्रबान्धवपुंअब्जबान्धवपुंअहर्बान्धवपुंसप्तसप्तिपुंदिवाकरपुंदिनकरपुंअहस्करपुंदिवसकरपुंप्रभाकरपुंविभाकरपुंभास्करपुंमिहिरपुंविरोचनपुंग्रहपतिपुंअब्जिनीपतिपुंगोपतिपुंद्युपतिपुंविकर्तनपुंहरिपुंशुचिपुंइनपुंगगनध्वजपुंगगनाध्वगपुंहरिदश्वपुंजगत्कर्मसाक्षिन्पुंभास्वत्पुंविभावसुपुंत्रयीतनुपुंजगच्चक्षुस्पुंतपनपुंअरुणसारथिपुं
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.31
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः ।भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥ २८ ॥भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ॥द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ।विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३० ॥भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा ॥कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ।प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ॥इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः ।माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः ॥ ३१ ॥
अनुष्टुप्
सूरपुंसूर्यपुंअर्यमन्पुंआदित्यपुंद्वादशात्मन्पुंदिवाकरपुंभास्करपुंअहस्करपुंब्रध्नपुंप्रभाकरपुंविभाकरपुंभास्वत्पुंविवस्वत्पुंसप्ताश्वपुंहरिदश्वपुंउष्णरश्मिपुंविकर्तनपुंअर्कपुंमार्तण्डपुंमिहिरपुंअरुणपुंपूषन्पुंद्युमणिपुंतरणिपुंमित्रपुंचित्रभानुपुंविरोचनपुंविभावसुपुंग्रहपतिपुंत्विषांपतिपुंअहर्पतिपुंभानुपुंहंसपुंसहस्रांशुपुंतपनपुंसवितृपुंरविपुंपद्माक्षपुंतेजसांराशिपुंछायानाथपुंतमिस्रहन्पुंकर्मसाक्षिन्पुंजगच्चक्षुस्पुंलोकबन्धुपुंत्रयीतनुपुंप्रद्योतनपुंदिनमणिपुंखद्योतपुंलोकबान्धवपुंइनपुंभगपुंधामनिधिपुंअंशुमालिन्पुंअब्जिनीपतिपुंचण्डांशुपुंमाठरपुंपिङ्गलपुंदण्डपुं
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.10
नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.73
सहा कुमारी तरणिरम्लानस्तु महासहा ॥ ७३ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.35 · p. 5
आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर-स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः ।मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः,सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नौः स्यान्नौका च तरणिस्तरणी च तरिस्तरी ।उडुपः स्यादुडूपोऽपि द्रोणिर्द्रोणी द्रुणिर्द्रुणी ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त भुवनसञ्ज्ञा Gaṇitanāmamālā 6.54 · p. 3
सहस्रकिरणः पूषा प्रद्योतनो दिवाकरः ।पतङ्गस्तपनो मित्रो मार्त्तण्डस्तरणिर्भगः ॥ ५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.259 · p. 117
अमुक्तं शस्त्रिकादि स्याद्यष्ट्याद्यं तु द्वयात्मकम् ।अवलम्बः पुमान्दण्डो यष्टिश्च तरणिर्द्वयोः ॥ २५९ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.1 · p. 343
समुद्रः सागरः सिन्धुस्तरिषस्तारिषोऽर्णवः ।लौहित्यस्तरणिर्धेनः पारावारो महाशयः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.58 · p. 350
नावा तार्यं तु नाव्यं स्यान्नौतार्ये वस्तुनि त्रिषु ।स्त्रियां पुंसि तरण्डा तु तरणी तरणिस्तरिः ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.30 · p. 29
ब्रध्नोंऽशुर्दिवसप्रणीश्च तरणिर्मार्तण्ड-चण्डद्युतीमार्ताण्डोऽरुण[20a]सारथिर्दिनकरो मित्रो रथाङ्गप्रियः ।अञ्जिष्ठोऽव्यथिषः-सरोरुहसुहृत्पृष्वस्त्रयीमूर्त्तिमान्ज्योतिर्वत्सरमूर्तिरम्बुजकरः सूरोऽप्यरूषः शुचिः ॥ ३० ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.70 · p. 106
तरीस्तरन्ती तरणिस्तरी नौर्वेडा च मङ्गिन्यपि तारणिश्च ।न स्त्री तरण्डोऽप्युडुपश्च पादा-लिन्दी स्त्रियां पुंसि तु कोल-भेलौ ॥ ७० ॥
उपजातिः
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.24 · p. 110
विपणिर्भे श्रवणः स्या-त्तरणिस्त्वर्कादिके कफणिः ।गर्तो वर्तिर्वस्तिःस्वातिर्ज्ञातिर्वितस्ति-गव्यूती ॥ २४ ॥
metre not recognised
genderपुंस्त्रीm. f.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 49 · p. 26
तरणिस्तपनो भानुर्ब्रध्नः पूषाऽर्यमा रविः ।तिग्मः पतङ्गो द्युमणिर्मार्तण्डोऽर्को ग्रहाधिपः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.85 · p. 16
यात्वाशरस्तथासृक्पः कटप्रूश्चोच्यते बुधैः ।सूर्योऽर्कः किरणः पूषा सविता तरणिः खगः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.106 · p. 224
कनीनिकाभयोस्तारो मेरुजम्ब्वां सुदर्शना ।तरणिस्तु समुद्रार्कयष्ट्यंशुषु तथैव च ॥ १०६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.84 · p. 12
तरणिर्दमुनाः शोणः कीली शुक्रश्च कीलकः ।हरिरप्पित्तमः शुद्धो बभ्रुरुष्णो भृगुर्विधुः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.109 · p. 15
जगद्योनिर्जगच्चक्षुः कुण्डली तरणिर्मणिः ।प्रद्योतनस्त्रयीमूर्तिर्वरुणः पृष्टिवान् खगः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.300 · p. 21
कैवर्तो धीवरो दासो नौका नौस्तरणिस्तरिः ।नौवाहकः कर्णधारो नाविकोऽरित्रचालकः? ॥ ३०० ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.308 · p. 22
हेलिः प्रभाकरादित्यौ द्वादशात्मा नभोमणिः ।हरिः पतङ्गस्तरणिः सहस्रांशुर्विरोचनः ॥ ३०८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.61 · p. 7
अर्कः सूरः खगः पूषा पतंगो भास्करो भगः ।तपनस्तरणिर्मित्रश्चित्रभानुस्त्रयीतनुः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.120 · p. 13
बोहित्थं वहनं पोतो यानपात्रं वहित्रकम् ।द्रोणी तु मङ्गिनी वेडा नौका नौस्तरणिस्तरी ॥ १२० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.80 · p. 13
आदित्यः सविता सूर्यः सहस्रांशुः रविस्तथा ।मार्तण्डस्तरणिर्भानुर्गभस्तिः किरणो भगः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1466 · p. 233
नौका नौश्च तरी बेडा तरणी तरणिस्तरिः ।मङ्गिनी चेति नामानि नौकायाः मन्यतां जनः ॥ १४६६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.232 · p. 17
हंसो भास्वान् दिनमणिर्द्युमणिस्तरणी रविः ।चण्डांशुरर्को मार्तण्डः सप्तसप्तिर्गभस्तिमान् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.54 · p. 40
स्त्रियां नौस्तारिका नौका तरणिस्तरणी तरी ।तरिः तरण्डा स्यात् तरण्डः पादानिन्दा दथो प्लवा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.144 · p. 68
भवेद्घृतकुमारी तु कुमारी तरणिः सहा ।महासहा स्यादम्लानो द्वयमम्लानभुरुहे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 भु (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.26 · p. 309
श्रेणिः श्रोणिश्च धमनिवर्त्तनिस्तरणिस्तरौ ।तनूर्जम्बूश्चमूरत्तर्दूः कर्कन्धूर्वाधिता द्वयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.33 · p. 310
विषाणी वीरणीपूगी चज्जूरी च नदादिषु ।पुटिकेन्मालिकाद्यास्तु स्त्रियामादादिषु स्मृता ।लक्ष्मीर्वाणी भवानी रजनिजविरतिकान्तिसीता जुगुप्सा ।चिन्ताऽसूयाविभूतिद्युतितरणिमतिक्षेपणीविष्टि पीडा ।तन्त्रीस्तन्द्री विपञ्चिद्रुणिविपणिकृपावेदनामुक्तिविद्या ।ज्योत्स्ना वेश्या कलावाक्सरणिविषहरीहूतिकाकूप्रपाश्च ।…वदितिकथादेवताद्योदिवौ च ।ढक्काव्रीडावहित्थासुरभिकुमुदिनीपद्मिनीपूर्णिमाश्च ।ताराश्रेणी च वीथीद्युतिरवनि नदीपुष्करिण्यम्बिकोम्रा ।निद्राहेला च लीलायुवतिरनुमतिर्दिक्कुहुः पक्षतिश्च ॥
अनुष्टुप्two metres in one verse
विषाणीस्त्रीवीरणीस्त्रीपूगीस्त्रीखर्जूरीस्त्रीपुटिकास्त्रीमालिकास्त्रीलक्ष्मीस्त्रीवाणीस्त्रीभवानीस्त्रीरजनिस्त्रीविरतिस्त्रीकान्तिस्त्रीसीतास्त्रीजुगुप्सास्त्रीचिन्तास्त्रीअसूयास्त्रीविभूतिस्त्रीद्युतिस्त्रीतरणिस्त्रीमतिस्त्रीक्षेपणीस्त्रीविष्टिस्त्रीपीडास्त्रीतन्त्रीस्त्रीतन्द्रीस्त्रीविपञ्चिस्त्रीद्रुणिस्त्रीविपणिस्त्रीकृपास्त्रीवेदनास्त्रीमुक्तिस्त्रीविद्यास्त्रीज्योत्स्नास्त्रीवेश्यास्त्रीकलास्त्रीवाच्स्त्रीसरणिस्त्रीविषहरीस्त्रीहूतिस्त्रीकाकूस्त्रीप्रपास्त्रीकथास्त्रीदेवतास्त्रीद्योस्त्रीदिव्स्त्रीढक्कास्त्रीव्रीडास्त्रीअवहित्थास्त्रीसुरभिस्त्रीकुमुदिनीस्त्रीपद्मिनीस्त्रीपूर्णिमास्त्रीतारास्त्रीश्रेणीस्त्रीवीथीस्त्रीअवनिस्त्रीनदीस्त्रीपुष्करिणीस्त्रीअम्बिकास्त्रीनिद्रास्त्रीहेलास्त्रीलीलास्त्रीयुवतिस्त्रीअनुमतिस्त्रीदिश्स्त्रीकुहूस्त्रीपक्षतिस्त्री
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.161 · p. 22
भानुः सूर्यः पतंगस्तरणिरहिमगुर्भास्करो भानुमालीब्रध्नो हंसो विवस्वान् रविरयुगहयोऽहर्पतिः कर्मसाक्षी ।दीप्तांशुः सप्तसप्तिर्दिवसकर इनस्तिग्मभाश्चित्रभानुःसूरः पूषाब्जबन्धुर्ग्रहपतिररुणो द्वादशात्मार्यमार्कः ॥ १६१ ॥
स्रग्धरा
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.324 · p. 44
समुद्रीयं तु त्रिष्वब्धिभवे सामुद्रिकस्त्वयम् ।समुद्रयात्रादैवज्ञो नौस्तरिस्तरणिः स्त्रियाम् ॥ ३२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास णार्धश्लोकः Dharaṇikośa 14.2.17 · p. 53
तरणिः कुमारिकाख्यायामोषधौ नावि भास्करे ।भरणी घोषके ऋक्षे भरणं वेतने भृतौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.113 · p. 473
यष्ट्यर्कांशुसमुद्रेषु तरणिर्भूपदेयके ।भागधेयः करेणुस्तु करिणीकरिणोरपि ॥ ११३ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.39 · p. 200
पतितधेनुसमुद्धृतियष्टिकां-शुरविसिन्धुगता तरणिर्द्वयोः ।तरितरुण्योषधिगा तु भवेत्स्त्रियांरविगता तु नरीत्यपरे जगुः ॥ ३९ ॥
द्रुतविलम्बितम्two metres in one verse
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.838 · p. 120
अट्टालिकायां तपसः पुनश्चन्द्रे पुमांस्त्रि तु ।महति स्यादथो सूर्ये तरणिर्वारिधावपि ॥ ८३८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.839 · p. 120
स्त्रियां तु नावि नद्यां च पुष्पस्तम्बान्तरे तथा ।कुमारीसंज्ञके किञ्च व्रजस्तम्भे स चाप्ययम् ॥ ८३९ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.840 · p. 120
गवामुत्थापनं काष्ठं पतितानां समीरितम् ।सज्जनस्तु रयेऽप्याह त्रि तु क्षिप्रे पुमान् पुनः ॥ ८४० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.37 · p. 210
तरुणः कुब्जपुष्पे ना चित्रके यूनि च त्रिषु ।तरणिः पुंसि मार्तण्डे कुमारीनौकयोः स्त्रियाम् ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2096 · p. 254
तरणिः स्त्री हविर्मन्थे नावि पुंसि तु भास्करे ।दृङ्मध्ये स्त्री पुमान् दैत्ये नक्षत्रे तारकं न ना ॥ २०९६ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.129 · p. 135
दुर्वर्णं रजकेऽपि स्याद्गुणोलिः कच्छपी द्रुणी ।द्युमणौ तरणिः पुंसि कुमारीनौकयोः स्त्रियाम् ॥ १२९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.42 · p. 260
स्त्री नौनद्योर्व्रजस्तंभे तरणिर्नार्णवे रवौ ।भुवीन्द्रपुत्र्यां तविषी ताविष्यब्धिदिवोर्नरौ ॥ ४२ ॥
अनुष्टुप्

तरणि as a meaning in nānārtha verses

  • कोषकल्पतरु दर्शतदर्शत इन्दौ तरणौ मरतो मृतौ कृतान्ते च । ऋत्विजि यजतोऽप्युक्तो यष्टव्ये त्वन्यलिङ्गः स्यात् ॥ ९४ ॥ Koṣakalpataru 6.16.94
  • कोषकल्पतरु गभस्तिरात्रौ वासनिकेतयोश्च वसतिः स्त्री धातृवाय्वोः पुनः श्रौतेष्वग्निषु चाङ्कतिर्निर्गदितो रुक्त्यागयोस्त्र्यंहतिः । अश्रीदिग्धवयोरुपद्रवहृते स्यान्निर्ऋतिः पुंसि तु स्वाहायां तरणौ घृणौ च चतुरैः प्रोक्तो गभस्तिस्तथा ॥ ३० ॥ Koṣakalpataru 6.16.30
  • कोषकल्पतरु चित्ररथचित्ररथो गन्धर्वे तरणौ विद्याधरे तद्वत् ॥ १३ ॥ Koṣakalpataru 6.18.13
  • कोषकल्पतरु नौबन्धे बुद्धेऽभावे नो नरि ना नौस्तरण्यां स्यात् ॥ ८१ ॥ Koṣakalpataru 6.21.81
  • कोषकल्पतरु चित्रभानुस्यात्कुम्भयोनिर्मुनिवृक्षभेदे कामे पुनर्ब्रह्मणि चात्मयोनिः । स्याच्चित्रभानुस्तरणौ च वह्नौ कलध्वनिः कोकिलकेकिनोश्च ॥ ४६ ॥ Koṣakalpataru 6.21.46
  • कोषकल्पतरु शूरस्तः शूरसूरौ तरणौ सुयोधे चोरः पुमांस्तस्करचोरकेषु । स्थूरो नृलिङ्गो नरमात्रवाची हयस्थपश्चान्नलिकागतः स्त्री तीरः पुमान्रङ्ग इषु प्रभेदे तीरं तटे च प्रवदन्ति सन्तः ॥ १८ ॥ Koṣakalpataru 6.27.18
  • कोषकल्पतरु तरीउष्ट्री करभ्यामपि गोलिकायां क्रोष्ट्री भवेत्क्षीरविदारिकायाम् । स्याल्लाङ्गलीफेरवयोषितोश्च तरीस्तरण्यां पिटके दशासु ॥ ७६ ॥ Koṣakalpataru 6.27.76
  • कोषकल्पतरु मुर्मरकामे तुषाग्नौ तरणेस्तथाऽश्वे- ऽथो निर्जरः स्वर्गिणि पुंसि शस्तः । जराविहीने परवत्स्त्रियां तु गुडूचिकायामपि तालपत्र्याम् ॥ २२ ॥ Koṣakalpataru 6.27.22
  • कोषकल्पतरु वीतिहोत्रपुंस्यग्निहोत्रो दहने द्वयोनं हविष्यथाग्नौ तरणौ च दिष्टः । ज्ञैर्वीतिहोत्रोऽप्यथ वीरमान्ये स्याद्वीरभद्रो हयमेधकाश्वे ॥ ३१ ॥ Koṣakalpataru 6.27.31
  • कोषकल्पतरु विभावसुविभावसुः स्यात्तरणौ च हार- भेदे हुताशे सुरगाथकेषु । निशि स्त्रियां भे तु पुनर्वसुः स्या- त्कात्यायने स्यादथ राजहंसः ॥ २३ ॥ Koṣakalpataru 6.31.23
  • नानार्थार्णवसंक्षेप सहासहा तु पुष्पस्तम्बेषु त्रिषु स्त्री तरणौ तथा । नीलझिण्ट्यां पीतझिण्ट्यामित्यप्यतिवलाह्वये ॥ १४४४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1444
  • तन्त्राभिधान नऊर्ध्ववासी द्विरण्डश्च वामपादाङ्गुलेर्मु(र्न)खम् । वैनतेयः स्तुतिर्वर्त्म तरणिर्बलिरागमः ॥ ११८ ॥ Tantrābhidhāna 2.37.118
  • तन्त्राभिधान छनिर्मलं छं समाख्यातं तरणी छः प्रकीर्त्तितः । छेदने छः समाख्यातो विद्वद्भिः शब्दकोविदैः ॥ १३ ॥ Tantrābhidhāna 3.13