कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ताम्रसार

tāmrasāraक्ली · neut.

In 7 kośas: 6 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.642 · p. 27
अगुर्वगरु राजार्हं लोहं कृमिजवंशिके ।अनार्यजं जोङ्गिकं च मङ्गल्या मल्लिगन्धि यत् ॥ ६४० ॥कालागुरुः कालतुण्डः श्रीखण्डो रोहणद्रुमः ।गन्धसारो मलयजश्चन्दने हरिचन्दने ॥ ६४१ ॥तैलपर्णिकगोशीर्षौ पत्त्राङ्गं रक्तचन्दनम् ।कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका ॥ ६४२ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.286 · p. 92
पटीरमपि पाटीरं श्रीगन्धो मलयोद्भवः ।दिव्यनिम्बो निर्जरसं ताम्रसारन्तु चन्दनम् ॥ २८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.25 · p. 16
ताम्रसारं रक्तसारं लोहितं हरिचन्दनम् ।कुचन्दने तु पत्राङ्गं पतङ्गं पट्टरञ्जनम् ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.295 · p. 138
रञ्जनं ताम्रसारं च कुचन्दनमपि स्मृतम् ।जातीफलं जातिकोशः कर्पूरो हिमवालुका ॥ २९५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1038 · p. 159
तिलपर्णी ताम्रसारं पतङ्गं तिलपर्णिका ।सर्वाण्येतानि नामानि जानीयाच्चन्दनस्य हि ॥ १०३८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.113 · p. 132
श्रीखण्डो गन्धसारश्च ताम्रसारन्तु चन्दनम् ।पीतचन्दनमर्केष्टं गोशीर्षं हरिचन्दनम् ॥ ११३ ॥
अनुष्टुप्
genderक्लीneut.

ताम्रसार as a meaning in nānārtha verses