कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गन्धसार

gandhasāraपुं · masc.

In 13 kośas: 16 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.642 · p. 27
अगुर्वगरु राजार्हं लोहं कृमिजवंशिके ।अनार्यजं जोङ्गिकं च मङ्गल्या मल्लिगन्धि यत् ॥ ६४० ॥कालागुरुः कालतुण्डः श्रीखण्डो रोहणद्रुमः ।गन्धसारो मलयजश्चन्दने हरिचन्दने ॥ ६४१ ॥तैलपर्णिकगोशीर्षौ पत्त्राङ्गं रक्तचन्दनम् ।कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका ॥ ६४२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.225
गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् ।
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.285 · p. 92
पीतचन्दनमश्रेष्ठं गोशीर्षं हरिचन्दनम् ।चन्दनः स्यान्मलयजो …भ्रश्री रोहिणीदुमः ।श्रीखण्डो गन्धसारश्च शुक्लागरुजलालयम् ॥ २८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.23 · p. 24
महामुनिः स्याद्रुद्राक्षे शिवाक्षेति निगद्यते ।श्रीखण्डो गन्धसारे स्याद्राजार्हमगुरुद्रुमे ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.371 · p. 61
गन्धाढ्यो गन्धसारोऽपि श्रीखण्डो मलयोद्भवः ।सर्पावासश्च पाटीरो वेधकः पुंसि रौहिणः ॥ ३७१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.367 · p. 173
कर्चूरो द्राविडः काशो जटालो गन्धमूलकः ।वेधमुख्यो गन्धसारस्तवक्षीरं तु तालजम् ॥ ३६७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.254 · p. 277
गन्धसारः सकृत्पर्णः कर्दमी वृत्तपुष्पकः ।अतिगन्धो गन्धराजो जनष्टो भृङ्गवल्लभः ॥ २५४ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.23 · p. 15
गोशीर्षकं गन्धसारं भद्रश्रीस्तैलपर्णिकम् ।फलकी सुरभिः सारं महार्हं रोहणोद्भवम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.104 · p. 58
शाके कोलफलो द्वारदारुर्योगी हलीमकः ।गन्धसारः स्थिरसारः स्थिरको ध्रुवको ध्रुवः ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.187 · p. 49
गन्धसारो मलयजोऽप्यथ गोशीर्षमिष्यते ।स्यात्तैलपर्णिकं पीतं हरिचन्दनमित्यपि ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.185 · p. 13
स्निग्धपात्रो गन्धसारो गुग्गुलुर्धूपभूरुहः ।आमोदसारो गन्धद्रुरगुरुर्नीललोहितः ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.144 · p. 16
रम्भा तु कदली मोचा समौ करकदाडिमौ ।गन्धसारो मलयजः श्रीखण्डश्चन्दनद्रुमः ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1036 · p. 159
एकाङ्गं गन्धसारश्च भद्रश्रीः फलकी तथा ।मलयजश्च श्रीखण्डं चन्दने रोहणद्रुमः ॥ १०३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.397 · p. 108
भद्राश्रयो गन्धसारः भद्रश्रीः सेव्यरोहिणौ ।तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.527 · p. 69
रोहिणो गन्धसारश्च गन्धश्चन्दनमस्त्रियाम् ।द्राक्षा तु गोस्तनी स्वाद्वी मृद्वीका कालमेषिका ॥ ५२७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.113 · p. 132
श्रीखण्डो गन्धसारश्च ताम्रसारन्तु चन्दनम् ।पीतचन्दनमर्केष्टं गोशीर्षं हरिचन्दनम् ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.