अगुरु
aguruक्ली · neut.In 18 kośas: 22 synonym verses, 7 as a nānārtha head word, 17 as a meaning of another word.
अगुर्वगरु राजार्हं लोहं कृमिजवंशिके ।अनार्यजं जोङ्गिकं च मङ्गल्या मल्लिगन्धि यत् ॥ ६४० ॥कालागुरुः कालतुण्डः श्रीखण्डो रोहणद्रुमः ।गन्धसारो मलयजश्चन्दने हरिचन्दने ॥ ६४१ ॥तैलपर्णिकगोशीर्षौ पत्त्राङ्गं रक्तचन्दनम् ।कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका ॥ ६४२ ॥
अनुष्टुप्
genderक्लीneut.
वंशकं कृमिजग्धं चागुरौ स्यादथ वाल्हिकम् ।सङ्कोचं पिशुनं वर्ण्यमसृक्संज्ञं च कुङ्कुमे ॥ ५१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः ॥ ६२ ॥पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा ।
अनुष्टुप्
genderस्त्रीfem.
कालीयकं च कालानुसार्यं चाथ समार्थकम् ।वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम् ॥ १२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ह (wrong syllable)
genderक्लीneut.
अगुरुर्वसुकः केश्यः शृङ्गारो विश्वरूपकः ।धूपार्हो वल्लरोऽपि स्यान्मिश्रवर्णोऽथ पीतकः ॥ ४०६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सुखदुःखत्वचरुचहलताल्वस्थिहिङ्गुनाम् ।भेषजागुरुसृक्काणामपि तुत्थकुसुम्भयोः ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
स्यात्पद्मरागायुगरुद्योगशृङ्गारयोस्ततः ।टङ्गस्य च निदाघस्य कूर्चक्रकचयोरनु ॥ १५२ ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
पिच्छिला गुरुसारा चागुरुर्मण्डलपत्रिका ।कुशिंशपान्या कपिला भस्मगर्भावसादिनी ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
अगुर्वगरु चायुस्कं राजार्हं जोङ्गकं तथा ।कृमिजं कृमिजग्धं स्यादनार्यमसिते त्विह ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
अगुरुस्तिमिरं जठरंकर्पु(र्पू)रकृच्छ्रे कशेरुहेमादौ ।चन्द्रो वर्ध्रः सीसेसंदेहे द्वापरं कुकुन्दरवत् ॥ ६३ ॥
metre not recognised
genderपुंक्लीm. n.
अगुरावगुरुर्लोहं वंशिका विश्वरूपकम् ।कृमिजं प्रवरं राजार्हं जौङ्गमनार्यकम् ॥ २१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शिंशिपायां महाश्यामा पिच्छिला पाण्डुरच्छदा ।कृष्णसाराङ्गारवर्णागुरुरन्या तु शिंशपा ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
चतुःसमं तु तत्प्रोक्तं कुङ्कुमादिचतुश्चये ।अगर्वगुरुलोहे तु राजार्हं कृमिजं च तत् ॥ २९३ ॥
अनुष्टुप्
genderक्लीneut.
दलतालुबिलाम्भोरुह् मरिचव्यञ्जनाम्भसाम् ।घुसृणागुरुसौवीरक्लोमसिध्मयकृद्युधाम् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
सक्तवोऽप्यररिः कम्बुर्दोर्दार्वगुरुहिङ्गवः ।पलाण्डुस्तितउर्वास्तुवेमप्रेमाणि लोम च ॥ १६५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कालानुसार्यं चाथास्त्री लोहं चागुरु वंशकम् ।राजार्हं क्रिमिजं दिव्यमगरूत्तमजोङ्गके ॥ १८१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्निग्धपात्रो गन्धसारो गुग्गुलुर्धूपभूरुहः ।आमोदसारो गन्धद्रुरगुरुर्नीललोहितः ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
अगुर्वगरु लोहं च कृमिजग्धं च जोङ्गकम् ।वंशकं वंशिका शृङ्गं वंशाभं शीर्षकं तथा ॥ १०३३ ॥
अनुष्टुप्
genderक्लीneut.
कालीयकन्तु कालानुसार्यं जाषकजायकम् ।वंशिकं कृमिजं लोहं राजर्हागुरुजोङ्गकम् ॥
अनुष्टुप्
genderक्लीneut.
कालागुरु स्यादगुरु वंशिकं जोङ्गलाहकम् ।यद्भवेत् मल्लिकागन्धि मङ्गल्या संभवेदिह ॥
अनुष्टुप्
genderक्लीneut.
आप्लावोऽपि च, गात्रानुलेपन्यां वर्तिरुच्यते ।वर्ती तथा जोङ्गके स्यादगर्वगुरु वंशकम् ॥ १९९ ॥
अनुष्टुप्
genderक्लीneut.
मरुवककर्णिकारबकुलाम्रामधूकतुष-क्रमुकनमेरुसालतिलकागुरुदन्तशठाः ।कुरवकसिन्धुवारकृतमालतमालयुगच्छद-करकप्रियालघननागसमित्तरवः ॥ २५४ ॥
metre not recognised
genderपुंmasc.
वासरो नागभेदेऽपि चागुरुः शिंशपापि च ।भद्रश्रीश्चन्दनेऽपि स्यादासुरी राजिकापि च ॥
अनुष्टुप्
meaningsशिंशपा
करीरे गूढपत्रे च न स्त्री वंशस्य कन्दले ।कच्छुरा शुकशिम्बायां शटीद्रुस्पर्शयोरपि ॥ ३९४ ॥
अनुष्टुप्
doubtful
अगुरु as a meaning in nānārtha verses
- धरणिकोश लघुअघमंहसि दुःखे च व्यसनेऽप्यघमुच्यते । लघुः शोभननिःसारशीघ्रपृक्का[गुरुष्वपि ?] ॥ Dharaṇikośa 4.2.2
- धरणिकोश मङ्गल्यमङ्गल्यं मङ्गले साधौ मङ्गल्यश्च मसूरकः । मङ्गल्या च वचा रुद्रा मल्लिगन्धागुरुस्तथा ॥ Dharaṇikośa 25.3.16
- नानार्थार्णवसंक्षेप शीर्षशिरो मूर्ध्नि पुरःसैन्ये सामस्तोत्रान्तरे तथा । प्रधानेऽप्यथ शीर्षं स्यान्मूर्ध्नि चागुरुसंज्ञके ॥ ६५ ॥ Nānārthārṇavasaṃkṣepa 2.3.65
- नानार्थार्णवसंक्षेप अयस्अगुरुण्ययसो गुन्द्रे शरस्य मकरे त्वसोः । पिण्डारे त्ववटोः पाणेर्बर्हिष्ठे मुस्तकेऽप्यपम् ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 2.5.6
- नानार्थार्णवसंक्षेप नतवक्रे नमस्कृते च त्रिर्बन्धुरेऽप्यथ तन्नपि । अगुरौ तगरे चैव गन्धद्रव्यप्रभेदयोः ॥ ६६० ॥ Nānārthārṇavasaṃkṣepa 2.5.660
- नानार्थार्णवसंक्षेप लघुक्लीबं त्वगुरुसंज्ञाकगन्धद्रव्येऽप्युशीरके । गुग्गुलौ तु पुमान् स्त्री तु स्पृक्कायां लघुरेव सा ॥ ११३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1135
- नानार्थार्णवसंक्षेप लोहगन्धद्रव्येऽप्यगुर्वाख्ये लोपस्तुच्छेदने पुमान् । अदर्शने च शब्दस्य शुकभेदे तु सा स्त्रियाम् ॥ ११४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1147
- नानार्थार्णवसंक्षेप क्रिमिजक्लीबलिङ्गं तु विज्ञेयं क्रिमिजं गन्धवस्तुनि । अगुर्वाख्ये क्रिमेस्तु स्याज्जाते त्रि क्रिमिरस्तु ना ॥ ४८१ ॥ Nānārthārṇavasaṃkṣepa 4.481
- नानार्थार्णवसंक्षेप जाङ्गलगन्धद्रव्ये त्वगुर्वाख्ये जाङ्गलं क्ली त्रिषु त्वदः । यज्जङ्गलस्य सम्बन्धि तत्र द्वे तु कपिञ्जले ॥ ७९१ ॥ Nānārthārṇavasaṃkṣepa 4.791
- नानार्थार्णवसंक्षेप नृपार्हस्त्रीभूमनि शतानां स्याच्चतुर्णां कुत्रचिच्छते । नृपार्हं त्वगुरौ क्लीबं स्याद्राजार्हे पुनस्त्रिषु ॥ १०४६ ॥ Nānārthārṇavasaṃkṣepa 4.1046
- नानार्थार्णवसंक्षेप प्रकरप्रकरस्ततपुष्पादौ स्यात् प्रकीर्णसमूहयोः । क्लीबं त्वगुरुसंज्ञे स्याद् गन्धद्रव्येऽथ पुंस्ययम् ॥ १०९६ ॥ Nānārthārṇavasaṃkṣepa 4.1096
- नानार्थार्णवसंक्षेप वंशिकवशिकं भेद्यवत् तुच्छे क्लीबं तु गुरुणि स्मृतम् । वंशिकं त्वगुरौ क्लीबमध्वमानान्तरे तु ना ॥ १६१४ ॥ Nānārthārṇavasaṃkṣepa 4.1614
- नानार्थार्णवसंक्षेप वनद्रुमवनद्रुमस्त्वगुरुणि वनस्थविटपिन्यपि । विषभेदे वत्सनाभो वृक्षभेदे च दृश्यते ॥ १०५ ॥ Nānārthārṇavasaṃkṣepa 6.105
- नानार्थार्णवसंक्षेप काकतुण्डतापिञ्छे स्त्री पुमांस्त्वेषोऽगुर्वाख्ये गन्धवस्तुनि । काकशीर्षस्तु ना पुष्पस्तम्बभेदे शिवप्रिये ॥ १६५ ॥ Nānārthārṇavasaṃkṣepa 6.165
- शब्दरत्नावली लघुलघुर्मनोज्ञे निःसारे चागुरावपि वाच्यवत् । कृष्णागुरुणि शीघ्रे च क्लीबं पृक्कौषधौ स्त्रियाम् ॥ Śabdaratnāvalī 7.4.5
- शब्दरत्नाकर लघुअसार इष्टे क्षिप्रार्थेऽप्यगुरौ क्षुल्लकेऽपि च । लीला क्रीडा विलासश्च लक्ष्म चिह्नवरिष्ठयोः ॥ १९९१ ॥ Śabdaratnākara 4.1.1991
- वैजयन्ती लघुन्याय्यलब्धव्ययोर्लभ्यं लिप्तो भक्षितदिग्धयोः । लघु त्वसारागुरुणोरिष्टे क्षिप्रमनोज्ञयोः ॥ १५ ॥ Vaijayantī 6.4.15