हरिचन्दन
haricandanaक्ली · neut.In 18 kośas: 24 synonym verses, 7 as a nānārtha head word, 4 as a meaning of another word.
वृक्षाः कल्पः पारिजातो मन्दारो हरिचन्दनः ।संतानश्च धनुर्देवायुधं तदृजु रोहितम् ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चैते देवतरवो मन्दारः पारिजातकः ।सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५० ॥
अनुष्टुप्
genderपुंक्लीm. n.
genderपुंक्लीm. n.
मन्दारपारिजातकहरिचन्दनकल्पवृक्षसन्तानाः ।पञ्चैते सुरतरवो मेरुः सुरपर्वतो ज्ञेयः ॥ १३५ ॥
आर्या
genderपुंmasc.
पीतचन्दनमश्रेष्ठं गोशीर्षं हरिचन्दनम् ।चन्दनः स्यान्मलयजो …भ्रश्री रोहिणीदुमः ।श्रीखण्डो गन्धसारश्च शुक्लागरुजलालयम् ॥ २८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
देववाहनपर्यायं मन्दारः पारिजातकः ।सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ४३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पवृक्षश्च संतानो मन्दारः पारिजातकः ।हरिचन्दनमस्त्री स्यात्पञ्चैते सुरपादपाः ॥ ११९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हिमं महार्हं मलयं श्वेतं स्याच्चन्द्रकान्तकः ।हरिचन्दनमस्त्री स्याद्गोशीर्षं तैलपर्णिकः ॥ ९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कुचन्दनं रञ्जनं च हरिचन्दनमस्त्रियाम् ।ज्योतिष्टोमं किरातं च ज्योतिरक्तारुणद्रुमौ ॥ १२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
केसरं किसरं वेरं पीतकं पीतनं वरम् ।असृग्रक्ताम्बरं न स्त्री कुङ्कुमं हरिचन्दनम् ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
ताम्रसारं रक्तसारं लोहितं हरिचन्दनम् ।कुचन्दने तु पत्राङ्गं पतङ्गं पट्टरञ्जनम् ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
हरिचन्दनमन्दारौ देववृक्षा भवन्त्यमी ।वज्रं स्वरुः पविः शम्बः शतधाराशनी भिदुः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
गन्धसारो मलयजोऽप्यथ गोशीर्षमिष्यते ।स्यात्तैलपर्णिकं पीतं हरिचन्दनमित्यपि ॥ १८७ ॥
अनुष्टुप्
genderक्लीneut.
संतानः पारिजातश्च कल्पश्च हरिचन्दनः ।मन्दारश्चेति देवानां वृक्षाः पञ्च बुधैः स्मृताः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
तैलपर्णिकमेवेदं गोशीर्षं हरिचन्दनम् ।सर्पो भुजंगो भुजगः पन्नगोऽहिर्भुजंगमः ॥ १४५ ॥
अनुष्टुप्
genderक्लीneut.
सरो नन्दीसरस्तस्य सुधर्मा तु सभा भवेत् ।वनं तु नन्दनं ज्ञेयं वृक्षाश्च हरिचन्दनः ॥ १९८ ॥
अनुष्टुप्
genderपुंmasc.
गोशीर्षस्तैलर्णिकः प्रख्यातं हरिचन्दनम् ।कुचन्दनं तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ॥ १०३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (syllables merged)
genderक्लीneut.
हरिचन्दनमस्त्री स्यात् पञ्च देवमहीरुहाः ।एतेषां कल्पवृक्षत्वं पञ्चासी बहुसम्मतम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
सामालभनमुच्छित्तिरङ्गरागः कषायकम् ।कुङ्कुमं घुसृणं रक्तं सङ्कोचं हरिचन्दनम् ॥
अनुष्टुप्
genderक्लीneut.
भद्राश्रयो गन्धसारः भद्रश्रीः सेव्यरोहिणौ ।तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
वंशिका वंशिकं कृमिजग्धं कृमिजमित्यपि ।प्रवरं प्रकरं तुल्ये गोशीर्षे हरिचन्दनम् ॥ २०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 कृ (wrong syllable)
genderक्लीneut.
हरिचन्दनमस्त्री स्यान्मन्दारः कल्पभूरुहः ।पारिजातश्च संतानः पञ्चैते देवपादपाः ॥ ९२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पञ्चैते देवतरवो मन्दारः पारिजातकः ।सन्तानः कल्पवृक्षश्च हरिचन्दनमस्त्रियाम् ॥ १४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
श्रीखण्डो गन्धसारश्च ताम्रसारन्तु चन्दनम् ।पीतचन्दनमर्केष्टं गोशीर्षं हरिचन्दनम् ॥ ११३ ॥
अनुष्टुप्
genderक्लीneut.
हरिचन्दनमाख्यातं कुसुम्भे चन्दनान्तरे ।अभिसर्जनमित्येतद्वधे दाने प्रकाशितम् ॥
अनुष्टुप्
हरिचन्दनमप्यस्त्री गोशीर्षे देववृक्षे च ।ज्योत्स्नायां काश्मीरेऽतिसर्जनं स्याद्वधे दाने ॥ ५५ ॥
metre not recognised
भृङ्गरोट श्रीधरे च शैले च शिवकीर्तनः ।धनञ्जये हिमकरे मकरे श्वेतवाहनः ॥कुञ्जरे धान्यभेदे च स्यात्पुमान् षष्टिहायनः ।कर्पूरफेणचन्द्रेषु श्वेतधामा पुमानयम् ॥कामुके च कलाकेलौ संप्रयोगी निगद्यते ।स्वर्गद्रुमे पुमान्क्लीबं गोशीर्षे कुङ्कुमेऽपि च ॥
अनुष्टुप्
doubtful
ज्योत्स्नायां स्यान्मलयजे कान्ताङ्गे हरिचन्दनम् ।महेन्द्रे गरुडे सूर्ये स्यात्पुमान् हरिवाहनः ॥
अनुष्टुप्
हरिचन्दन as a meaning in nānārtha verses
- धरणिकोश सुवर्णपत्रोर्णे धौतकौशेयं पत्रोर्णं शोणकं विदुः । सुवर्णे हेम्नि तत्कर्षे सुवर्णे हरिचन्दने ॥ Dharaṇikośa 14.2.15
- शिवकोष कालीयककर्कोटिका मनोज्ञायां बिल्वे कर्कोटकः पुमान् । कालीयकं कठिन्यां न स्री हरिचन्दने क्लीबम् ॥ ५६ ॥ Śivakoṣa 1.4.56
- शिवकोष सुवर्णसुवर्णा जोङ्गके क्लीबं काञ्चने हरिचन्दने । हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनके ॥ १६६ ॥ Śivakoṣa 11.2.166
- शिवकोष श्वेतगवादन्यामथ क्लीबं रूप्ये च हरिचन्दने । Śivakoṣa 12.1.11