कुचन्दन
kucandanaक्ली · neut.In 12 kośas: 12 synonym verses, 4 as a nānārtha head word, 2 as a meaning of another word.
अगुर्वगरु राजार्हं लोहं कृमिजवंशिके ।अनार्यजं जोङ्गिकं च मङ्गल्या मल्लिगन्धि यत् ॥ ६४० ॥कालागुरुः कालतुण्डः श्रीखण्डो रोहणद्रुमः ।गन्धसारो मलयजश्चन्दने हरिचन्दने ॥ ६४१ ॥तैलपर्णिकगोशीर्षौ पत्त्राङ्गं रक्तचन्दनम् ।कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका ॥ ६४२ ॥
अनुष्टुप्
genderक्लीneut.
तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ।कुचन्दनं चाथ जातीकोशजातीफले समे ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
अथ रक्तार्कक्षुद्रेभ्यश्चन्दनं रक्तसारकम् ।कुचन्दनं हिमं चाय? वर्वरं श्वेतवर्वरम् ॥ ३७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्क (wrong syllable)
genderक्लीneut.
कुचन्दनं रञ्जनं च हरिचन्दनमस्त्रियाम् ।ज्योतिष्टोमं किरातं च ज्योतिरक्तारुणद्रुमौ ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
स्यात्क्षुद्रचन्दनं शैलभवेऽन्यत्तु कुचन्दनम् ।पत्राङ्गं स्याच्च पत्रङ्गं रक्तकाष्टं सुरङ्गकम् ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
रञ्जनं ताम्रसारं च कुचन्दनमपि स्मृतम् ।जातीफलं जातिकोशः कर्पूरो हिमवालुका ॥ २९५ ॥
अनुष्टुप्
genderक्लीneut.
पीतवर्णसमायुक्ते चन्दने चाथ रञ्जनम् ।पत्राङ्गं रक्तकं रक्तचन्दनं तु कुचन्दनम् ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
गोशीर्षस्तैलर्णिकः प्रख्यातं हरिचन्दनम् ।कुचन्दनं तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ॥ १०३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (syllables merged)
genderक्लीneut.
एवं चन्दनभेदं स्यात् ख्याते त्रिविधचन्दने ।पतङ्गमपि पत्राङ्गं पतुङ्गञ्च कुचन्दनम् ॥
अनुष्टुप्
genderक्लीneut.
पत्राङ्गं रञ्जनं रक्तचन्दनं च कुचन्दनम् ।कर्पूरागरुकस्तूरीतक्कोलैर्यक्षकर्दमः ॥ ११५० ॥
अनुष्टुप्
genderक्लीneut.
किरातजं बला हार्या पिंजनं तैलपर्णिकम् ।तथा कुचन्दनं पीतदारु रक्ते तु चन्दने ॥ ११४ ॥
अनुष्टुप्
genderक्लीneut.
पत्रांगं रञ्जनं सेव्यं धूर्तमैरावतं लसम् ।कुचन्दनं जघन्यं च रक्तं च तिलपर्ण्यपि ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
कुचन्दनं लोहितचन्दने स्यात्पत्राङ्गवृक्षान्तर वाचकं [च] ।आस्कन्दनं धिक्करणे [रणे] चसंशोषणे संवदनं विलोके ॥ १७ ॥
उपजातिः
कपीतनो गर्दभाण्डेऽऽम्राताश्वत्थशुकप्रिये ।कुचन्दनं च पतङ्गे रक्ते निर्गन्धचन्दने ॥ २७२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 प (wrong syllable)
आत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि ।उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् ।उपासनं शराभ्यासे सेवनासनयोरपि ॥कपीतनश्चलदले गर्दभाण्डे शिरीषके ।आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् ।क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् ।कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः ।केशरी सिंहपुन्नागनागकेशरवाजिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
कुचन्दन as a meaning in nānārtha verses
- शिवकोष लोहितरोहितं कुङ्कुमे क्लीबं पुंसि रोहिणि रोहितः । लोहितं कुङ्कुमे रक्तचन्दने च कुचन्दने ॥ १९५ ॥ Śivakoṣa 12.2.195
- वैजयन्ती चन्दननखस्य शस्त्रनामान्ता नरो मार्जारसिंहयोः । कुचन्दने कुंकुमे च रक्तादेश्चन्दनायः ॥ २३ ॥ Vaijayantī 8.6.23