दिविषद्
diviṣadपुं · masc.In 8 kośas: 8 synonym verses.
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥आदितेया दिविषदो लेखा अदितिनन्दनाः ।आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
सहद्यसद्दिविषदा दैवतेन च देवता ।दिवोकाश्च दिवौकाश्च बिडोजाः स्याद्बिडौजसा ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
स्वाहायज्ञसुधानां च पर्यायेभ्योऽशनार्थकाः ।मृत्युपर्यायनञ्पूर्वा दिविद्युनभसः सदाः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
देवा निर्जरसः सुराः सुमनसोऽस्वप्ना अमर्त्त्या बुधाःगीर्वाणा मरुतोऽमरा मखभुजः स्वाहाभुजो नाकिनः ।आदित्या द्युषदस्तथा दिविषदो लेखाश्च बर्हिर्मुखाःस्युर्वृन्दारकपूजितावपि सुपर्वा----र्भवः ॥ ४ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
दिवौकसो दिविषदो गीर्वाणा अमृतान्धसः ।अस्वप्ना ऋभवो बर्हिर्मुखाः क्रतुभुजोऽरुजः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
स्वाहाभुजः क्रतुभुजो गीर्वाणा दनुजद्विषः ।बृन्दारका दिविषदो द्युषदो द्यौषदः सुराः ॥
अनुष्टुप्
genderपुंmasc.
देवा यज्ञभुजोऽमरा दिविषदो बर्हिर्मुखा निर्जरागीर्वाणास्त्रिदिवेश्वराः सुमनसो वैमानिका वायुनाः ।अस्वप्ना अमृताशना अनिमिषा वृन्दारकाः खेचराआदित्या असुराहिता अदितिजा लेखा निलिम्पाः सुराः ॥ ७५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
आदित्या ऋभवोऽस्वप्ना विवस्वन्तो दिवौकसः ।आदितेया दिविषदो लेखा अदितिनंदनाः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.