कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सुपर्वन्

suparvanपुं · masc.

In 12 kośas: 12 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.1 · p. 7
स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः ।गौस्त्रिदिवमूर्ध्वलोकः सुरालयस्तत्सदस्त्वमराः ॥ ८७ ॥देवाः सुपर्वसुरनिर्जरदेवतर्भुबर्हिर्मुखानिमिषदैवतनाकिलेखाः ।वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः स्वाहास्वधाक्रतुसुधाभुज आदितेयाः ॥ ८८ ॥गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः ।
आर्या
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.9
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥आदितेया दिविषदो लेखा अदितिनन्दनाः ।आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.4 · p. 1
आदित्यास्त्रिदशाः सुराः सुमनसः स्वर्गौकसो देवता,गीर्वाणा ऋभवोऽमराश्च मरुतो वृन्दारका निर्जराः ।अस्वप्ना विबुधास्त्रिविष्टपसदो लेखाः सुपर्वाण इ-,त्याख्याता अमृताशना अनिमिषा देवास्तथा दैवतम् ॥ ४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.1 · p. 369
सुपर्वाणो देवयवः शान्ता वृन्दारकाः सुराः ।स्वप्नमृत्युजराव्याधिपर्यायपरिवर्जिताः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.4 · p. 8
देवा निर्जरसः सुराः सुमनसोऽस्वप्ना अमर्त्त्या बुधाःगीर्वाणा मरुतोऽमरा मखभुजः स्वाहाभुजो नाकिनः ।आदित्या द्युषदस्तथा दिविषदो लेखाश्च बर्हिर्मुखाःस्युर्वृन्दारकपूजितावपि सुपर्वा----र्भवः ॥ ४ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1 · p. 184
शतपर्वा सुपर्वा च त्वचिसारस्तृणध्वजः ।मृत्युबीजः किलाटी च सतीनो रभकश्च यः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.49 · p. 11
नाकोर्ध्वलोकौ दिदिविर्दीदिविश्च सुरालयः ।देवा लेखाः सुपर्वाणः सुरनिर्जरनाकिनः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.36 · p. 5
वृन्दारकाः सुमनसः सुपर्वाणः सुधाभुजः ।त्रिदिवेशा आदितेया अमर्त्या दानवारयः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.68 · p. 11
अमर्त्यास्त्रिदशाः लेखा बर्हिर्मुखाः स्वधाभुजः ।अनिमिषाः सुपर्वाणः स्वाहाभुजः सुधाभुजः ॥ ६८ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.4 · p. 2
दिवानमपि चेच्छन्ति नान्तं न बहुसन्मतम् ।देवतायां सुपर्वाणस्त्रिदशास्त्रिदिवौकसः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.76 · p. 10
विबुधामर्त्यदिवौकस्त्रिदशसुपर्वादितेयमरुदृभवः ।षण्डे न देवताः स्युर्नरि च तयोरेव दैवतानि स्युः ॥ ७६ ॥
गीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.4 · p. 3
सुपर्वाणः क्रतुभुजो निर्जरा अमृताशनाः ।बर्हिर्मुखा विट्पतयस्त्रिदशा हव्ययोनयः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.37 · p. 266
भवेत्परिज्वा क्रतुकर्मविज्ञे[तथा] परीचारकयाज्ञिके च ।देवे सुपर्वा विशिखे च वंशेधूमे च पर्वण्यथ केसरी स्यात् ॥ ३७ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.127 · p. 246
सदादानो गन्धहस्तिन्यैरावतगणेशयोः ।सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च ।सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥समापनं परिच्छेदप्रमापनसमाप्तिषु ।सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् ।स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् ।समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् ।भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् ।सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् ।सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः ।सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 द (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.272 · p. 185
सीमाऽधाटे स्थितौ क्षेत्रे स्वामी भर्तरि षण्मुखे ।धूमवंशशरामर्त्याः सुपर्वाणः प्रकीर्तिताः ॥ २७२ ॥
अनुष्टुप्

सुपर्वन् as a meaning in nānārtha verses

  • कोषकल्पतरु अमरसुपर्वसु स्यादमरोऽपि वज्र- द्रुमेऽस्थिसंहारक औषधौ च । दूर्वामृताधारणदेवपूःषु स्त्रियामथ स्यादपरं न पुंसि ॥ ८२ ॥ Koṣakalpataru 6.27.82