कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निलिम्प

nilimpaपुं · masc.

In 13 kośas: 13 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.3 · p. 1
निलिम्पाः कामरूपाश्च साध्याः शोभाश्चिरायुषः ।पूजिता मर्त्यमहिताः सुबाला वायुभाः सुराः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.3 · p. 66
अमरा मरुतो देवा निलिम्पास्त्रिदशाः सुराः ।ब्रह्मा विधाता लोकेशः स्वयंभूश्चतुराननः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.4 · p. 8
सैरिको भोगभूमिः स्यादमर्त्यभवनं गिरिः ।देवा निलिम्पा मरुतः सुराः सूर्या बुधा रथाः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.109 · p. 17
पृथुरोमा झषो मत्स्यो निलिम्पोण्डभवोम्बुभूः ।कुलीरः कर्कटस्तीक्ष्णमुखो मकर इत्यपि ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.4 · p. 370
लेखा निलिम्पा गीर्वाणाः स्वर्गिणो मरुतो दितेः ।अपत्यप्रत्ययार्थाः स्युस्तस्याः पुत्रार्थवाचकाः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.3 · p. 1
मेरुशृङ्गाग्रनगरं धाराधरपथस्थितम् ।देवेष्वनिमिषामर्त्यनिलिम्पामृतभोजिनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.51 · p. 12
वृन्दारका निलिम्पाश्च आदितेयाश्च पूजिलाः ।विबुधा मरुतो दानवारयोऽनिमिषा अपि ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.3 · p. 34
निलिम्पा मरुतो मर्त्याः गुरुशिष्या दिवौकसः ।इन्द्रो विद्याधरस्वामी परमन्युर्युधिष्ठिरः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.35 · p. 5
विबुधा देवता देवास्त्रिदशा निर्जराः सुराः ।आदित्या मरुतो लेखा निलिम्पा नाकिनोऽमराः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.7 · p. 2
अमरा स्वर्गिनः शौभा निलिम्पाः सुचिरायुषः ।आदित्या आदितेयाः स्युः स्थिरा अदितिनन्दनाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.75 · p. 10
देवा यज्ञभुजोऽमरा दिविषदो बर्हिर्मुखा निर्जरागीर्वाणास्त्रिदिवेश्वराः सुमनसो वैमानिका वायुनाः ।अस्वप्ना अमृताशना अनिमिषा वृन्दारकाः खेचराआदित्या असुराहिता अदितिजा लेखा निलिम्पाः सुराः ॥ ७५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.5 · p. 3
स्वाहाभुजस्तु वसुलाः पूजिताश्च चिरायुषः ।शौभा निलिम्पा द्युषदः स्वर्गिणश्च नभःसदः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.2 · p. 3
अमर्त्यभवनं गौश्च त्रिदिवः स्यात् खरव्ययम् ।देवा निलिंपा मरुतो गीर्वाणा वायुनाः सुराः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1024 · p. 137
निलिम्पस्तु द्वयोर्देवे निलिम्पा तु स्त्रियामियम् ।(जाग्र्या ?) निवेषस्तु पुमान् कृपे वृक्ष इतीतरे ॥ १०२४ ॥
अनुष्टुप्metre not read in every line
meaningsदेव