कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पूजित

pūjitaवि · adj.

In 13 kośas: 14 synonym verses, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.131 · p. 21
दक्षिणार्हस्तु दक्षिण्यो दक्षिणीयोऽथ दण्डितः ।दापितः साधितोऽर्च्यस्तु प्रतीक्ष्यः पूजितोऽर्हितः ॥ ४४६ ॥नमस्यितो नमसितापचितावञ्चितोऽर्चितः ।
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.3 · p. 1
निलिम्पाः कामरूपाश्च साध्याः शोभाश्चिरायुषः ।पूजिता मर्त्यमहिताः सुबाला वायुभाः सुराः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.171
ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.384 · p. 45
प्रतीक्ष्यः कथ्यते पूज्यः पूजितोऽपचितो भवेत् ।ईर्ष्यालुः कुहनः प्रोक्तो जारो ह्युपपतिः स्मृतः ॥ ३८४ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.150 · p. 230
उत्पाटितं प्रवृद्धे तु प्रसृतं शाततेजिते ।न्यस्तं निसृष्टं निर्दिष्टं पूजितोपचिते समे ॥ १५० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.163 · p. 232
ज्ञप्तस्तु ज्ञापितेच्छन्नश्छादिते पूजितेऽर्चितः ।पूरिते भरितः पूर्णः क्लिष्टस्तु क्लेशिते पुनः ॥ १६३ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.2 · p. 369
सुबलाः पूजिता देवास्त्रिदशाश्च चिरायुषः ।बर्हिःपर्यायवदनपर्याया ऋभवश्च ते ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.4 · p. 8
देवा निर्जरसः सुराः सुमनसोऽस्वप्ना अमर्त्त्या बुधाःगीर्वाणा मरुतोऽमरा मखभुजः स्वाहाभुजो नाकिनः ।आदित्या द्युषदस्तथा दिविषदो लेखाश्च बर्हिर्मुखाःस्युर्वृन्दारकपूजितावपि सुपर्वा----र्भवः ॥ ४ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.63 · p. 28
नमसितं तु नमस्यितमर्चितं महित-मर्हित-पूजित-वन्दितम् ।अपचितं ह्यपचायितं भवति तु श्रित सेवित शी[लि]तम् ॥ ६३ ॥
द्रुतविलम्बितम्metre not read in every line
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.244 · p. 91
नमसितो नमस्यितः पूजितश्चेति पूजितः ।
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.65 · p. 168
ज्ञाते तु ज्ञापितो ज्ञप्तः छादिते छन्न इत्यपि ।अञ्चितः पूजितश्चेति भवेद्द्वितयमर्चिते ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1579 · p. 190
पूजितमञ्चितमर्चितमपचितमपचायितं महितम् ।मानितमर्हितनमसितनमस्यिताराधिताभिराद्धानि ॥ १५७९ ॥
उद्गीतिः
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.5 · p. 3
स्वाहाभुजस्तु वसुलाः पूजिताश्च चिरायुषः ।शौभा निलिम्पा द्युषदः स्वर्गिणश्च नभःसदः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.113 · p. 210
गुण्डितं रूषिते क्लिष्टे क्लेशितं पूजितेऽञ्चितम् ।ज्ञप्तं तु ज्ञपिते हन्नं गूने मीढं तु मूत्रिते ॥ ११३ ॥
अनुष्टुप्
genderविadj.

पूजित as a meaning in nānārtha verses