कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वृन्दारक

vṛndārakaपुं · masc.

In 13 kośas: 11 synonym verses, 6 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.1 · p. 7
स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः ।गौस्त्रिदिवमूर्ध्वलोकः सुरालयस्तत्सदस्त्वमराः ॥ ८७ ॥देवाः सुपर्वसुरनिर्जरदेवतर्भुबर्हिर्मुखानिमिषदैवतनाकिलेखाः ।वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः स्वाहास्वधाक्रतुसुधाभुज आदितेयाः ॥ ८८ ॥गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः ।
आर्या
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.9
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥आदितेया दिविषदो लेखा अदितिनन्दनाः ।आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.4 · p. 1
आदित्यास्त्रिदशाः सुराः सुमनसः स्वर्गौकसो देवता,गीर्वाणा ऋभवोऽमराश्च मरुतो वृन्दारका निर्जराः ।अस्वप्ना विबुधास्त्रिविष्टपसदो लेखाः सुपर्वाण इ-,त्याख्याता अमृताशना अनिमिषा देवास्तथा दैवतम् ॥ ४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.185 · p. 234
वृन्दारको वामनस्तु गुरुर्वड्रो गुरुस्तथा ।बाढश्च व्यायतश्चैतेऽतिशयार्थाः स्मृता इति ॥ १८५ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.1 · p. 369
सुपर्वाणो देवयवः शान्ता वृन्दारकाः सुराः ।स्वप्नमृत्युजराव्याधिपर्यायपरिवर्जिताः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.4 · p. 8
देवा निर्जरसः सुराः सुमनसोऽस्वप्ना अमर्त्त्या बुधाःगीर्वाणा मरुतोऽमरा मखभुजः स्वाहाभुजो नाकिनः ।आदित्या द्युषदस्तथा दिविषदो लेखाश्च बर्हिर्मुखाःस्युर्वृन्दारकपूजितावपि सुपर्वा----र्भवः ॥ ४ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.51 · p. 12
वृन्दारका निलिम्पाश्च आदितेयाश्च पूजिलाः ।विबुधा मरुतो दानवारयोऽनिमिषा अपि ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.36 · p. 5
वृन्दारकाः सुमनसः सुपर्वाणः सुधाभुजः ।त्रिदिवेशा आदितेया अमर्त्या दानवारयः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.69 · p. 11
स्वर्गिणस्त्रिदिवाधीशाः क्रतुभुजो हविर्भुजः ।आदितेयास्तथा वृन्दारकाः सुमनसः सुराः ॥ ६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भु (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2618 · p. 422
सिंहशार्दूलनागाद्या उत्तमार्थे भवन्ति वै ।वृन्दारकस्तल्लजश्च मतल्लिका मचर्चिका ॥ २६१८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल्लि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.75 · p. 10
देवा यज्ञभुजोऽमरा दिविषदो बर्हिर्मुखा निर्जरागीर्वाणास्त्रिदिवेश्वराः सुमनसो वैमानिका वायुनाः ।अस्वप्ना अमृताशना अनिमिषा वृन्दारकाः खेचराआदित्या असुराहिता अदितिजा लेखा निलिम्पाः सुराः ॥ ७५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.16
कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५ ॥करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे ।वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.17 · p. 4
वृन्दारकाः श्रेष्ठमनोज्ञनिर्जराःशालावृकाः स्युः श्वशृगालवानराः ।नियामकौ नायकपोतवाहौविनायको बुद्धगणाधिपौ स्मृतौ ॥
upajati mixed
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.31 · p. 154
आकल्पकः स्यान्मुदि चाथ वृन्दा-रकः सुरे सुन्दरमान्ययोश्च ।आक्षेपको निन्दकवातरोग-व्याधेष्वथो कापटिकश्च शिष्ये ॥ ३१ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.428 · p. 63
विलेशया तु गोधायां स्त्री स्याद्वृन्दारकः पुनः ।द्वे देवे त्रि तु मुख्येऽपि सुन्दरेऽथ बृहच्छदः ॥ ४२८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.186 · p. 188
वणिजि स्याद्वडवाग्नौ धूर्ते वाणिजिकः पुमान् ।पुंसि देवे मनोज्ञे नु श्रेष्टे वृन्दारकस्त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ड (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.34 · p. 103
कपर्दे रज्जौ राजीवे बीजकोशे वराटकः ।वृन्दारकौ सुरश्रेष्ठौ गिरिमेघौ बलाहकौ ॥ ३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्जौ (wrong syllable)