कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गीर्वाण

gīrvāṇaपुं · masc.

In 14 kośas: 14 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.1 · p. 7
स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः ।गौस्त्रिदिवमूर्ध्वलोकः सुरालयस्तत्सदस्त्वमराः ॥ ८७ ॥देवाः सुपर्वसुरनिर्जरदेवतर्भुबर्हिर्मुखानिमिषदैवतनाकिलेखाः ।वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः स्वाहास्वधाक्रतुसुधाभुज आदितेयाः ॥ ८८ ॥गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः ।
आर्या
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.9
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥आदितेया दिविषदो लेखा अदितिनन्दनाः ।आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.4 · p. 1
आदित्यास्त्रिदशाः सुराः सुमनसः स्वर्गौकसो देवता,गीर्वाणा ऋभवोऽमराश्च मरुतो वृन्दारका निर्जराः ।अस्वप्ना विबुधास्त्रिविष्टपसदो लेखाः सुपर्वाण इ-,त्याख्याता अमृताशना अनिमिषा देवास्तथा दैवतम् ॥ ४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम मनुष्याधिकारः पञ्चमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 5.3 · p. 27
वेदगर्भो मन्त्रगर्भगीर्वाणो वेदविक्रमः ।क्षत्रियो वसुधाशक्रो बाहुजो राजवंशजः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.4 · p. 370
लेखा निलिम्पा गीर्वाणाः स्वर्गिणो मरुतो दितेः ।अपत्यप्रत्ययार्थाः स्युस्तस्याः पुत्रार्थवाचकाः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.4 · p. 8
देवा निर्जरसः सुराः सुमनसोऽस्वप्ना अमर्त्त्या बुधाःगीर्वाणा मरुतोऽमरा मखभुजः स्वाहाभुजो नाकिनः ।आदित्या द्युषदस्तथा दिविषदो लेखाश्च बर्हिर्मुखाःस्युर्वृन्दारकपूजितावपि सुपर्वा----र्भवः ॥ ४ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.50 · p. 12
अमर्त्यत्रिदशास्वप्ना दैवतर्भुसुधाभुजः ।बहिर्मुखामरस्वाहाभुग्गीर्वाणस्वधाभुजः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.349 · p. 24
विबुधः सुमना लेखो गीर्वाणो मृतभोजनः ।अस्वप्नोऽग्निमुखो नाकी क्रतुभुग्व्योमयानगः ॥ ३४९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.3 · p. 42
ब्राह्मणो मुखजो विप्रो गीर्वाणो वेदपालकः ।क्षेत्रज्ञो ब्रह्मकुलजो भूदेवो मुखवर्णजः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.37 · p. 5
दिवौकसो दिविषदो गीर्वाणा अमृतान्धसः ।अस्वप्ना ऋभवो बर्हिर्मुखाः क्रतुभुजोऽरुजः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.67 · p. 11
अमरा निर्जरा देवाः देवता दानवारयः ।गीर्वाणा नाकिनोऽस्वप्नाः मरुतो विबुधाभिधाः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.6 · p. 2
स्वाहाभुजः क्रतुभुजो गीर्वाणा दनुजद्विषः ।बृन्दारका दिविषदो द्युषदो द्यौषदः सुराः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.75 · p. 10
देवा यज्ञभुजोऽमरा दिविषदो बर्हिर्मुखा निर्जरागीर्वाणास्त्रिदिवेश्वराः सुमनसो वैमानिका वायुनाः ।अस्वप्ना अमृताशना अनिमिषा वृन्दारकाः खेचराआदित्या असुराहिता अदितिजा लेखा निलिम्पाः सुराः ॥ ७५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.2 · p. 3
अमर्त्यभवनं गौश्च त्रिदिवः स्यात् खरव्ययम् ।देवा निलिंपा मरुतो गीर्वाणा वायुनाः सुराः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.