दुराचार
durācāraपुं · masc.In 9 kośas: 8 synonym verses, 2 as a meaning of another word.
व्रात्यः संस्कारहीनः स्यादवकीर्णी क्षतव्रतः ।शिश्विदानो दुराचारस्त्यक्ताग्निर्वीरहा द्विजः ॥ ४०४ ॥
अनुष्टुप्
genderपुंmasc.
अवगीताश्च हन्ता तु गुरूणां नरकीलकः ।शिखिदानो दुराचारः निषिद्धैकरुचिः स्वरुः ॥ ३३१ ॥
अनुष्टुप्
genderपुंmasc.
अवगीताश्च हन्ता तु गुरूणां नरकीलकः ।शश्विदानो दुराचारो निषिद्धैकरुचिः खरुः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
अनेकास्तेषु मुख्यानां विशेषः परिकीर्त्यते ।कृष्णास्तीव्रा दुराचाराः काङ्क्षिणः कठिनान्तराः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
संस्कारवर्जितो व्रत्यः संस्काररहितो द्विजः ।शिश्विदानो दुराचारः कृष्णकर्माऽपि कथ्यते ॥ १४२९ ॥
अनुष्टुप्
genderपुंmasc.
केशवः केशिकः केशी गर्ह्यवादी तु कद्वदः ।शिश्विदानो दुराचार उपक्रान्तश्चिकित्सितः ॥ १११० ॥
अनुष्टुप्
genderविadj.
निर्वृत्त सिद्धनिष्पन्नौ फल्ग्वसारौ समार्थकौ ।शिश्विदानो दुराचारो विवशोऽरिष्टदुष्टधीः ॥ १६९१ ॥
अनुष्टुप्
genderविadj.
अवगीताश्च हन्ता तु गुरूणां नरकीलकः ।शिश्विदानो दुराचारो निषिद्धेकरुचिः खरुः ॥ १२ ॥
अनुष्टुप्
genderविadj.
दुराचार as a meaning in nānārtha verses
- कोषकल्पतरु कृष्णवर्त्मन्राहौ च कृष्णवर्त्मा हुताशने स्याद्दुराचारे । ब्रह्मणि तथाग्रजन्मा ज्येष्ठे भ्रातरि महीदेवे ॥ ६४ ॥ Koṣakalpataru 6.21.64
- शब्दरत्नावली कृष्णवर्मन्धातुवादरते कांश्यकारे कारन्धमी पुमान् । स्वच्छन्दे चटके कामे कामचारी भवेत्पुमान् ॥ इक्ष्यौ वेणौ पोटगले किष्कुपर्वा पुमानयम् । अग्नौ राहौ दुराचारे कृष्णवर्मा निगद्यते ॥ कपिभिद्गन्धकभृङ्गे पुंसि स्याद्गन्धमादनः । पर्वते न स्त्रियामेष सुरायां गन्धमादनी ॥ मार्कण्डेये विधौ कङ्के चिरजीवी भवेत्पुमान् । यमे जाम्बवति क्ष्माभृत्कपिराक्षसभित्सु च ॥ Śabdaratnāvalī 7.20.133