तीव्र
tīvraवि · adj.In 18 kośas: 25 synonym verses, 5 as a nānārtha head word, 12 as a meaning of another word.
शीते तुषारः शिशिरः सुशीमः शीतलो जडः ।हिमोऽथोष्णे तिग्मस्तीक्ष्णस्तीव्रश्चण्डः खरः पटुः ॥ १३८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
genderविadj.
अत्यर्थे गाढमुद्गाढं बाढं तीव्रं भृशं दृढम् ॥ १५०५ ॥अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः ।भरैकान्तातिवेलातिशया जृम्भा तु जृम्भणम् ॥ १५०६ ॥
अनुष्टुप्
genderअindecl.
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥नित्यानवरताजस्रमप्यथातिशयो भरः ।अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
तिग्मं तीक्ष्णं खरं तीव्रं चण्डमुष्णं पटु स्मृतम् ।आतपः कथ्यते रौद्रं निदाघो घर्म उच्यते ॥ ४० ॥
अनुष्टुप्
genderविadj.
आयसं निशितं तीव्रं लोहं खरं? च मुण्डनम् ।अयश्चीनोद्भवं धीनं धीवरं कृष्णमामिषम् ॥ ५६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ख (wrong syllable)
genderक्लीneut.
अतेर्बलार्थमात्राः स्युर्भृशमुद्गाढनिर्भरे ।तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
अतिमर्यादमुद्गाढं गाढं बाढं च निर्भरम् ।नितान्तैकान्ततीव्राणि निःसीममतिमात्रवत् ॥ १६७ ॥
अनुष्टुप्
genderक्लीneut.
स्याच्छारदः शारदिक आतपो यः शरद्भवः ।तिग्मं तीक्ष्णं रौद्र-तीव्रे चण्डमुष्णद्रवाङ्कः [?] ॥ ४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
उल्बणं दारुणं तिग्मं घोरं तीव्रोग्रमुत्कटम् ।शीतलं तिमिरं याथं मन्दं विद्धि विलम्बितम् ॥ १८४ ॥
अनुष्टुप्
genderविadj.
तुषारः शीतलः शीतो हिमोऽपि कथितो बुधैः ।उष्णस्तीव्रः खरस्तीक्ष्णः पटुतिग्मौ मनागथ ॥ २७८ ॥
अनुष्टुप्
genderविadj.
भृशं बाढं तथा तीव्रं दृढोद्गाढे तथा समे ।नितान्तनिर्भरोत्कर्षातिमर्यादा भरे स्मृताः ॥ ३७९ ॥
अनुष्टुप्
genderअindecl.
अनेकास्तेषु मुख्यानां विशेषः परिकीर्त्यते ।कृष्णास्तीव्रा दुराचाराः काङ्क्षिणः कठिनान्तराः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
तयोरन्तरभागे तु पात्रं तीव्रं विनिर्मलम् ।निर्बाधं रुचिरं स्वादु जलं सरसमित्यपि ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
उष्णं तिग्मं खरं तीक्ष्णं चण्डं तीव्रं तथा पटुः ।मङ्गलोऽङ्गारको भौम आरो वक्रः कुजः स्मृतः ॥ ७३ ॥
अनुष्टुप्
genderविadj.
तीव्रोग्रौ दारुणं घोरं दृढमुद्दाममुत्कटम् ।सुकुमारः सुखस्पर्शः कोमलो मृदुलो मृदु ॥ ९५ ॥
अनुष्टुप्
genderविadj.
अत्यर्थं निर्भरं तीव्रं गाढं बाढं दृढं भृशम् ।पूरितं भरितं पूर्णं शून्यरिक्ताखिलोद्वसाः ॥ १०७ ॥
अनुष्टुप्
genderविadj.
अथोष्णाश्च कटुस्तीक्ष्णस्तिग्मस्तीव्रत्रस्तथा खरः ॥ २५१७ ॥
metre not recognised
genderविadj.
उत्कर्षोऽतिशयस्तीव्रं नितान्तं निर्भरो भरः ।एकान्तमतिवेलञ्च गाढं बाढं भृशं पुनः ॥ २७४२ ॥
अनुष्टुप्
genderविadj.
गिरीशो गिरिशस्तीव्रः कपर्दी चन्द्रशेखरः ।महेश उग्रः श्रीकण्ठः शङ्करः प्रमथाधिपः ॥
अनुष्टुप्
genderपुंmasc.
तीव्रं निर्भरमेकान्तं नितान्तमतिशायनम् ।भरश्चातिशयो वाढं भृशं स्यान्मान्तरमव्ययम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
अविरतसन्ततसततानारतमनवरतमनिशमश्रान्तम् ।नित्यमजस्रं तीव्रं भृशमतिवेलं नितान्तमत्यन्तम् ॥ १३२ ॥
गीतिः
genderविadj.
तथा तिग्मोग्रतीक्ष्णोष्णतीव्रचण्डखराणि च ।माठरः पिङ्गलो दण्डश्चण्डांशोः पार्श्ववर्तिनः ॥ १७५ ॥
अनुष्टुप्
genderविadj.
वामोरुर्मीन(र्मूल)निलय आषाढी कामिको हरिः ।तीव्रश्च तरलो नीलस्त-कारः कीर्त्तितो बुधैः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
वामोरुमूलगो बिन्दुराषाढी कामिको हरिः ।तीव्रश्च तरलो नीलो णान्तस्थादिः त-कारकः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
तीव्रं तु गाढमेकान्तं नितान्तं दृढबाढवत् ।वशेऽनर्गलमुद्दाममुच्छृंखलमयन्त्रितम् ॥ १३२ ॥
अनुष्टुप्
genderविadj.
उष्णे च क्ली त्वसत्त्वेऽथ तीरं कूले नपुंसकम् ।तीरी तु शरभेदे स्त्री योऽल्पो वेगसमन्वितः ॥ ५४७ ॥
अनुष्टुप्
doubtful
तन्त्री तु कन्दरोहिण्यां तन्त्रं स्यादौषधोत्तमे ।तीव्रस्तीव्रोत्तमे तिक्तासुरीदूर्वाभिदि स्त्रियाम् ॥ ३७९ ॥
अनुष्टुप्
meaningsतीव्रोत्तम
तीव्र as a meaning in nānārtha verses
- धरणिकोश चण्डचण्डो दैत्यान्तरे तीव्रे चण्डो दासे यमस्य च । चण्डौषधिरुमा चण्डी चण्डी स्यात्कोपनाङ्गना ॥ Dharaṇikośa 12.2.6
- कोषकल्पतरु रौद्रगुन्द्रः पुमांस्तेजनके स्त्रियां तु स्याद्भद्रमुस्तासु तथा प्रियङ्गौ । स्यान्मुस्तके चाथ रसान्तरे ना रौद्रोऽन्यवद्भीषणतीव्रवाची ॥ ५३ ॥ Koṣakalpataru 6.27.53
- नानार्थार्णवसंक्षेप उत्कटउत्कटस्तूद्भटे मत्ते तीव्रेऽपि रभसोऽपठीत् । उज्जटः शून्यदेशे स्यादूर्ध्वीभूतजटादिषु ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 3.4.17
- परमानन्दीयनाममाला ररः कामवह्निशब्देषु तीव्रे रामे नरे पवौ । राः स्वर्णधनयोर्मेघे स्थानके रुर्भये ध्वनौ ॥ ३६ ॥ Paramānandīyanāmamālā 1.36
- परमानन्दीयनाममाला उग्रअथोग्र ईश्वरे तीव्रे शूद्रायां क्षत्रियाङ्गजे । उरो वक्षे प्रधाने चोषः सायंकल्ययोः स्मृतम् ॥ ६२ ॥ Paramānandīyanāmamālā 5.3.62
- शब्दरत्नावली आशुगअपाङ्गो लोचनान्ते स्यात् तिलके चाङ्गहीनके । आभोगः पूर्णतायान्तु यत्ने छत्रे च वारुले ॥ आयोगः व्यापृतौ तीरे गन्धमाल्योपहारके । आशुगः पवने बाणे तीव्रे सत्वरगन्तरि ॥ Śabdaratnāvalī 7.3.31
- शब्दरत्नावली उत्कटआदिष्टं क्लीबमाज्ञप्तोच्छिष्टयोर्देशिते त्रिषु । उत्कटो विषमे तीव्रे गाटमत्ते मदेऽपि च ॥ Śabdaratnāvalī 7.11.35
- शब्दरत्नावली निर्दटदयाशून्ये च तीव्रे च मत्ते च निष्प्रयोजने । निष्कुटः पुंसि केदारे गृहीय्यानकपाटयोः ॥ Śabdaratnāvalī 7.11.47
- शब्दरत्नावली तीक्ष्णक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
- शब्दरत्नाकर तिग्मध्वान्ते पापे गुणेऽज्ञाने मोहे तीक्ष्णं तु शस्त्रके । त्रिषु क्रूरोष्णशातेषु तिग्मस्तीव्रोष्णयोस्त्रिषु ॥ १९३४ ॥ Śabdaratnākara 4.1.1934
- तन्त्राभिधान ओआप्यायनी चोर्ध्वदन्तो लक्ष्मीर्वाणी सु(मु)खी द्विजः । उद्देश्यदर्शकस्तीव्रः कैलासो वसुधाक्षरः ॥ ४३ ॥ Tantrābhidhāna 2.14.43
- तन्त्राभिधान त----------------------------------- वामपादादिकस्तीव्रो हस्त्यश्वतरलोऽङ्घ्रिकः । नीलकोऽप्यर्थको धाता तडित् तु ता-र्णको मतः ॥ ३३ ॥ Tantrābhidhāna 6.33