दैत्या
daityāस्त्री · fem.In 8 kośas: 7 synonym verses, 2 as a nānārtha head word.
शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा ।गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च ।
अनुष्टुप्
genderस्त्रीfem.
वाल्कली कपिशा वीरा काहला कालवाब्धिजा ।शुण्डा दैत्या देवसृष्टा माधवी मद्यमस्त्रियाम् ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
सुलोमशा भूतजटा पूतना केशिकेत्यपि ।सुरायां सुरभिर्दैत्या गन्धाढ्या गन्धमादनी ॥ २८२ ॥
अनुष्टुप्
genderस्त्रीfem.
मुरा गन्धकुटी दैत्या लालपर्णी च गन्धिनी ।स्यात् शल्लकी मल्लकी च सुरभिः सुरभी रसा ॥
अनुष्टुप्
genderस्त्रीfem.
शङ्खिनी केशिनी चोरपुष्पिका शङ्खपुष्पिका ।मुरा गन्धकुटी दैत्या सालपर्ण्यश्वगन्धिका ॥ ६१४ ॥
अनुष्टुप्
genderस्त्रीfem.
वीरा दैत्या प्रसन्ना च माधवी गन्धमादनी ।गौडी च वाल्कली मध्वासवपक्वरसौ नरि ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
नाकुली सुवहा रास्ना छत्राकी सर्वलोचना ।गन्धिनी स्यात्तालपर्णी दैत्या गंधकुटी मुरम् ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
भेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् ।दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति ।दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु ।दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः ।दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु ।धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः ।नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः ।नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु ।पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥
अनुष्टुप्metre not read in every line