कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रसन्ना

prasannāस्त्री · fem.

In 14 kośas: 14 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.903 · p. 36
मद्यं मदिष्ठा मदिरा परिस्रुता कश्यं परिस्रुन्मधु कापिशायनम् ।गन्धोत्तमा कल्यमिरा परिप्लुता कादम्बरी स्वादुरसा हलिप्रिया ॥ ९०२ ॥शुण्डा हाला हारहूरं प्रसन्ना वारुणी सुरा ।माध्वीकं मदना देवसृष्टा कापिशमब्धिजा ॥ ९०३ ॥
इन्द्रवंशा
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.64
सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा ।गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता ॥ ३९ ॥मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.329 · p. 39
मध्वासवः शीधु सुरा प्रसन्ना,परिस्रुता स्यान्मदिरा मदिष्ठा ।कादम्बरी स्वादुरसा च शुण्डा,गन्धोत्तमा माधवकश्च हाला ॥ ३२९ ॥
उपजातिः
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.84 · p. 211
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.97 · p. 212
स्त्रीप्रसन्ना षणापानं पानगोष्ठी स्त्रियामियम् ।स्युर्गल्वर्कश्च रसकश्चषकश्चास्त्रियामिमे ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.61 · p. 300
गन्धोत्तमा स्वादुरसा प्रसन्नाम्भोधिजा न ना ।कादम्बरी द्वयोः शुण्डानुतर्षे मण्डमस्त्रियाम् ।द्राक्षाकृते तु मद्ये स्याद्धारहूरं च कापिशम् ॥ ६१ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.11 · p. 7
निशा स्याच्छुक्लपक्षे तु प्रसन्ना चन्द्रिकावती ॥ ११ ॥
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 121 · p. 61
प्रसन्नां वारुणीं हालां मधुवारां सुरां विदुः ।शुण्डासवः तद्विधायी शौण्डो गद्येत मद्यपः ॥ १२१ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.618 · p. 106
गन्धोत्तमा प्रसन्ना च इरा कादम्बरी तथा ।मद्यं कश्यं च मदिरा हाली साधारणी तथा ॥ ६१८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1518 · p. 241
देवसृष्टा प्रसन्ना च गन्धोत्तमा परिप्लुता ।मार्द्वीकं मदिरा मद्यं मदिष्ठा मदनाऽब्धिजा ॥ १५१८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्त (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.68 · p. 157
इरा गन्धोत्तमा मद्यं कश्यञ्च वरुणात्मजा ।मालिका च प्रसन्ना स्यात् परिस्रूच्च परिस्रूता ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 स्रू (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1554 · p. 187
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.16 · p. 80
वीरा दैत्या प्रसन्ना च माधवी गन्धमादनी ।गौडी च वाल्कली मध्वासवपक्वरसौ नरि ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.45 · p. 139
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.1 · p. 261
ईर्ष्यायां कुहना च दम्भचरणेऽथो पूतना राक्षसी-भेदे किं च हरीतकीभिदि विदि त्वाहुः स्त्रियां चेतनाम् ।वाच्ये[20a]प्राणिनि सा मताथ पृतना स्यात्सैन्यमात्रे चमू-भेदे चाथ वराङ्गनासु ललना जिह्वाशिराभेदयोः ।स्त्रियां प्रसन्ना मदिरासु वाच्येप्रसादयुक्तेऽथ फणिज्जमल्ल्योः ।कम्पिल्लके च प्रमदासलिङ्गंश्लेष्मघ्नमुक्तं कफहृत्सुभेद्ये ॥ १ ॥
शार्दूलविक्रीडितम्two metres in one verse
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1111 · p. 144
विदारिते प्रसन्ना तु स्त्री सुरायामथ त्रिषु ।अनाविलेऽथ प्रसवोन्मुखायां सुरभौ स्त्रियाम् ॥ ११११ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.57 · p. 238
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
meaningsसुरा