भेषज
bheṣajaक्ली · neut.In 14 kośas: 17 synonym verses, 1 as a nānārtha head word, 33 as a meaning of another word.
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ ॥भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया ।उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् ॥ ४७३ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
जाङ्गुलिको विषभिषक् व्यालग्राह्याहितुण्डिकः ।भैषज्यं भेषजं जायुरगदस्तन्त्रमौषधम् ॥ ६१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
genderक्लीneut.
यथा ज्वरितकण्डूलार्शसक्षयितदद्रुणाः ।त्रिष्वथो भेषजं क्लीबे भैषज्यं च भिषग्जितम् ॥ ३५९ ॥
अनुष्टुप्
genderक्लीneut.
सुखदुःखत्वचरुचहलताल्वस्थिहिङ्गुनाम् ।भेषजागुरुसृक्काणामपि तुत्थकुसुम्भयोः ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
उपचर्योपचारोऽथ भे(भै)षज्यं भेषजं स[156b]मे ।तन्त्रं जीवन्त-जायू नागद औषधमस्त्रियाम् ॥ ७९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
भिषक्सहाय-भेषजामयाविनश्चतुर्गुणाः ।चिकित्सितस्य पादकाश्चिकित्सकैर्निरूपिताः ॥ १०० ॥
पञ्चचामरम्
genderक्लीneut.
शैलेय-सृक्कत्त्वचभेषजानांस्थानाञ्जन-द्वार-शुकच्छदानाम् ।ह्रीबेर-पुष्पान्तिक धन्व-वल्क-कुसुम्भ-कल्कौमक-पद्मकानाम् ॥ ८१ ॥
उपजातिः
genderक्लीneut.
दोषज्ञश्च तथा चायुर्वेदी भेषजमौषधम् ।भैषज्यमगदस्तन्त्रं जायुरप्युच्यते बुधैः ॥ १३६ ॥
अनुष्टुप्
genderक्लीneut.
शिलाभवस्थानकभेषजास्थि-रुचत्वचद्वारहलासृजां च ।फलप्रसूनद्रवतां सुखादि-धनुर्दृशां हिङ्गुकुसुम्भकादेः ॥ ७४ ॥
उपेन्द्रवज्रा
genderक्लीneut.
औषधमगदस्तन्त्रं भैषज्यं चापि भेषजम् ॥ ७२७ ॥
metre not recognised
genderक्लीneut.
औषधं भेषजं जायुर्भैषज्यमगदोऽपि च ।उपतापो रुजा रुक् स्त्री रोगव्याध्यामया गदः ॥
अनुष्टुप्
genderक्लीneut.
स्यादिन्द्रभेषजं विश्वभेषजं भेषजञ्च तत् ।काञ्जिकं काञ्जिकासिद्धमसिलं धातुनाशनम् ॥
अनुष्टुप्
genderक्लीneut.
आयुर्वेद्यायुर्वेदिको भिषग्-भिषज-भिष्णजाः ।जायौ भेषज-भैषज्ये उपचारश्चिकित्सने ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्वे (wrong syllable)
genderक्लीneut.
भेषजभैषज्यौषधमगदो जायुश्च शुक्रवीर्ये तु ।रेतस्तेजश्चेन्द्रियबीजे करणं समे हृद्धृदये ॥ १११२ ॥
गीतिःmetre not read in every line
genderक्लीneut.
क्लीबे कलत्रविषबीजकुटुम्बरत्नतल्पोक्थकुङ्कुमप्रवीणतृणाक्षराणि ।शृङ्गादपीठगृहभेषजपृष्ठकिण्वदैवाण्डभाण्डचिवुकोडुपसाहसानि ॥ ६ ॥
वसन्ततिलकाmetre not read in every line
genderक्लीneut.
जायुः पुंस्यगदस्तन्त्रं भैषज्यौषधभेषजम् ।क्वाथः कषायो निर्यूहः फाण्टोऽतिक्वाथजो रसः ॥ १४१ ॥
अनुष्टुप्
genderक्लीneut.
भेषज as a meaning in nānārtha verses
- धरणिकोश द्रव्यद्रव्यं स्याद्भेषजे भव्ये द्रव्यं द्रविणमुच्यते । … ॥ Dharaṇikośa 25.3.12
- कोषकल्पतरु जीवन्तजीवाशम्योः कामरुहामृतवल्ल्यो- र्जीवन्ती स्यात्पुंसि पुनर्भेषजनाम्नि । वासन्तः स्यात्कोकिल उष्ट्रे च विटे च स्त्री माधव्यां पाटलिकायामपि यूथ्याम् ॥ ४५ ॥ Koṣakalpataru 6.16.45
- कोषकल्पतरु गोधूमएलायां करके च दाडिम इति त्रय्यामथो भेषजे गोधूमो नरि नागरङ्ग उदितो व्रीहेर्विभेदेऽपि च । व्याया[34a]मो नरि पौरुषे श्रमविधौ स्याद्दुर्गसंचारके सर्पे पाशिनि कुक्कुरे नरि विलोमः स्यात्प्रतीपेऽन्यवत् ॥ ९१ ॥ Koṣakalpataru 6.25.91
- कोषकल्पतरु तन्त्रइतिक्रियायां परिवारशास्त्रे प्रधानसिद्धान्त * भेषजेषु । स्याद्वेदशाखाभिदि तन्तुवाये स्यात्साध[47b]कोपायवशित्वसैन्ये ॥ ३७ ॥ Koṣakalpataru 6.27.37
- नानार्थार्णवसंक्षेप रास्नाभेषजे चापि धेनौ च राठा सुह्मेषु नीवृति । शोभायां चाथ राजिः स्यात् क्षेत्रेऽधो रसनस्य च ॥ ८४ ॥ Nānārthārṇavasaṃkṣepa 2.1.84
- नानार्थार्णवसंक्षेप वृद्धिवृद्धिस्त्वादैक्षु वृद्धाख्यभेषजे वर्धने सुखे । ऋणातिरिक्तदातव्ये प्रयोक्त्रे पुत्रजन्मनि ॥ १०२ ॥ Nānārthārṇavasaṃkṣepa 2.1.102
- नानार्थार्णवसंक्षेप जायुनृपभेदेऽप्यथो जायुः पित्ते स्याद्भेषजेऽपि च । जिनस्त्वर्हति शाक्ये च जूटस्तु निकुरम्बके ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 2.2.54
- नानार्थार्णवसंक्षेप योगरागद्रव्ये च योगस्तु ध्यानयोजनकर्मणि । भेषजे सङ्गतौ प्राप्तौ जवे विस्रब्धघातिनि ॥ १०० ॥ Nānārthārṇavasaṃkṣepa 2.2.100
- नानार्थार्णवसंक्षेप दैत्याद्वे दैतेये स्त्री तु दैत्या मुरासंज्ञकभेषजे । दैष्टं क्ली याज्ञिकानां स्याद् प्रोक्षण्यासादने त्रि तु ॥ ६२१ ॥ Nānārthārṇavasaṃkṣepa 2.5.621
- नानार्थार्णवसंक्षेप नडीस्तम्बे व्रात्यात् क्षत्त्रपूर्वक्षत्त्रियाजे नरे द्वयोः । नडी तु विद्रुमलतासंज्ञे स्याद्भेषजे स्त्रियाम् ॥ ६५८ ॥ Nānārthārṇavasaṃkṣepa 2.5.658
- नानार्थार्णवसंक्षेप मित्रमित्रं तु भेषजे क्लीबं स्थौणेयाख्ये सुहृद्यपि । लग्नाच्चतुर्थराशौ च मित्रं साव्वँत्सरा विदुः ॥ ९९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.998
- नानार्थार्णवसंक्षेप शशमुद्गमाषादिसस्यानां बीजकोदयां च कर्मणि(?) । शशस्तु रोमकर्णाख्यमृगे द्वे वा तु भेषजे ॥ १३११ ॥ Nānārthārṇavasaṃkṣepa 2.5.1311
- नानार्थार्णवसंक्षेप सलभेषजेऽथ सटा च स्त्री जटायां व्रतिनामथ । सिंहस्य केसरे न(प्)स्त्री मर्त्यजात्यन्तरे पुनः ॥ १४६३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1463
- नानार्थार्णवसंक्षेप करजभेषजे कञ्चुकस्त्वस्त्री कवचे वारवाणके । निर्मोके भोगिनश्चाह रभसः शब्दवित्तमः ॥ ३९६ ॥ Nānārthārṇavasaṃkṣepa 4.396
- नानार्थार्णवसंक्षेप क्रिमिघ्नक्रिमिघ्नो ना विडङ्गाख्यभेषजे त्रि तु हन्तरि । अमनुष्ये क्रिमेः स्त्री तु किन्नरी पिङ्गलाह्वये ॥ ४८३ ॥ Nānārthārṇavasaṃkṣepa 4.483
- नानार्थार्णवसंक्षेप चित्रकचित्रकस्तु पुमान् वह्निसंज्ञायां भेषजौषधौ । तन्मूले च तथैरण्डे द्वे तु राजिलभोगिनाम् ॥ ७४३ ॥ Nānārthārṇavasaṃkṣepa 4.743
- नानार्थार्णवसंक्षेप वालुकवालुका तु स्त्रियामुक्ता सिकतासु नपि त्वदः । एलावालुकसंज्ञे स्याद् भेषजेऽपि विषान्तरे ॥ १६७८ ॥ Nānārthārṇavasaṃkṣepa 4.1678
- नानार्थार्णवसंक्षेप शालेयवाद्यवादनदण्डे च शाकटस्तु त्रि हिंसके । शालेयस्तु पुमाञ्ज्ञेयो मिश्रेयासंज्ञभेषजे ॥ १८१० ॥ Nānārthārṇavasaṃkṣepa 4.1810
- नानार्थार्णवसंक्षेप शुषिरअर्थे वदन्ति विवरं रभसस्तु नखाह्वये । भेषजेऽप्यपठीद्वाद्यभेदे त्वजय उक्तवान् ॥ १८४६ ॥ Nānārthārṇavasaṃkṣepa 4.1846
- नानार्थार्णवसंक्षेप षड्ग्रन्थाभेषजे पिप्पलीमूलसंज्ञे स्यादपरे पुनः । आहुः शुक्लवचायां तां वचामात्रे परे विदुः ॥ १८६५ ॥ Nānārthārṇavasaṃkṣepa 4.1865
- नानार्थार्णवसंक्षेप हरेणुस्त्रियां कौन्तीसमाख्ये स्याद् भेषजे हाटकं पुनः । अस्त्रियां हेमनि क्ली तु स्यात् त्रिकण्टकसंस्थितौ ॥ २०३२ ॥ Nānārthārṇavasaṃkṣepa 4.2032
- नानार्थार्णवसंक्षेप अलम्बुसभेषजस्तम्बभेदे च प्रहस्ताख्ये च राक्षसे । अपांगर्भो मरुद्वह्न्योरथाथर्वणिरित्ययम् ॥ ३२ ॥ Nānārthārṇavasaṃkṣepa 6.32
- नानार्थार्णवसंक्षेप कुलत्थिकाक्लीबं त्वेषां भवेत् पुष्पे स्त्रियां तु स्यात् कुलत्थिका । कुलाल्यादिपदैः ख्याते भेषजे नृस्त्रियोः पुनः ॥ १७८ ॥ Nānārthārṇavasaṃkṣepa 6.178
- नानार्थार्णवसंक्षेप व्याघ्रनखभेषजे नृनपोस्तु स्याद् व्याघ्रस्य नखरेऽथ ना । एरण्डे व्याघ्रपुच्छः स्यात् पुच्छे व्याघ्रस्य पुन्नपोः ॥ ५५६ ॥ Nānārthārṇavasaṃkṣepa 6.556
- नानार्थार्णवसंक्षेप सुराष्ट्रजासुराष्ट्रजा पुनः स्त्रीत्व आढकीसंझभेषजे । सौराष्ट्रमृद्विशेषस्तत् समासादीनि पूर्ववत् ॥ ६८३ ॥ Nānārthārṇavasaṃkṣepa 6.683
- नानार्थार्णवसंक्षेप पारावतपदीसक्तो यो दक्षिणाशायां तत्रान्यत्र तु पूर्ववत् । पारावतपदी + + + + + + + भेषजे ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 8.11
- परमानन्दीयनाममाला कुष्ठकारा बन्दिजनागारे कुष्ठं भेषजरोगयोः । कायो देहे स्वभावे च लक्ष्ये संघे कदैवते ॥ १०५ ॥ Paramānandīyanāmamālā 5.7.105
- परमानन्दीयनाममाला कमलभेषजे पङ्कजे शीर्षे कमला मेखलाश्रियोः । कुशलः सुजन आख्यातः कुशलं क्षेमपुण्ययोः ॥ ११८ ॥ Paramānandīyanāmamālā 5.7.118
- शब्दरत्नावली पुण्डरीकभेषजावज(?) सितच्छत्रे पुण्डरीकं नपुंसकम् । बद्धपात्रे च पटहे पूर्णालकमुदीरितम् ॥ Śabdaratnāvalī 7.1.182
- शब्दरत्नावली योगबृद्धिनामौषधेऽपि स्याद् युग्मे हस्तचतुष्टये । योगोऽपूर्वार्थसंप्राप्तौ विष्कम्भादिषु भेषजे । देहस्थैर्यप्रयोगे च सङ्गतिध्यानयुक्तिषु ॥ Śabdaratnāvalī 7.3.19
- शब्दरत्नावली द्रव्यभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
- त्रिकाण्डशेष द्रव्यनिन्द्ये वस्त्रगृहे दूष्यं दस्युस्तस्करवैरिणौ । भेषजे द्रुविकारे च द्रव्यं भव्ये च पित्तले ॥ ३१४ ॥ Trikāṇḍaśeṣa 3.3.314
- वैजयन्ती द्रव्यनवनीतेऽनले धर्मे दानं हस्तिमदेऽपि च । द्रव्यं गुणानामाधारे भेषजे योगवित्तयोः ॥ १५ ॥ Vaijayantī 6.3.15