कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पारिभद्र

pāribhadraपुं · masc.

In 13 kośas: 16 synonym verses, 4 as a nānārtha head word, 11 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.45
पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.154 · p. 265
पिचुमन्दः पारिभद्रो नेता काकफलश्च सः ।यवनेष्टः पीतसारः सर्वतोभद्र इत्यपि ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.237 · p. 275
श्वेतस्कन्धः पारिभद्रः सपलाशो भवेद्द्विधा ।वल्लीवृक्षविभेदेन स्त्रियां किंशुलकेति च ॥ २३७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.304 · p. 283
एकादिवीरपर्यायः स्यादथो रक्तकेसरः ।पारिभद्रो निम्बतरुर्मन्दारः पारिजातकः ॥ ३०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.54 · p. 148
कुण्डली च करिव्याधः स्वर्णद्रुः कल्पपादपः ।स्वर्णशेफालिकाथ स्यात्पारिभद्रः प्रभद्रकः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.56 · p. 148
[30a]निम्बो नियमनोऽरिष्टो यवनेष्टोऽपि कुष्ठहा ।सुभद्रः सर्वतोभद्रः पारिभद्रः प्रभद्रकः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.98 · p. 151
पारिभद्रः पीतदारु पूतिदारु सुदारु च ।कर्पटं च महादारु सुमङ्गल्येन्द्रदारुणी ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 169
[48a] कुष्ठं रोगाभिधं वाप्यमुत्पलं पारिभव्यकम् ।पाकलं पाठकं पारिभद्रं च हरिभद्रकम् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.109 · p. 61
पारिभद्रो द्रुकिलिमं किलिमं देववल्लभः ।दारु च स्नेहविद्धं च देवेन्द्रस्वर्गतो द्रुमः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.136 · p. 75
शुभनामा शीतफेनः फेनिलो गर्भपातनः ।निम्बे तु सर्वतोभद्रः पारिभद्रः सुतिक्तकः ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शैलमरीचिः Pañcatattvaprakāśa 1.2.120 · p. 9
निषधो हिमवान् विन्ध्यो माल्यवान् गन्धमादनः ।हेमकूटः पारिभद्रः सप्तैते कुलपर्वताः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.165 · p. 12
पिचुमन्दुः पारिभद्रो निम्बोऽरिष्टोष्ट्रवल्लभौ ।कुरुवीरो नदीसर्ज्जः ककुभोऽर्ज्जुनवृक्षकः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.50 · p. 60
मन्दारोऽपि च मन्दारुर्मन्दरः पारिजातकः ।पारिजातो निम्बतरुः पारिभद्रश्च मन्दटः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.465 · p. 61
पारिभद्रस्तु निम्बद्रुर्मन्दारः पारिजातकः ।अक्षस्तुषः कर्षफलः कलिद्रुर्विभीतकः स्यात् त्रिषु भूतवासे ।मधुद्रुमः स्वादुफलो मधूकः स्वादुप्रसूनश्च गुडप्रसूनः ॥ ४६५ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 237 · p. 346
पारिभद्रे तु मन्दारुर्मन्दारः पारिजातकः ॥ २३७ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.71 · p. 50
पारिभद्रे द्रुकिलिमं देवदारु सुराह्वयम् ।पूतिकाष्ठं भद्रदारु पीतदारु च दारु च ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.32 · p. 335
स्याद्वीरणेऽन्त्येऽप्यथ पारिभद्रोमन्दारके स्यादपि निम्बवृक्षे ।प्रलम्बशत्रौ बलभद्र उक्तात्रायन्तिकायां च कुमारिकायाम् ॥ ३२ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.89 · p. 14
वृक्षभेदे च मन्दारपारिभद्रादिभिः पदैः ।प्रसिद्धे पारिभद्रस्तु मन्दाराह्वयपादपे ॥ ८९ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रच Śivakoṣa 22.4.427 · p. 39
पयोधरे नालिकेरे मुस्तायां च कसेरुणि ।पारिभद्रः पारिजाते तिक्तके देवदारुणि ॥ ४२७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.138 · p. 276
पारिभद्रो निम्बवृक्षमन्दारदेवदारुषु ।पीताम्बरः कैटभारौ शैलूषे वेशधारिणि ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)

पारिभद्र as a meaning in nānārtha verses