यवनेष्ट
yavaneṣṭaक्ली · neut.In 10 kośas: 18 synonym verses, 3 as a nānārtha head word.
ताम्रं म्लेच्छमुखं शुल्वं रक्तं द्व्यष्टमुदुम्बरम् ॥ १०३९ ॥म्लेच्छशाबरभेदाख्यं मर्कटास्यं कनीयसम् ।ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्त्रकम् ॥ १०४० ॥नागं गण्डूपदभवं वप्रं सिन्दूरकारणम् ।वर्ध्नं स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥ १०४१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
यवनेष्टः शिरामूलो ग्रन्थिमूलोऽपि वर्त्तुलः ।शिखाकन्दः पिण्डमूलो गजाण्डः पिण्डकः पुनः ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
तत्र रक्ते दीर्घपत्रो यवनेष्टश्च गृञ्जनः ।स्थूलकन्दः पलाण्डुस्तु तीक्ष्णकन्दश्च दीपनः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
विश्रगन्धः स च श्वेतः पीतो राजपलाण्डुकः ।यवनेष्टो दीर्घपत्रो राजपर्यायतः प्रियः ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
यवनेष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनम् ।वल्लीजमूषणं वीरं पलितं कटुकं च तत् ॥ १८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वृ (wrong syllable)
genderक्लीneut.
गजं गण्डूपदभवं नागं वम्रे च न स्त्रियाम् ।योगीष्टं यवनेष्टं स्यात् कुवङ्गं परिपिष्टकम् ॥ ५५० ॥
अनुष्टुप्
genderक्लीneut.
पिचुमन्दः पारिभद्रो नेता काकफलश्च सः ।यवनेष्टः पीतसारः सर्वतोभद्र इत्यपि ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
यवनेष्टं सुवर्णारि सीसपत्रं वरिष्ट(ष्ठ ?)कम् ।सिन्दूरं तच्चीनपिष्टं सिन्दूरतिलकोऽस्त्रियाम् ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
[30a]निम्बो नियमनोऽरिष्टो यवनेष्टोऽपि कुष्ठहा ।सुभद्रः सर्वतोभद्रः पारिभद्रः प्रभद्रकः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
मरिचं यवनेष्टं स्यादुषणं तीक्ष्णमूषणम् ।शिरोवृत्तं सुवृत्तं च कृष्णं कोलं च वेल्लजम् ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
पिचुमन्दो यवनेष्टः शक्रेष्टः शुकमालकः ।अरिष्टो हिङ्गुनिर्यासो नेता नियमनोऽपि च ॥ १३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderपुंmasc.
यवनेष्टं शिरोवृत्तमूषणं कोलकं च तत् ।पिप्पल्यां चपला कृष्णा वैदेही मागधी कणा ॥ ३०४ ॥
अनुष्टुप्
genderक्लीneut.
महाकन्दोऽपरोऽप्येष गृञ्जनो दीर्घपत्रकः ।पलाण्डौ यवनेष्टः स्यात् सुकन्दो वक्त्रदूषणः ॥ ३३९ ॥
अनुष्टुप्
genderपुंmasc.
कृष्णा सा चासुरी प्रोक्ता मरिचं कोल्लकोषणे ।वेल्लजं यवनेष्टं च कृष्णं स्याद्धार्मपत्तनम् ॥ १०१ ॥
अनुष्टुप्
genderक्लीneut.
सिन्दूरकारणं कृष्णं समोलूकं सुवर्णकम् ।योगेष्टं यवनेष्टं च वर्ध्रं च त्रपुबन्धकम् ॥ १७९७ ॥
अनुष्टुप्
genderक्लीneut.
परुण्डुश्च पलाण्डुश्च लतार्कश्चापराजिता ।गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः ॥ ६५६ ॥
अनुष्टुप्
genderपुंmasc.
यवनेष्टं समोलूकं हेमघ्नं भृतलोद्भवम् ।त्रपु नागं चीनपट्टं रङ्गमप्यथ पिच्छटम् ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
फरुण्डश्च पलाण्डुश्च लतार्कश्च परारिका ।गृञ्जनो यवनेष्टश्च पलाण्डोर्देश जातयः ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
चन्द्रेऽत्र पूर्ववत् सादि यवनेष्टस्तु पुंस्ययम् ।पलाण्डुभेदेषु दशखेकभेदेऽत्र पूर्ववत् ॥ ५१३ ॥
अनुष्टुप्
meaningsपलाण्डुभेद