कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गुग्गुलु

gugguluपुं · masc.

In 16 kośas: 13 synonym verses, 39 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.47 · p. 45
पीलुः सिनो गुडफलो गुग्गुलुस्तु पलंकषः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.58
कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः ।
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.214 · p. 85
चर्मिका भूर्जपत्रे स्यात् गुग्गुलौ तु महेश्वरः ।कामः पुरो जटायुश्च कुम्मोलू … कं वरम् ॥ २१४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
प्रियालः स्यात् पियालोऽपि गुग्गुलुर्गुर्गुलो भवेत् ।कादम्बः स्यात् कदम्बोऽपि वृक्षे स्यात् पिचुलः पिचुः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.410 · p. 65
शिल्पिकः पीतसारः स्यात् पिण्डितः पिण्डतैलकः ।करेवरः कृत्रिमको लेपनश्चाथ गुग्गुलुः ॥ ४१० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 152
रसाङ्गस्तिलपर्णी स्यात्कुम्भोलूखलकं पुनः ।कौशिकः कालनिर्यासः पुरो गुग्गुलु-गुग्गलौ ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.10 · p. 108
न्याय्ये वरं सारमजस्रवास्रेवीरं तथा भ्रामरमृक्षरं च ।उलूखलं गुग्गुलुवाच्यथौ[229b]र्वेपातालमुक्तं खलमप्यवन्याम् ॥ १० ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 उ (wrong syllable)
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.185 · p. 13
स्निग्धपात्रो गन्धसारो गुग्गुलुर्धूपभूरुहः ।आमोदसारो गन्धद्रुरगुरुर्नीललोहितः ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2020 · p. 334
गुग्गुलो गुग्गुलुः कुम्भः कौशिकश्च पलङ्कषः ॥ २०२० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.66 · p. 61
महाकालश्च किम्पाक उर्वटो बलिभुक्प्रियः ।गुग्गुलु गुग्गुलोऽपि स्यात् कौशिकश्च वरः पुरः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लु (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.160 · p. 231
मध्वष्ठीलो मधुष्ठीलो मधुश्चापि, पलङ्कषे ।गुग्गुलो गुग्गुलुः कुम्भं कुम्भोलूश्च कुभोलुवत् ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1791 · p. 217
गुग्गुलुः कालनिर्यासो देवधूपो महेश्वरः ।श्रीमान् स्निग्धः सर्वसहः श्लेषी कामो हरप्रियः ॥ १७९१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.53 · p. 49
गुग्गुलौ कालनिर्यासो देवधूपो महेश्वरः ।श्रीमान् स्निग्धः सर्वसहः श्लेष्मी तिक्तः कटुर्लघुः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.

गुग्गुलु as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् कौशिकमहेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः । Amarakośa 3.3.15
  • धरणिकोश कौशिककौशिकः शतमखेऽहितुण्डिके पेचके मुनिवरे च गुग्गुलौ । कौशिकोऽपि च नकुलेऽथ कौशिकी चण्डिका सरिदन्तरं च सा ॥ Dharaṇikośa 1.3.12
  • धरणिकोश पुरपुरं शरीरमित्याहुर्गृहोपरिगृहं पुरम् । पुरो गुग्गुलुराख्यातो नगरे तु पुरं पुरी ॥ Dharaṇikośa 26.3.15
  • धरणिकोश उदूखलउदूखलः कण्डन्यर्थे उदूखलं तु गुग्गुलौ । महानीलो भृङ्गराजे मणिनागविशेषयोः ॥ Dharaṇikośa 27.2.47
  • धरणिकोश पलंकशानागपाशः स्मृतः स्त्रीणां करणे वारुणायुधे । पलंकशा च मुण्डीरीलाक्षागुग्गुलकेषु च ॥ Dharaṇikośa 29.2.18
  • कोषकल्पतरु कौशिककामे भोगे कुतुके कौतुकमच्छिन्नमङ्गले चापि । दीपाङ्गयोः प्रतीकः प्रतिकूलविलोमयोः परवत् । विश्वामित्रे वृत्रशत्रावुलूके व्यालग्राहे गुग्गुलौ कोशविज्ञे । पुंलिङ्गः स्यात्कौशिकः कौशिकी तु कात्यायन्यां स्यात्स्रवन्तीविशेषे ॥ ७७ ॥ Koṣakalpataru 6.1.77
  • कोषकल्पतरु ग्रन्थिकवरुणेऽपि जम्बुकः स्याद्- ग्रन्थिक आद्ये करी[रः]स्यात् । गुग्गुलुमाद्रीसून्वो- र्दैवज्ञेऽन्त्ये तु पिप्पलीमूले ॥ ९२ ॥ Koṣakalpataru 6.1.92
  • कोषकल्पतरु कुम्भराशिप्रभेदे गजमूर्द्धपिण्डे पुमांस्त्रिवृद्गुग्गुलुगस्तु षण्ढे । स्त्री वारिपर्ण्यां गमि(?) पाटलायां गर्भोऽर्भके स्याज्जठरे च संधौ ॥ ४१ ॥ Koṣakalpataru 6.24.41
  • कोषकल्पतरु शमीस्याद्गुग्गुलुश्चाथ सिमस्तु सर्व- शक्तावबद्धेषु तथावधौ च । स्यात्सर्वनामापि समोऽखिलार्थः साधौ सदृक्षे च विशेष्यवत्स्यात् ॥ ७६ ॥ Koṣakalpataru 6.25.76
  • कोषकल्पतरु पुरस्यात्पत्तने पाटलिपुत्रके च गृहोर्ध्वगेहे नरि गुग्गुलौ स्यात् । क्लीबे तु देहे च पुराव्ययं स्यात् खुरः पुनः कोलदले शफे च ॥ ६ ॥ Koṣakalpataru 6.27.6
  • कोषकल्पतरु शिवशिवस्तु शंभौ नरि गुग्गुलौ च वेदे च योगान्तरके च कीले । स्यात्पुण्डरीकद्रुमवालुके च स्त्रियां तु झाटामलकौषधौ स्यात् ॥ ९५ ॥ Koṣakalpataru 6.29.95
  • कोषकल्पतरु उषऋषिर्वसिष्ठादिषु दीधितौ च वेदे च ना बाणसुतारजन्योः । उषाथ कम्रे त्रिषु गुग्गुलौ ना झषस्तु वैसारिणि पुंसि दिष्टः ॥ ४४ ॥ Koṣakalpataru 6.30.44
  • नानार्थार्णवसंक्षेप इन्द्रगुग्गुलूलूककुटजेष्विन्द्रस्याग्नेस्तु चित्रके । भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥ Nānārthārṇavasaṃkṣepa 2.2.2
  • नानार्थार्णवसंक्षेप कटुअङ्गुलित्रे खलीने च करिस्तु पुरुषे गजे । द्वयोः कर्तरि तु त्रि स्यात् कटुस्तु नरि गुग्गुलौ ॥ १६४ ॥ Nānārthārṇavasaṃkṣepa 2.5.164
  • नानार्थार्णवसंक्षेप कामगुग्गुलौ च निकामे तु क्ली स्यादनुमतेऽव्ययम् । काम्यं कामयितव्ये च कामसाधौ च भेद्यवत् ॥ १८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.189
  • नानार्थार्णवसंक्षेप तिक्ततिक्तस्तु पर्पटे पुंसि पटोले गुग्गुलावपि । विरसाख्यरसे षण्णां रसानां कटुकेऽपि च ॥ ५३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.535
  • नानार्थार्णवसंक्षेप पुरगुग्गुलौ नगरे त्वेषा पुरी लिङ्गत्रये द्वयोः । मर्त्यजात्यन्तरे शूद्रमहिषीजेऽथ केचन ॥ ७९५ ॥ Nānārthārṇavasaṃkṣepa 2.5.795
  • नानार्थार्णवसंक्षेप लघुक्लीबं त्वगुरुसंज्ञाकगन्धद्रव्येऽप्युशीरके । गुग्गुलौ तु पुमान् स्त्री तु स्पृक्कायां लघुरेव सा ॥ ११३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1135
  • नानार्थार्णवसंक्षेप वरगुग्गुलौ हरिताले च महोदर्याख्यमुस्तके । वर्तुलाकाररचितवह्निकुण्डेऽप्यथ स्त्रियाम् ॥ ११५२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1152
  • नानार्थार्णवसंक्षेप श्रीमत्वृक्षयोर्गुग्गुलौ द्वे तु शुके लक्ष्मीवति त्रिषु । शीवा त्वजगरे द्वे स्यात् सर्प इत्यपरे पुनः ॥ १३७८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1378
  • नानार्थार्णवसंक्षेप स्निग्धवयस्येऽपि ससौहार्दे कृतस्नेहनकर्मणि । पुमांस्तु गुग्गुलौ मन्त्रिजने ( तु? ) स्नेहने तु नप् ॥ १५१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1513
  • नानार्थार्णवसंक्षेप जटायुरामायणप्रसिद्धे स्याद् गृध्रराजेऽपि गुग्गुलौ । जनिमा मातापितरावुत्पत्तिस्तनयोऽपि च ॥ ८८ ॥ Nānārthārṇavasaṃkṣepa 3.2.88
  • नानार्थार्णवसंक्षेप कौशिकमिश्रवर्णविशेषे च पाण्डरश्यामले त्रि तु । तद्युक्ते कौशिकस्त्विन्द्रे गुग्गुलौ ना द्वयोः पुनः ॥ ६०१ ॥ Nānārthārṇavasaṃkṣepa 4.601
  • शिवकोष ग्रन्थिकगुग्गुलौ गैरिकं धातौ रुक्मे रक्ते च हल्लके । चित्रकः पावकेऽमण्डे चित्रकं मुखमण्डने ॥ २६ ॥ Śivakoṣa 1.3.26
  • शिवकोष जतुकलाक्षागुग्गुलुपालाशपर्पटेष्वपि हिङ्गुनि । जीविका जीवनीयायां जीवकः प्रियसर्जयोः ॥ २८ ॥ Śivakoṣa 1.3.28
  • शिवकोष कुम्भकुम्भं त्रिवृद्गुग्गुलयोर्भद्रास्थालीहठे स्त्रियाम् । रम्भा तु मृत्युपुष्पायां स्याद्रम्भः षट्पदालये ॥ ३२३ ॥ Śivakoṣa 19.1.323
  • शिवकोष शमीशमी सक्तुफलायां स्याच्छिम्बायां गुग्गुलावपि । श्यामा प्रियङ्गुसरलागोपीगुन्द्राहरिद्रासु ॥ ३३२ ॥ Śivakoṣa 20.1.332
  • शब्दरत्नावली कौशिककौशिको नकुलोलूकव्यालग्राहिषु गुग्गुलौ । कोषज्ञे कोषकारेऽपि विश्वामित्रमहेन्द्रयोः ॥ Śabdaratnāvalī 7.1.62
  • शब्दरत्नावली ग्रन्थिकग्रन्थिकं पिप्वलीमूले ग्रन्थिपर्णे च गुग्गुलौ । पाण्डवे सहदेवाख्ये करीरे गणके पुमान् ॥ Śabdaratnāvalī 7.1.66
  • शब्दरत्नावली कुन्तीकुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके ॥ हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥ कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥ गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ Śabdaratnāvalī 7.16.9
  • शब्दरत्नावली कुम्भवारस्त्री कामुके मत्ते घटे क्लीबन्तु गुग्गुलौ । कुम्भी स्त्रियामुखापृश्नी पाटला कट्फलेषु च ॥ Śabdaratnāvalī 7.24.4
  • शब्दरत्नावली जटायुजघन्यं मेहने क्लीबं चरमे गर्हितेऽन्यवत् । जटायुर्ना पक्षिभेदे गुग्गुलौ च कनीपसि ॥ Śabdaratnāvalī 7.26.41
  • शब्दरत्नावली पुरपुरमस्त्री पुरी क्लीबं गेहे देशे च वर्ष्मणि । प्रसूनादिदलावृत्तौ भवेत्पुंसि तु गुग्मुलौ ॥ Śabdaratnāvalī 7.27.31
  • शब्दरत्नावली उदूखलअक्षमाला चाक्षसूत्रे त्वरुन्धत्यामपि स्त्रियाम् । अङ्कपाली परिरभ्ये कोटिधात्रिकयोः स्त्रियाम् ॥ भवेदतिवलौषध्यां प्रबलेऽप्यभिधेयवत् । उदूखलं गुग्गुलौ स्याद्भवेदुलूखलेऽपि च ॥ एकाष्ठीला पापचेल्यां वकपुष्पेऽपि च स्त्रियाम् । भवेत्कलकलः कोलाहले सर्जरसेऽपि च ॥ भवेत्कर्मफलं कर्मरङ्गे च सुखदुःखयोः ॥ Śabdaratnāvalī 7.28.104
  • शब्दरत्नावली उषसर्पे विभीतके तार्क्ष्ये चक्रे कर्षे भवेत्पुमान् । क्लीबे खौवर्चले तुत्थे इन्द्रियेऽपि निगद्यते ॥ उषा स्त्री बाणकन्यायां कामिगुग्गुलयोः पुमान् । ऊषा च रात्रिशेषे स्यादुषाऽव्ययमपीष्यते ॥ Śabdaratnāvalī 7.31.3
  • शब्दरत्नाकर कौशिकगुग्गुलूलूकशक्रर्षिव्यालग्राहिषु कौशिकः । कृतान्तो दैवसिद्धान्तयमाकुशलकर्मसु ॥ २०६१ ॥ Śabdaratnākara 4.1.2061
  • त्रिकाण्डशेष जटायुयुद्धे हुट्टे च जन्यं स्याज्ज्या स्यान्मौर्व्यां क्षितावपि । जटायुर्गुग्गुलुद्रौ च त्रिबेद्यां त्रितये त्रयी ॥ ३१३ ॥ Trikāṇḍaśeṣa 3.3.313
  • त्रिकाण्डशेष पुरस्थाल्यो मन्थेऽपि पिठरं पवित्रं कुशमेध्ययोः । देहे पाटलिपुत्रे च पुरं स्यागुग्गुलौ पुरः ॥ ३६४ ॥ Trikāṇḍaśeṣa 3.3.364
  • वैजयन्ती इन्द्रगुग्गुलूलूककुटजेष्विन्द्रस्याग्नेश्च चित्रके । भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥ Vaijayantī 8.6.2